संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ गुणमुष्टिः

धनुर्वेदसंहिता - अथ गुणमुष्टिः

धनुर्वेदसंहिता


पताका वज्रमुष्टिश्च सिंहकर्णस्तथैव च
मत्सरी काकतुण्डी च योजनीया यथाक्रमम् ॥८४॥
दीर्घा तु तर्ज्जनी यत्र ह्याश्रिताङ्गुष्ठमूलकम्
पताका सा च विज्ञेया नालिका दूरमोक्षणैः ॥८५॥
तर्ज्जनी मध्यमा मध्यं अङ्गुष्ठो विशते यदि
वज्रमुष्टिस्तु सा ज्ञेया स्थूले नाराचमोक्षणैः ॥८६॥
अङ्गुष्ठमध्यदेशन्तु तर्जन्यग्रं शुभं स्थितम्
सिंहकर्णः स विज्ञेयो दृढलक्ष्यस्य वेधने ॥८७॥
अङ्गुष्ठनखमूले तु तर्ज्जन्यग्रञ्च संस्थितम्
मत्सरी सा च विज्ञेया चित्रलक्ष्यस्य वेधने ॥८८॥
अङ्गुष्ठाग्रे तु तर्जन्यां मुखं यत्र निवेशितम्
काकतुण्डी च सा ज्ञेया सूक्ष्मलक्ष्येषु योजिता ॥८९॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP