संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|चतुर्थनाम प्रथमकाण्डः| ३६ ते ४० चतुर्थनाम प्रथमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०६ १०७ ते ११२ प्रथमकाण्ड - ३६ ते ४० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ३६ ते ४० Translation - भाषांतर ३६याः पुरस्तादाचरन्ति या वा पश्चात् सदान्वाः।अश्मानमृच्छन्तीर्यन्तु योयं स्वादावनाद्यः ॥१॥या अधरादाचरन्त्युत्तराद् वा सदान्वाः।अश्मानमृच्छन्तीर्यन्तु योयं स्वादावनाद्यः ॥२॥याः पश्चादाचरन्ति पुरस्ताद् वा सदान्वाः।अश्मानमृच्छन्तीर्यन्तु योयं स्वादावनाद्यः ॥३॥या उत्तरादाचरन्त्यधराद् वा सदान्वाः।अश्मानमृच्छन्तीर्यन्तु योयं स्वादावनाद्यः ॥४॥३७उभयीरहमायता: पराचीरकरं त्वत् । देवेभिरन्या अस्ता बह्वीरन्या अथो दिवम् ॥१॥नमस्ते रुद्रास्यते नम: प्रतिहिताभ्य: ।नमो विसृज्यमानाभ्यो नमो निपतिताभ्य: ॥२॥हिरण्ययीर्म उल्बण्यः षट् सहस्राणि षट् शता ।ताभिः परि श्रयामहे ता नो रक्षन्तु सर्वतः ॥३॥बह्विदमन्यद्विष्ठितं तस्य कामं वि विध्यत ।अयस्मयं मे विमितं युष्मभ्यं महत् कृतं नमसा नमसेन्यम् ।तेना परि श्रयामहे तन्नो रक्षतु सर्वतः ॥४॥अयस्मयं वर्म कृण्वे द्वारं कृण्वे अयस्मयम् ।खीलानयस्मयान् कृण्वे ते नो रक्षन्तु सर्वतः ।बह्वीदमन्यद्विष्ठितं तस्य कामं वि विध्यत ॥५॥३८इमा यास्तिस्र: पृथिवीस्तासां ह भूमिरुत्तमा । तु.[[अथर्ववेदः/अथर्ववेद: काण्डं ६|तासामधि त्वचो अहं समु जग्रभ भेषजम् ॥१॥श्रेष्ठमसि वैरुधानां वसिष्ठं भेषजानाम् ।यज्ञो भग इव यामेषु देवेषु वरुणो यथा ॥२॥रेवतीरनाधृष्टा: सिषासन्तीः सिषासथ ।एता स्थ: केशवर्धनीरथो स्थ केशदृंहणी: ॥३॥दृंह मूलमाग्रं यच्छ विमध्यं यमयौषधे ।केशवर्धनमस्याथर्वणं केशदृहणमस्याथर्वणम् ॥४॥३९अग्ने गोभिर्न आ गहीन्दो रय्या सचस्व नः । इन्द्रो धर्ता गृहेषु न: ॥१॥सविता य: सहस्रिय: स नो गृहेषु रण्यतु ।आ पुष्टमेत्वा वसु ॥२॥त्वष्टा यो वृषभो युवा स नो गृहेषु रारणत्।सहस्त्रेण शतेन च ॥३॥धाता दधातु नो रयिमीशानो जगतस्पतिः ।स नः पूर्णेन यच्छतु ॥४॥४०ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती ।मम त्वष्टा च पूषा च ममैव सविता वशे ॥१॥मम विष्णुश्च सोमश्च ममैव मरुतो भुवन् ।सरस्वांश्च भगश्च विश्वे देवा वशे मम ॥२॥ममोभे द्यावापृथिवी अन्तरिक्ष स्वर्मम ।ममेमा: सर्वा ओषधीराप: सर्वा वशे मम ॥३॥मम गावो ममाश्वा ममाजाश्चावयश्च ममैव पुरुषा भुवन् ।ममेदं सर्वामात्मन्वदेजत् प्राणद् वशे मम ॥४॥मह्यमाप मधुमतेरयन्त मह्यं सूर्यो अभरो ज्योतिषाकम् ।मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचोधात् ॥५॥(इति चतुर्चनामप्रथमकाण्डे अष्टमो ऽनुवाकः) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP