संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|चतुर्थनाम प्रथमकाण्डः| ५१ ते ५५ चतुर्थनाम प्रथमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०६ १०७ ते ११२ प्रथमकाण्ड - ५१ ते ५५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ५१ ते ५५ Translation - भाषांतर ५१गातो हविर्जनयन्तस्थ इन्द्राग्रं ज्येष्ठ पर्यगामेह देव ।स गातो गातोत्तमापयापिमस्मभ्यमिन्द्र ददतः प्रचेतः ॥१॥अग्निर्नः पुरएतास्त्वञ्जसा बृहस्पतिः सन्यास्तु नः सखा ।इन्द्रं हुवे वृत्रहणं पुरन्दरं भगेनाद्य भगवन्तः स्याम ॥२॥त्वं सोम दिव्यो नृचक्षाः सुगां अस्मभ्यं पथो अनु ख्यः ।अभि नो गोत्रं विदुष इव नेषोऽच्छा नो वाचमुशतीं जिगासि ॥३॥इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरम् ।आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥४॥५२ये पुरस्तादास्यन्देते गावौ स्वऋषभे इव।कृणोम्यर्वणी अहमश्ववारादणीयसी ॥१॥ये अधरादास्यन्देते गावौ स्वऋषभे इव ।कृणोम्यर्वणी अहमश्ववारादणीयसी ॥२॥ये पश्चादास्यन्देते गावौ स्वऋषभे इव ।कृणोम्यर्वणी अहमश्वारादणीयसी ॥३॥ये उत्तरादास्यन्देते गावी स्वऋषभे इव ।कृणोम्यर्वणी अहमश्ववारादणीयसी ॥४॥५३अग्ने यशस्विन् यशसा वर्धयेममिन्द्रवतीमुपचितिमिहा वह ।अयं मूर्धा परमेष्ठी सुवर्चा: समानानामुत्तम श्लोको अस्तु ॥१॥धाता विधर्ता परमोत संदृक् प्रजापतिः परमेष्ठी विराट् ।स्तोमाश्छन्दांसि निविदो म आहुस्ते अस्मै राष्ट्रमुप सं नमन्तु ॥२॥भद्रमिच्छन्त ऋषय: स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे ।ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उप सं नमन्तु ॥३॥उपा वर्तध्वमुप न एत सर्वेऽयं चेत्ताधिपतिर्वो अस्तु ।समानं मन्त्रमभि मन्त्रयाध्वा इमं पश्चादुप जीवाथ सर्वे ॥४॥५४त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं सखा युज्योसि जातवेद: ।त्वं विश्वविद् गातुवित् कविर्विश्वा आशा अभया: सन्त्वस्मे ॥१॥इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् ।त्रयस्त्रिंशद् यानि वीर्याणि तान्यग्निः प्र ददातु मे ॥२॥वर्च आ धेहि मे तन्वा सह ओजो वयो बलम् ।इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥३॥ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा ।अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ॥४॥ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा ।संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥५॥५५इदमाञ्जनमानजे शैलूनमाकनिक्रदम् ।अभि मा चक्रन्द भग ऋषभो वासितामिव ॥१॥अश्व: क्रनिक्रदद् यथा प्रत्यङ् मा भग आगमत् ।तमहं प्रेण्या अधि पुत्रमिवोपस्थ आधिषि ॥२॥अक्ष्यौ मे मधुसंकाशे जिह्वा मे मधुवादिनी ।नसोरधि प्रमन्दनं दत्सु मे सारघं मधु ॥३॥मधुमन्मम नीसनं जघनं मधुमन्मम ।मामित् किल त्वं वावनः शाखां मधुमतीमिव ॥४॥(इति चतुर्चनामप्रथमकाण्डे एकादशो ऽनुवाकः) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP