संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|चतुर्थनाम प्रथमकाण्डः| ६१ ते ६५ चतुर्थनाम प्रथमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०६ १०७ ते ११२ प्रथमकाण्ड - ६१ ते ६५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६१ ते ६५ Translation - भाषांतर ६१यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया। तन्ते सत्यस्य हस्ताभ्यामुदमुञ्चद् बृहस्पतिः ॥१॥अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा ।व्यन्ये यन्तु मृत्यवो यानाहुरितराञ्छतम् ॥२॥प्र विशतं प्राणापानावनड्वाहाविव व्रजम् ।शरीरमस्याङ्गानि जरिम्णे नयतं युवम् ॥३॥इहैव स्तं प्राणापानौ मेमं हासिष्टं मृत्यवे॥अयं जरिम्णः शेवधिररिष्ट इह वर्धताम् ॥४॥जरसे त्वा परि दध्मो जरसे नि धुयामसि ।जरा त्वा भद्रया नेषत् ।व्यन्ये यन्तु मृत्यवो यानाहुरितराञ्छतम् ॥५॥६२मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्। ग्राह्या गृभीतो यद्येष एतत्तत इन्द्राग्नी प्र मुमुक्तमेनम् ॥१॥यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।तमा हरामि निर्ऋतेरुपस्थादस्पार्षमेनं शतशारदाय ॥२॥सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।इन्द्रो यथैनं जरसे नयात्यति विश्वस्य दुरितस्य पारम् ॥३॥शतं जीव शरदो वर्धमानः शतं हेमन्तांछतमु वसन्तान् ।शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥४॥६३यत् ते अन्नं भुवस्पत आक्षियेत पृथिवीमनु ।तस्य नस्त्वं भुवस्पते सं प्र यच्छ प्रजापते ॥१॥व्यात् ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ।संवत्सरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि ॥२॥इयं त्वं भवस्त्वाहुतिः समिद्देवी सहीयसिराज्ञो वरुणस्य बन्धोसि सोऽमुमामुष्यायणममुष्याः पुत्रमह्वे रात्रये बधान ॥३॥मृणोसि देव सवितर्गायत्रेणच्छन्दसा मृणामुष्य पशून् द्विपदश्चतुष्पदः ॥४॥योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं जहि तं मृणस्तस्मै मा मीमृणस्तस्मै दुराहा ॥५॥६४नि ते पदं पदे मम नि चित्तमेतु निष्कृतः।यथास: केवलो ममाहं साधारणी तव ॥१॥पदेन गामनु यन्ति पदेनाश्वं पदा रथम् ।पदेन मर्या मत्त्वं न एषो नो अहं त्वत् ॥२॥माप सृपो मा परा सृपो मान्यत्रास्मन् मनस्कृथाः।यं त्वाहिरिव भोगैर्नाकुलेन परीमसि ॥३॥नि त्वा कृण्वे संनहने नि कुरीरे न्योपशे ।नि त्वाधमस्मि लोम्नि न्वि त्वा मुष्कयोर्मृजे ॥४॥६५घृताहृदा पृथिवी मा न एनोऽस्मान् प्रजान्वोचत किल्बिषाणि॥अनातुराः सुमनसः सुवीरा ज्योग् जीवन्तस्तव सख्ये स्याम ॥१॥अन्तरेमि यातुधानानन्तरेमि किमीदिनः ।धियाम पित्र्या वयं सरस्वत्या चरामसि ॥२॥मा ते रिषं खनिता यस्मै च त्वा खनामसि ।द्विपाच्चतुष्पादस्माकं मा रिषद् देव्योषधे ॥३॥अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।सध्रीचीः सव्रता भूत्वा अस्यावत वीर्यम् ॥४॥(इति चतुर्चनाम प्रथमकाण्डे त्रयोदशोऽनुवाकः ) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP