प्रथमकाण्ड - ५६ ते ६०

पैप्पलादसंहिता


प्रेता जयता नर उग्रा व: सन्तु बाहवः ।
इन्द्रो वः शर्म यच्छत्वनाधृष्या यथासथ ॥१॥
उद्धर्षन्तां मघवन्नायुधान्युत सत्वनां मामकानां मनांसि ।
उद्धर्षन्तां वाजिनां वाजिनान्युद्वीराणां जयतामेतु घोष: ॥२॥
पृथग् घोषा उलुलय: केतुमन्त उदीरताम् ।
देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥३॥
अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
जयामित्रान् प्र पद्यस्व मामीषां कञ्चनोच्छिषः ॥४॥

५७
दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि ।
आप्नुहि श्रेयांसमति समं क्राम ॥१॥
स्रक्त्योसि प्रतिसरोसि पुन:सरोसि प्रत्यभिचरणोसि।
आप्नुहि श्रेयांसमति समं क्राम ॥२॥
प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्म: ।
आप्नुहि श्रेयांसमति समं क्राम ॥३॥
सूरिरसि वर्चाधास्तनूपानायुष्यः कृत्यादूषणः ।
आप्नुहि श्रेयांसमति समं क्राम ॥४॥
शुक्रोसि भ्राजोसि ज्योतिरसि स्वरसि ।
आप्नुहि श्रेयांसमति समं क्राम ॥५॥

५८
विष्कन्धस्य काबवस्य कर्दमस्थोलूक्या: ।
अपस्थानस्थ कृत्या यास्तेषां त्वं खृगले जहि ॥१॥
प्र मृणीह्युपहत्यां कर्दमं नीलशाक्यम् ।
अधा सारमिव दारुण आयुष्कृणोम्यन्तरम् ॥२॥
विविद्धस्यावतृण्णस्य हृदस्य चाहृदस्य च ।
त्रिपर्णी विश्वभेषजीदं कृणोतु भेषजम् ॥३॥
काबवस्य विष्कन्धस्यापस्थापनभेषजम् ।
इदं कृणोमि भेषजं यथायमगदोसति ॥४॥

५९
यस्मादङ्गात् संसुस्राव यद् बभूव गलन्त्यशः ।
गावो वत्समिव जानानास्तत् परैतु यथायथम् ॥१॥
ना सृगस्ति पतङ्गस्य तर्दस्य मशकाद्याः ।
वेणोः पुतुद्रोर्नास्त्यसृङ् मास्य ग्लौर्मापचिद्भुवत् ॥२॥
अहं वेद यथासिथ गुर्विका नाम वा असि ।
अमुं त्वं तमितो गच्छ यमहं द्वेष्मि पुरुषम् ॥३॥
तस्यापि मध्य आ सीद नील ग्रीवासु सीदता ।
वातस्यानु प्रवां मशकस्यानु संविदम् ॥४॥
प्रेतो यन्त्वग्रुवो निरितो यन्त्वग्रुवः ।
अधराचीमितः परः ॥५॥
प्राहं ग्लावमध्मासं निरहं ग्लावमध्मासम् ।
अधराचीरित: पर: ॥६॥

६०
अभि त्वामहमोजसेन्द्रो दस्यूनिवाभुवम् ।
सपत्नि नश्यतादितो दूरं गच्छाध्योकसः ॥१॥
सासहा इदहं पतिं सासहै श्वशुरा उभौ ।
अथो सपत्नीं सासहै यथा नश्यात्योकसः ॥२॥
अभिभूरहमागमं विश्वकर्मा महावदात् ।
अहं मित्रस्य कल्पन् येषु गृहेषु दुष्टरात् ॥३॥
उतिष्ठ मम वा इदं न तवेहापि किं चन ।
माञ्चैव पश्यन्नायत्यमुञ्च दिवि सूर्यम् ॥४॥
(इति चतुर्चनाम प्रथमकाण्डे द्वादशो अनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP