संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ शरलक्षणानि

धनुर्वेदसंहिता - अथ शरलक्षणानि

धनुर्वेदसंहिता


अतः परं प्रवक्ष्यामि शराणां लक्षणं शुभम्
स्थूलं नाति सूक्ष्मञ्च नोऽपक्वं न कुभूमिजम् ॥५६॥
हीनग्रन्थिविदीर्णं च वर्जयेदीदृशं शरम्
पूर्णग्रन्थिं सुपक्वं च पाण्डुरं समयाहृतम् ॥५७॥
शरवंशा गृहीतव्या शरत्काले च गाधिज ॥५८॥
कठिनं वर्त्तुलं काण्डं गृह्वीयात् सुप्रदेशजम्
द्वौ हस्तौ मुष्टिहीनौ च दैर्घ्ये स्थूले कनिष्ठिका
विधेयाः शरमानेषु यन्त्रेष्वाकर्षयेत् ततः ॥५९॥
काकहंसशशादानां मत्स्यादक्रौञ्चकेकिनाम्
गृध्राणां कुरराणाञ्च पक्षा एते सुशोभनाः ॥६०॥
षडङ्गुलप्रमाणेन पक्षच्छेदञ्च कारयेत्
दशाङ्गुलमिता पक्षा शार्ङ्गचापस्य मार्गणे ॥६१॥
योज्या दृढाश्चतुः संख्याः सन्नद्धाः स्नायुतन्तुभिः
शराश्च त्रिविधा ज्ञेयाः स्त्रीपुंसाश्च नपुंसकः
व्यग्रस्थूलो भवेन्नारी पश्चात् स्थूलो भवेत् पुमान् ॥६२॥
समो नपुंसको ज्ञेय तल्लक्ष्यार्थे प्रशस्यते
दूर पातो युवत्या च पुरुषो भेदयेद् दृढम् ॥६३॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP