संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्| उद्यद्भानुसहस्रकोटिसदृशां... पञ्चरत्नम् लोकवीरं महापूज्यं सर्वरक्... श्री अम्बापञ्चरत्नम् उद्यद्भानुसहस्रकोटिसदृशां... कञ्जातपत्रायतलोचनाय कर्णा... नारायण नारायण नारायण नारा... नमो नरकविद्वेषि नाभीनलिन ... करुणापूर्णसुधाब्धे कबलितघ... ओंकारनगरस्थं तं निगमान्तव... दुर्वारदुर्विषहदुःखशताभिघ... मत्तरोगशिरोपरिस्थितनृत्यम... जयत्यतिबलो रामो लक्ष्मणश्... वन्देऽहं वरदार्यं तं वत्स... प्रत्यूषे वरदः प्रसन्नवदन... वेदो नित्यमधीयतां तदुदितं... नाहं देहो नेन्द्रियाण्यन्... श्वपाकः- किं गंगांबुनि बि... मनोनिवृत्तिः परमोपशान्तिः... प्रातः स्मरामि परमेश्वर-व... रक्ताम्भोरुहदर्पभञ्जनमहास... आदित्यादिप्रभृतिकमिदं चक्... प्रातः स्मरामि ललितावदनार... सरागलोकदुर्लभं विरागिलोकप... मुदाकरात्तमोदकं सदाविमुक्... मीनाक्षीपञ्चरत्नम् - उद्यद्भानुसहस्रकोटिसदृशां... मीनाक्षीपञ्चरत्नम् Tags : meenakshipanch ratnasanskritपञ्चरत्नम्मीनाक्षीसंस्कृत मीनाक्षीपञ्चरत्नम् (श्री शंकराचार्यकृतम्) Translation - भाषांतर उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलांबिम्बोष्ठीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृताम् ।विष्णुब्रह्मसुरेन्द्रसेवितपदां तत्वस्वरूपां शिवांमीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥१॥मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभांशिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम् ।सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितांमीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥२॥श्रीविद्यां शिववामभागनिलयां ह्रीङ्कारमन्त्रोज्ज्वलांश्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।श्रीमत्षण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनींमीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥३॥श्रीमत्सुन्दरनायिकां भयहरां ज्ञानप्रदां निर्मलांश्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।वीणावेणुमृदङ्गवाद्यरसिकां नानाविधामम्बिकांमीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥४॥नानायोगिमुनीन्द्रहृत्सुवसतिंनानार्थसिद्धिप्रदांनानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चिताम् ।नादब्रह्ममयीं परात्परतरां नानार्थतत्वात्मिकांमीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारांनिधिम् ॥५॥ N/A References : N/A Last Updated : January 07, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP