संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
लोकवीरं महापूज्यं सर्वरक्...

शास्तापञ्चरत्नम् - लोकवीरं महापूज्यं सर्वरक्...

शास्तापञ्चरत्नम्


लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् ।
पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥१॥

विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् ।
क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥२॥

मत्तमातङ्गगमनं कारुण्यामृतपूरितम् ।
सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥३॥

अस्मत्‌कुलेश्वरंदेवंअस्मच्छत्रुविनाशनम् ।
अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥४॥

पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् ।
आर्तत्राणपरंदेवंशास्तारं प्रणमाम्यहम् ॥५॥

पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः ।
तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥६॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP