प्रथमकाण्ड - ११ ते १५

पैप्पलादसंहिता


११
अभीवर्तेन मणिना येनेन्द्रो अभिवावृते ।
तेनेमं ब्रह्मणस्पते अभि राष्ट्राय वर्तय ॥१॥
अभिवृत्य सपत्नाभि या नो अरातयः ।
अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥
अभि त्वा देवः सविताभि सोमो अवीवृतत् ।
अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
उदसौ सूर्ये अगादुदिदं मामकं वचः ।
यथाहं शत्रुहासान्यसपत्न: सपत्नहा ॥४॥
सपत्नक्षयणो वृषाभिराष्ट्रो विषासहि: ।
यथाहमेषां वीराणां विराजानि जनस्य च ॥५॥

१२
तुभ्यमेव जरिमन् वर्धतामयं मैनमन्ये मृत्यवो हिंसिषुस्त्वत् ।
मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्र्यात् पात्वंहसः ॥१॥
मित्रश्ध त्वा वरुणश्च रिशादी जरांमृत्युं कृष्णुतां संविदानौ ।
तदग्निर्होता वयुनानि विद्वान् विश्वानि देवो जनिमा विवक्तु ॥२॥
द्यौष्टे पिता पृथिवी माता जरांमृत्युं कृणुतां दीर्घमायुः ।
यथा जीवा अदित्या उपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥३॥
त्वमीशिषे पशूनां पार्थिवानां ये जाता उत ये जनित्वा ।
मेमं प्राण हासीन्मो अपानो मैनं मित्रा वधिषुर्मो अमित्राः ॥४॥

१३
इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रयतो न आगन् ।
एतं वां द्यावापृथिवी परि ददामि स मा तृषत् स मा क्षुधत् ॥१॥
ऊर्जमस्मा ऊर्जस्वती धत्तं पयो ऽस्मै पयस्वती धत्तम् ।
ऊर्जमस्मै द्यावापृथिवी अधातां विश्वे देवा मरुत ऊर्जमाप: ॥२॥
शिवा अस्य हृदयं तर्पयन्त्वनमीवो मोदमानश्चरेह ।
सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥३॥
तस्य पातारं सचतां पुरीषमूर्जा स्वधा सचतामेतमेषा ।
इन्द्र एतां ससृजे विद्धो अग्र ऊर्जा स्वधामजरां सा त एषा ।
तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥४॥

१४
विश्वे देवासो अभि रक्षतेममुतादित्या जागृत यूयमस्मिन् ॥
मेमं समान उत वान्यनाभिर्मेमं प्रापत् पौरुषेयो वधो यः ॥१॥
ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् ।
सर्वेभ्यो वः परि ददाम्येतं त एनं स्वस्ति जरसे नयाथ ॥२॥
ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष औषधीष्वप्सु।
ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्त मृत्यून् ॥३॥
येषां प्रयाजा उत वानुयाजा हुतभागा हुतादश्च देवाः ।
येषां वः पञ्च प्रदिशो विभक्तास्तां वो अस्मै सत्रसदः कृणोमि ॥४॥

१५
अहं ते भगमा ददेऽधि शीर्ष्ण इव स्रजम्।
महामूल इव पर्वतो ज्योक् पितृष्वासासै ॥१॥
इयं ते राजन् कन्या वधूर्नि धूयते यमः ।
सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः ॥२॥
इयं ते केतपा राजनिमां ते परि दध्मसि ।
ज्योक् पितृष्वासाता आ शीर्ष्णः समोप्यात् ॥३॥
असितस्य ब्रह्मणा कश्यपस्य गयस्य च ।
अन्तः कोशमिव जामयोऽपि नह्यामि ते भगम् ॥४॥
(इति चतुर्चनामप्रथमकाण्डे तृतीयोऽनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP