संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
प्रातः स्मरामि परमेश्वर-व...

श्रीपरमेश्वर पञ्चरत्नस्तोत्रम - प्रातः स्मरामि परमेश्वर-व...

श्रीपरमेश्वर पञ्चरत्नस्तोत्रम




प्रातः स्मरामि परमेश्वर-वक्त्रपद्मं
फालाक्षकीलपरिशोषितपञ्चबाणम् ।
भस्मत्रिपुण्ड्रलसितं फणिकुण्डलाढ्यं
कुंदेन्दुचन्दनसुधासममन्दहासम् ॥१॥

प्रातर्भजामि परमेश्वर-बाहुदण्डान्
खट्वाङ्गशूलहरिणाहिपिनाकयुक्तान् ।
गौरीकपोलकुचरंजितपत्ररेखान्
सौवर्णकङ्कणमणिद्युतिभासमानान् ॥२॥

प्रातर्नमामि परमेश्वरपादपद्मं
पद्मोद्भवामरमुनीन्द्रमनोनिवासम् ।
पद्माक्षनेत्रसरसीरुहपूजनीयं
पद्माङ्कुशध्वजसुदर्शनलांछनाढ्यम् ॥३॥

प्रातः स्मरामि परमेश्वर पुण्यमूर्तिं
कर्पूरकुन्दधवलं गजचर्मचेलम्
गङ्गाधरं घनकपर्दविभासमानं
कात्यायनी-तनु-विभूषित-वामभागम् ॥४॥

प्रातः स्मरामि परमेश्वर-पुण्यनाम
श्रेयः प्रदं सकलदुःखविनाशहेतुम् ।
संसारतापशमनं कलिकल्मषघ्नं
गोकोटिदानफलदं स्मरणेन पुंसाम् ॥५॥

श्रीपञ्चरत्नानि महेश्वरस्य
भक्त्या पठेद्यः प्रयतः प्रभाते ।
आयुष्यमारोग्यमनेकभोगान्
प्राप्नोति कैवल्यपदं दुरापम् ॥६॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP