संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ संग्रामविधिः

धनुर्वेदसंहिता - अथ संग्रामविधिः

धनुर्वेदसंहिता


आदौ तु क्रियते मुद्रा पश्चाद्युद्धं समाचरेत्
सर्पमुद्रा कृता येन तस्य सिद्धिर्न संशयः ॥१३॥

श्री रुद्रं ध्यात्वा तन्मन्त्रं जपेत्
ॐ नमः परमात्मने सर्वशक्तिमते विरूपाक्षाय भालनेत्राय
रं हुं फट् स्वाहा ।
ततो हैमवतीं ध्यात्वा प्रणम्य युद्धमारभेत् । ॐ ह्रीं
श्रीं हैमवतीश्वरीं ह्रीं स्वाहा । ॐ ह्रीं वज्रयोगिन्यै स्वाहा ।
सिंहासनस्थां रुद्राणीं ध्यायेत् ॥१४॥

अपूर्ण शत्रुसामग्री पूर्णे वै स्वबलन्तथा
कुरुते पूर्णसत्वस्थो जयत्येको वसुन्धराम् ॥१५॥

पृष्ठे दक्षे योगिनी राहुयुक्ता
यस्यैकोऽयं शत्रुलक्षं निहन्ति
अर्कः पृष्ठे दक्षिणे यस्य गाधे
चन्द्रे वामे सन्मुखे वै निशायाम्
वायु पृष्ठे दक्षिणे यो विदध्यात्
योधा शत्रून्नाशयेद्दक्षिणेन ॥१६॥

या नाडी वहते चाङ्गे तस्यामेवाधिदेवता
सन्मुखेऽपि दिशा तेषां सर्वकार्य्यफलप्रदा ॥१७॥

यां दिशं वहते वायुर्युद्धं तद्दिशि दापयेत्
जयत्येव न सन्देहः शक्रोऽपि यदि चाग्रतः ॥१८॥

सूर्य्ये पूर्वे चोत्तरे च चन्द्रे पश्चिमदक्षिणं
सेनापतिबलं त्वेवं प्रेषयेन्नित्यमादरात् ॥१९॥

यत्र नाड्या वहेद् वायुस्तदङ्गे प्राणमेव च
आकृष्य गच्छेत् कर्णान्तं जयत्येव पुरन्दरम् ॥२०॥

प्रतिपक्षप्रहारेभ्यः पूर्णाङ्गं योऽभिरक्षति
न तस्य रिपुभिः शक्तिर्बलिष्ठैरपि हन्यते ॥२१॥

अङ्गुष्ठतर्जनीवंशे पादाङ्गुष्ठे तथा ध्वनिः
युद्धकाले च कर्त्तव्यो लक्षयोधाजयी भवेत् ॥२२॥

भूतत्त्वे ह्युदरं रक्षेत् पादौ रक्षेज्जलेन च
उरूश्च वह्नितलेन करौ रक्षेच्चवायुना ॥२३॥

सूर्य्ये पूर्वे चोत्तरे च मुखं कृत्वा जयेन्नरः
चन्द्र मुखं सदा कुर्य्याद्दक्षिणे पश्चिमे सुधीः ॥२४॥

चिरयुद्धे शुभश्चन्द्रः शीघ्रयुद्धे रविस्तथा
दूर युद्धे जयी चन्द्रः समीपस्थे दिवाकरः ॥२५॥

आकृष्य प्राणपवनं समारोहेच्च वाहनम्
समुत्तरेत् पदं दद्यात् सर्वकार्य्याणि साधयेत् ॥२६॥

न कालो विविधं घोरं न शस्त्रं न च पन्नगाः
न शत्रुव्याधिचौराद्याः शून्यस्थान्नाशितुं क्षमाः ॥२७॥

अयनतिथिदिनेशैः स्वीयतत्त्वेऽध्व युक्तो
यदि वहति कदाचिद्दैवयोगेन पुंसाम
स जयति रिपुसैन्यं स्तम्भमात्रस्वरेण
प्रभवति न च विघ्नं केशवस्यापि लोके ॥२८॥

जीवेन शस्त्रं वघ्नीनाज्जीवेनैव विकासयेत्
जीवेन प्रक्षिपेच्छस्त्रं युद्धे जयति सर्वदा ॥२९॥

वामनाड्युपदये चन्द्रः कर्त्तव्यो वामसन्मुखः
सूर्य्यचारे तथा सूर्य्यः पृष्ठे दक्षिणगो जयेत् ॥३०॥

दीप्ते कार्य्ये नाडी परिदिशि जीविता सदा कुर्य्यात्
शान्ते च जीवसहितात्वेवं सिद्ध्यन्ति कार्य्याणि ॥३१॥

तत्त्वबलान्नाडीवलमधिकं प्रोक्तं कपर्दिना नियतम्
ज्ञात्वैनं स्वर चारं नरो भवेत् कार्य्यनिपुणमतिः ॥३२॥

न देयमिति क्रुराय कुबुद्धयेऽशान्ताय
गुरुद्रोहिणेऽभक्तायेति । देयमिति ब्रह्मचारिणे
धर्म्मतः प्रजापालदुष्टदण्डविधारिणे साधुसंरक्ष
काय इत्येवं प्रवचनं प्रवचनमिति ॥३३॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP