संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ विधिः

धनुर्वेदसंहिता - अथ विधिः

धनुर्वेदसंहिता


वामादायाति यल्लक्ष्यं दक्षिणं हि प्रधावति
तच्छिन्द्याच्चापमाकृष्य सव्येनैव च पाणिना ॥१६१॥
तथैव दक्षिणायान्तं विध्येद्बाणाद्धनुर्धरः
आलीढक्रममारोप्य त्वरा हन्याच्च तं नरः ॥१६२॥
वायोरपि बलं दृष्ट्वा वामदक्षिणवाहतः
लक्ष्यं संसाधयेदेवं गाधिपुत्र नृपात्मज ॥१६३॥
वायुः पृष्ठे दक्षिणे च वहन् सूचयते बलम्
सन्मुखीनश्च वामश्च भटानां भङ्गसूचकः ॥१६४॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP