संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
सरागलोकदुर्लभं विरागिलोकप...

श्रीमहागणेशपंचरत्नस्तोत्रम् - सरागलोकदुर्लभं विरागिलोकप...

श्रीमहागणेशपंचरत्नस्तोत्रम्


सरागलोकदुर्लभं विरागिलोकपूजितं
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ।
गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः
नमामि तं गणाधिपं कृपापयःपयोनिधिम् ॥१॥

गिरीन्द्रजामुखांबुज-प्रमोददान-भास्करं
करीन्द्रवक्त्र-मानताघसंघ-वारणोद्यतम् ।
सरीसृपेश-बद्धकुक्षि-माश्रयामि संततं
शरीरकान्ति-निर्जिताब्जबन्धु-बालसंततिम् ॥२॥

शुकादिमौनिवन्दितं गकारवाच्यमक्षरं
प्रकाममिष्टदायिनं सकामनम्रपंक्तये ।
चकासतं चतुर्भुजैः विकासपद्म पूजितं
प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ॥३॥

नराधिपत्वदायकं स्वरादिलोकदायकं
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ।
करांबुजोल्लसत्सृणिं विकारशून्यमानसैः
हृदा सदा विभावितं मुदा नमामि विघ्नपम् ॥४॥

श्रमापनोदनक्षमं समाहितान्तरात्मनां
सुमादिभिस्सदार्चितं क्षमानिधिं गणाधिपम् ।
रमाधवादिपूजितं यमान्तकात्मसंभवं
शमादिषड्गुणप्रदं नमामि तं विभूतये ॥५॥

गणाधिपस्य पंचकं नृणामभीष्टदायकं
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ।
भवन्ति ते विदांपुरः प्रगीतवैभवा जवात्
चिरायुषोऽधिकश्रियस्सुसूनवो न संशयः ॥६॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP