संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
मत्तरोगशिरोपरिस्थितनृत्यम...

श्रीदक्षिणामूर्ति पञ्चरत्नस्तोत्रम् - मत्तरोगशिरोपरिस्थितनृत्यम...

श्रीदक्षिणामूर्ति पञ्चरत्नस्तोत्रम्

मत्तरोगशिरोपरिस्थितनृत्यमानपदाम्बुजं
भक्तचिन्तितसिद्धिकालविचक्षणं कमलेक्षणम् ।
भुक्तिमुक्तिफलप्रदं भुवि पद्मजाच्युतपूजितं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥१॥
वित्तदप्रियमर्चितं कृतकृशा तीव्रतपोव्रतैः
मुक्तिकामिभिराश्रितैः मुहुर्मुनिभिर्दृढमानसैः ।
मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम्
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥२॥
कृत्तदक्षमखाधिपं वीरभद्रगणेन वै
यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।
रत्नभुग्गणनाथभृत् भ्रमरार्चिताङ्घ्रिसरोरुहम्
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥३॥
नक्तनादकलाधरं नगजापयोधरमण्डलं
लिप्तचन्दनपङ्ककुङ्कुममुद्रितामलविग्रहम् ।
शक्तिमन्तमशेषसृष्टिविधानके सकलं प्रभुं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥४॥
रक्तनीरजतुल्य पादपयोज सन्मणि नूपुरं
बन्धनत्रय भेद पेशल पङ्कजाक्ष शिलीमुखम् ।
हेमशैलशरासनं पृथु शिञ्जिनीकृत तक्षकं
दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥५॥
यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः
पुरातले मयाकृतं निखिलागममूलमहानलम् ।
तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात्
ते महेश्वर शङ्कराखिलविश्वनायक शाश्वत ॥६॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP