संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथानध्यायः

धनुर्वेदसंहिता - अथानध्यायः

धनुर्वेदसंहिता


अष्टमी च ह्यमावास्या वर्जनीया चतुर्द्दशी
पूर्णिमार्द्धदिनं यावन्निषिद्धं सर्वकर्म्मसु ॥१११॥
अकाले गर्ज्जिते दैवे दुर्द्दिनं चाथवा भवेत्
पूर्वकाण्डहतं लक्ष्यमनध्याये प्रचक्षते ॥११२॥
अनुराधर्क्षमारभ्य षोडशर्क्षे दिवाकरः
यावच्चरति तं कालमकालं हि प्रचक्षते ॥११३॥
अरुणोदयः वेलायां वारिदो यदि गर्जति
तद्दिने स्यादनध्यायस्तमकालं प्रचक्षते ॥११४॥
श्रमं च कुर्वतस्तत्र भुजङ्गो दृश्यते यदि
अथवा भज्यते चापं यदैव श्रमकर्म्मणि ॥११५॥
त्रुट्यते वा गुणो यत्र प्रथमे बाणमोक्षणे
श्रमं तत्र न कुर्वीत शस्त्रे मतिमतां वरः ॥११६॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP