संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ शब्दवेधित्वम्

धनुर्वेदसंहिता - अथ शब्दवेधित्वम्

धनुर्वेदसंहिता


लक्ष्यस्थाने न्यसेत् कांस्यपात्रं हस्तद्वयान्तरे
ताडयेच्छर्कराभिस्तच्छब्दः सञ्जायते यदा ॥१६५॥
यत्र चैवोद्यते शब्दस्तं सम्यक् तत्र चिन्तयेत्
कर्णेन्द्रियमनोयोगाल्लक्ष्यं निश्चयतां नयेत् ॥१६६॥
पुनः शर्करया तच्च ताडयेच्छब्दहेतवे
पुनर्निश्चयतां नेयं शब्दस्थानानुसारतः ॥१६७॥
ततः किञ्चित् कृतं दूरं नित्यं नित्यं विधानतः
लक्ष्यं समभ्यसेद् ध्वान्ते शब्दवेधनहेतवे ॥१६८॥
ततो बाणेन हन्यात्तदवधानेन तीक्ष्णधीः
एतच्च दुष्करं कर्म्म भाग्ये कस्यापि सिद्ध्यति ॥१६९॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP