संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्| कञ्जातपत्रायतलोचनाय कर्णा... पञ्चरत्नम् लोकवीरं महापूज्यं सर्वरक्... श्री अम्बापञ्चरत्नम् उद्यद्भानुसहस्रकोटिसदृशां... कञ्जातपत्रायतलोचनाय कर्णा... नारायण नारायण नारायण नारा... नमो नरकविद्वेषि नाभीनलिन ... करुणापूर्णसुधाब्धे कबलितघ... ओंकारनगरस्थं तं निगमान्तव... दुर्वारदुर्विषहदुःखशताभिघ... मत्तरोगशिरोपरिस्थितनृत्यम... जयत्यतिबलो रामो लक्ष्मणश्... वन्देऽहं वरदार्यं तं वत्स... प्रत्यूषे वरदः प्रसन्नवदन... वेदो नित्यमधीयतां तदुदितं... नाहं देहो नेन्द्रियाण्यन्... श्वपाकः- किं गंगांबुनि बि... मनोनिवृत्तिः परमोपशान्तिः... प्रातः स्मरामि परमेश्वर-व... रक्ताम्भोरुहदर्पभञ्जनमहास... आदित्यादिप्रभृतिकमिदं चक्... प्रातः स्मरामि ललितावदनार... सरागलोकदुर्लभं विरागिलोकप... मुदाकरात्तमोदकं सदाविमुक्... श्रीरामपञ्चरत्नम् - कञ्जातपत्रायतलोचनाय कर्णा... श्रीरामपञ्चरत्नम् Tags : panch ratnaramsanskritपञ्चरत्नम्रामसंस्कृत श्रीरामपञ्चरत्नम् Translation - भाषांतर कञ्जातपत्रायतलोचनाय कर्णावतंसोज्ज्वलकुण्डलाय ।कारुण्यपात्राय सुवंशजायनमोऽस्तु रामायसलक्ष्मणाय ॥१॥विद्युत् निभांभोदसुविग्रहाय विद्याधरैस्संस्तुत सद्गुणाय ।वीरावताराय विरोधिहन्त्रेनमोऽस्तु रामायसलक्ष्मणाय ॥२॥संसक्तदिव्यायुधकार्मुकाय समुद्रगर्वापहरायुधाय ।सुग्रीवमित्राय सुरारिहन्त्रेनमोऽस्तु रामायसलक्ष्मणाय ॥३॥पीताम्बरालंकृत मध्यकाय पितामहेन्द्रामर वन्दिताय ।पित्रे स्वभक्तस्य जनस्य मात्रेनमोऽस्तु रामायसलक्ष्मणाय ॥४॥नमो नमस्तेऽखिलपूजिताय नमो नमश्चन्द्रनिभाननाय ।नमो नमस्ते रघुवंशजायनमोऽस्तु रामायसलक्ष्मणाय ॥५॥इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठेन्नरः ।सर्वपाप विनिर्मुक्तः स याति परमां गतिम् ॥६॥=============नमो रामाय हरये विष्णवेप्रभविष्णवे आदिदेवाय देवाय पुराणाय गदाभृते ।विष्टरे पुष्पके नित्यं निविष्टाय महात्मने प्रहष्ट वानरानीकजुष्टपादाम्बुजाय ते ॥१॥निष्पिष्ट राक्षसेन्द्राय जगदिष्टविधायिनेनमः सहस्त्रशिरसे सहस्त्रचरणाय च । सहस्त्राक्षाय शुद्धाय राघवायच विष्णवे भक्तार्तिहारिणे तुभ्यंसीतायाः पतयेनमः ॥२॥हरये नारसिंहाय दैत्यराजविदारिणे नमस्तुभ्यं वराहाय दन्ष्ट्रोद्धृतवसुन्धर । त्रिविक्रमयाय भवते बलियज्ञविभेदिनेनमो वामन रूपाय नमो मन्दरधारिणे ॥३॥नमस्ते मत्स्यरूपायत्रयीपालनकारिणेनमः परशुरामाय क्षत्रियान्तकराय ते ।नमस्ते राक्षसघ्नाय नमो राघवरूपिणे महादेवमहाभीममहाकोदण्डभेदिने ॥४॥क्षत्रियान्तकरक्रूरभार्गवत्रासकारिणेनमोस्त्वहल्यासंतापहारिणे चापधारिणे । नागायुतबलोपेतताटकादेहहारिणेशिलाकठिनविस्तारवालिवक्षोविभेदिने ॥५॥ नमो मायामृगोन्माथकारिणेsज्ञानहारिणेदशस्यन्दनदु:खाब्धिशोषणागत्स्यरूपिणे । अनेकोर्मिसमाधूतसमुद्रमदहारिणे मैथिलीमानसाम्भोजभानवे लोकसाक्षिणे ॥६॥राजेन्द्राय नमस्तुभ्यं जानकीपतये हरेतारकब्रह्मणे तुभ्यं नमो राजीवलोचन ।रामाय रामचन्द्राय वरेण्याय सुखात्मनेविश्वामित्रप्रियायेदं नमः खरविदारिणे ॥७॥प्रसीद देवदेवेश भक्तानामभयप्रदरक्ष मां करुणासिन्धो रामचन्द्र नमोsस्तु ते ।रक्ष मां वेदवचसामप्यगोचर राघवपाहि मां कृपया राम शरणं त्वामुपैम्यहम् ॥८॥ रघुवीर महामोहमपाकुरु ममाधुनास्नाने चाचमने भुक्तौ जाग्रत्स्वप्नसुषुप्तिषु सर्वावस्थासु सर्वत्र पाहि मां रघुनन्दन ॥९॥महिमानं तव स्तोतुं कः समर्थो जगत्त्रये । त्वमेव त्वन्महत्वं वै जानासि रघुनन्दन ॥१०॥(स्कन्द पुराण ४६/३१-४९) N/A References : N/A Last Updated : January 07, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP