संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
करुणापूर्णसुधाब्धे कबलितघ...

अरुणाचलपञ्चरत्नम् - करुणापूर्णसुधाब्धे कबलितघ...

अरुणाचलपञ्चरत्नम्

करुणापूर्णसुधाब्धे कबलितघनविश्वरूप किरणावल्या ।
अरुणाचल परमात्मन् अरुणो भव चित्तकञ्जसुविकासाय ॥१॥
त्वय्यरुणाचल सर्वंभूत्वा स्थित्वा प्रलीनमेतच्चित्रम् ।
हृद्यहमित्यात्मतया नृत्यसि भोस्ते वदन्ति हृदयं नाम ॥२॥
अहमिति कुत आयातीत्यन्विष्यान्तः प्रविष्टयात्यमलधिया ।
अवगम्य स्वं रूपंशाम्यत्यरुणाचल त्वयि नदीवाब्धौ ॥३॥
त्यक्त्वा विषयं बाह्यं रुद्धप्राणेन रुद्धमनसान्तस्त्वाम् ।
ध्यायन् पश्यति योगी दीधितिमरुणाचल त्वयि महीयन्ते ॥४॥
त्वय्यर्पितमनसा त्वां पश्यन् सर्वं तवाकृतितया सततम् ।
भजतेऽनन्य प्रीत्या स जयत्यरुणाचल त्वयि सुखे मग्नः ॥५॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP