संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|चतुर्थनाम प्रथमकाण्डः| ६ ते १० चतुर्थनाम प्रथमकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ९० ९१ ते ९५ ९६ ते १०० १०१ ते १०६ १०७ ते ११२ प्रथमकाण्ड - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६ये त्रिषप्ता: पर्यन्ति विश्वा रूपाणि बिभ्रत: । वाचस्पतिर्बला तेषां तन्वमध्या दधातु मे ॥१॥उप न एहि वाचस्पते देवेन मनसा सह ।असोष्पते नि रमय मय्येव तन्वं मम ॥२॥इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।वाचस्पतिर्नि यच्छतु मय्येव तन्वं मम ॥३॥उपहूतो वाचस्पतिरुपहूतोऽहं वाचस्पत्यु: ।सं श्रुतेन राधिषीय मा श्रुतेन वि राधिषि व ॥४॥७दिव्यो गन्धर्वो भुवनस्य यस्पतिरेकायुवो नमसा विक्ष्वीड्यः । तं त्वा यौमि ब्रह्मणा देव दिव्य नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥दिव स्पृष्टो यजत: सूर्यत्वगवयाता हरसो दैव्यस्य ।एकायुवो नमसा सुशेवो मृडाद् गन्धर्वो भुवनस्य यस्पतिः ॥२॥अनवद्याभिः समु जग्म आभिरप्सराभिरपि गन्धर्व आसु ।समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥अभ्रिये दिद्युन्नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।ताभ्यो वो देवीर्नम इत् कृणोमि ॥४॥याः क्लन्दास्तमिषीचयो अक्षकामा मनोमुह: ।ताभ्यो गन्धर्वपत्नीभ्यो अप्सराभ्योऽकरं नमः ॥५॥८अमुष्मादधि पर्वतादवत्कमसि भेषजम् । भेषजं सुभेषजं यत्ते कृणोमि भेषजम् ॥१॥आदङ्गा कुविदङ्गा शतं यद् भेषजानि ते सहस्रं वा घ यानि ते।तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥अरुस्यानमिदं महत् पृथिव्या अध्युद्भृतम्।तदास्रावस्य भेषजं तदु रोगमनीनशत् ॥३॥उपजीका उद्भरन्ति समुद्रादधि भेषजम्।अरुस्यानमस्याथर्वणं रोगस्थानमस्याथर्वणम् ॥४॥९अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः । ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥नमस्ते राजन् वरुणास्तु मन्यवे विश्वं हि देव निचिकेषि दुग्धम्।शतं सहस्त्रं प्र सुवाम्यन्यानयं नो जीवं शरदो व्यापेत् ॥२॥यदुवक्थानृतं जिह्वया वृजिनं बहु ।राज्ञस्त्वा सत्य धर्मणो मुञ्चामि वरुणादहम् ॥३॥अमुञ्चं त्वा वैश्वानरादर्णवान् महतस्परि ।सञ्जातानुग्र आा वद ब्रह्म चाप चकीहि नः ॥४॥१०सीसायान्वाह वरुणः सीसायाग्निरुपावति । सीसं म इन्द्र: प्रायच्छदमीवायास्तु चातनम् ॥१॥इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः।अनेन विश्वा सासहै या जातानि पिशाच्याः ॥२॥ये ऽमावास्यां रात्रिमुदस्थुर्भ्राजमत्त्रिणः।अग्निस्तुरीयो यातुहा स उ नः पातु तेभ्यः ॥३॥यदि हंस्यश्वं यदि गां यदि पूरुषम् ।सीसेन विध्यामस्त्वा यथा नोसो अवीरहा ॥४॥(ड्रति चतुर्चनामप्रथमकाण्डे द्वितीयोऽनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP