संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्| श्वपाकः- किं गंगांबुनि बि... पञ्चरत्नम् लोकवीरं महापूज्यं सर्वरक्... श्री अम्बापञ्चरत्नम् उद्यद्भानुसहस्रकोटिसदृशां... कञ्जातपत्रायतलोचनाय कर्णा... नारायण नारायण नारायण नारा... नमो नरकविद्वेषि नाभीनलिन ... करुणापूर्णसुधाब्धे कबलितघ... ओंकारनगरस्थं तं निगमान्तव... दुर्वारदुर्विषहदुःखशताभिघ... मत्तरोगशिरोपरिस्थितनृत्यम... जयत्यतिबलो रामो लक्ष्मणश्... वन्देऽहं वरदार्यं तं वत्स... प्रत्यूषे वरदः प्रसन्नवदन... वेदो नित्यमधीयतां तदुदितं... नाहं देहो नेन्द्रियाण्यन्... श्वपाकः- किं गंगांबुनि बि... मनोनिवृत्तिः परमोपशान्तिः... प्रातः स्मरामि परमेश्वर-व... रक्ताम्भोरुहदर्पभञ्जनमहास... आदित्यादिप्रभृतिकमिदं चक्... प्रातः स्मरामि ललितावदनार... सरागलोकदुर्लभं विरागिलोकप... मुदाकरात्तमोदकं सदाविमुक्... मनीषापञ्चकम् - श्वपाकः- किं गंगांबुनि बि... मनीषापञ्चकम् Tags : panch ratnapanchakamsanskritपंचकम्पञ्चरत्नम्संस्कृत मनीषापञ्चकम् Translation - भाषांतर श्वपाकः-किं गंगांबुनि बिंबितेऽम्बरमणौ चण्डालवाटीपयःपूरे चान्तरमस्तिकाञ्चनघटी मृत्कुंभयोर्वांबरे ।प्रत्यग्वस्तुनि निस्तरंगसहजानन्दावबोधांबुधौविप्रोऽयं श्वपचोऽयमित्यपि महान् कोऽयं विभेदभ्रमः ॥१॥श्रीमद्भगवत्पादाः-जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृंभतेया ब्रह्मादि पिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी ।सैवायं न च दृश्यवस्त्विति दृढा प्रज्ञापि यस्यास्ति चेत्चण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥२॥ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितंसर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् ।इत्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मलेचण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥३॥शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरोःनित्यं ब्रह्म निरंतरं विमृशता निर्व्याजशान्तात्मना ।भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥४॥या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यतेयद्भासा हृदयाक्षदेहविषयाः भान्ति स्वतोऽचेतनाः ।तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय-न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥५॥यत्सौख्यांबुधिलेशलेशत इमे शक्रादयो निर्वृताःयच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः ।यस्मिन्नित्यसुखांबुधौ गलितधीर्ब्रह्मैव न ब्रह्मवित्यः कश्चित्स सुरेन्द्रसेवितपदो नूनं मनीषा मम ॥६॥ N/A References : N/A Last Updated : January 07, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP