संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्| रक्ताम्भोरुहदर्पभञ्जनमहास... पञ्चरत्नम् लोकवीरं महापूज्यं सर्वरक्... श्री अम्बापञ्चरत्नम् उद्यद्भानुसहस्रकोटिसदृशां... कञ्जातपत्रायतलोचनाय कर्णा... नारायण नारायण नारायण नारा... नमो नरकविद्वेषि नाभीनलिन ... करुणापूर्णसुधाब्धे कबलितघ... ओंकारनगरस्थं तं निगमान्तव... दुर्वारदुर्विषहदुःखशताभिघ... मत्तरोगशिरोपरिस्थितनृत्यम... जयत्यतिबलो रामो लक्ष्मणश्... वन्देऽहं वरदार्यं तं वत्स... प्रत्यूषे वरदः प्रसन्नवदन... वेदो नित्यमधीयतां तदुदितं... नाहं देहो नेन्द्रियाण्यन्... श्वपाकः- किं गंगांबुनि बि... मनोनिवृत्तिः परमोपशान्तिः... प्रातः स्मरामि परमेश्वर-व... रक्ताम्भोरुहदर्पभञ्जनमहास... आदित्यादिप्रभृतिकमिदं चक्... प्रातः स्मरामि ललितावदनार... सरागलोकदुर्लभं विरागिलोकप... मुदाकरात्तमोदकं सदाविमुक्... श्री जगन्नाथपञ्चकम् - रक्ताम्भोरुहदर्पभञ्जनमहास... श्री जगन्नाथपञ्चकम् Tags : panch ratnapanchakamsanskritपंचकम्पञ्चरत्नम्संस्कृत श्री जगन्नाथपञ्चकम् Translation - भाषांतर रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयम् मुक्ताहारविलंबिहेममकुटं रत्नोज्ज्वलत् कुण्डलम् ।वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितम् पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥१॥फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिम् विश्वेशं कमलाविलासविलसत् पादारविन्दद्वयम् ।दैत्यारिं सकलेन्दुमण्डितमुखं चक्राब्जहस्तद्वयम्वन्दे श्री पुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥२॥उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननम् राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।भक्तानां सकलार्तिनाशनकरं चिन्ताब्धिचिन्तामणिम् वन्दे श्री पुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥३॥नीलाद्रौ शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थम् सर्वालङ्कारयुक्तं नवघनरुचिरं संयुतं चाग्रजेन ।भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यम् वेदानां सारमीशं सुजनपरिवृतं ब्रह्मतातं स्मरामि ॥४॥दोर्भ्यां शोभितलाङ्गलं समुसलं कादम्बरीचञ्चलम् रत्नाढ्यं वरकुण्डलं भुजबलेनाक्रान्तभूमण्डलम् ।वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलम् संग्रामे चपलं शशाङ्कधवलं श्रीकामपालं भजे ॥५॥ N/A References : N/A Last Updated : January 07, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP