संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
प्रातः स्मरामि ललितावदनार...

श्रीललितापञ्चरत्नम् - प्रातः स्मरामि ललितावदनार...

श्रीललितापञ्चरत्नम्


प्रातः स्मरामि ललितावदनारविन्दं
बिम्बाधरं पृथुलमौक्तिकशॊभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं
मन्दस्मितं मृगमदॊज्ज्वलफालदेशम् ॥१॥

प्रातर्भजामि ललिताभुजकल्पवल्लीं
रत्नाङ्गुलीयलसदङ्गुळिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां
पुण्ड्रेक्षुचापकुसुमेषुसृणीदधानाम् ॥२॥

प्रातर्नमामि ललिताचरणारविन्दं
भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादि सुरनायकपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥३॥

प्रातस्तुवे परशिवां ललितां भवानीं
त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां
विश्वेश्वरीं निगमवाङ्मनसातिदूराम् ॥४॥

प्रातर्वदामि ललिते तव पुण्यनाम
कामेश्वरेति कमलेति महेश्वरीति ।
श्री शांभवीति जगतां जननी परेति
वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥५॥

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः
सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना
विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥६॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP