संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्| वन्देऽहं वरदार्यं तं वत्स... पञ्चरत्नम् लोकवीरं महापूज्यं सर्वरक्... श्री अम्बापञ्चरत्नम् उद्यद्भानुसहस्रकोटिसदृशां... कञ्जातपत्रायतलोचनाय कर्णा... नारायण नारायण नारायण नारा... नमो नरकविद्वेषि नाभीनलिन ... करुणापूर्णसुधाब्धे कबलितघ... ओंकारनगरस्थं तं निगमान्तव... दुर्वारदुर्विषहदुःखशताभिघ... मत्तरोगशिरोपरिस्थितनृत्यम... जयत्यतिबलो रामो लक्ष्मणश्... वन्देऽहं वरदार्यं तं वत्स... प्रत्यूषे वरदः प्रसन्नवदन... वेदो नित्यमधीयतां तदुदितं... नाहं देहो नेन्द्रियाण्यन्... श्वपाकः- किं गंगांबुनि बि... मनोनिवृत्तिः परमोपशान्तिः... प्रातः स्मरामि परमेश्वर-व... रक्ताम्भोरुहदर्पभञ्जनमहास... आदित्यादिप्रभृतिकमिदं चक्... प्रातः स्मरामि ललितावदनार... सरागलोकदुर्लभं विरागिलोकप... मुदाकरात्तमोदकं सदाविमुक्... श्रीपरत्वादिपञ्चकम् - वन्देऽहं वरदार्यं तं वत्स... श्रीपरत्वादिपञ्चकम् Tags : panch ratnapanchakamsanskritपंचकम्पञ्चरत्नम्संस्कृत श्रीपरत्वादिपञ्चकम् Translation - भाषांतर वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम् ।भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि ॥परवासुदेवस्तुतिःउद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल-ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणै- ।र्जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलंश्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥१॥व्यूहवासुदेवस्तुतिःआमोदे भुवने प्रमोद उत संमोदे च सङ्कर्षणंप्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम् ।कुर्वाणान् मतिमुख्यषड्गुणवरैः युक्तांस्त्रियुग्मात्मकैःव्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे ॥२॥विभवस्तुतिःवेदान्वेषण मन्दराद्रिभरण क्ष्मोद्धारण स्वाश्रित-प्रह्लादावन भूमिभिक्षण जगद्विक्रान्तयो यत्क्रियाः ।दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणंकालिन्द्या अतिपाप कंसनिधनं यत्क्रीडितं तं नुमः ॥३॥अन्तर्यामिस्तुतिःयो देवादि चतुविधेष्ट जनिषु ब्रह्माण्डकोशान्तरेसंभक्तेषुचराचरेषु निवसन्नास्ते सदान्तर्बहिः ।विष्णुं तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरंस्वाङ्गुष्ठप्रमितं च योगिहृदयेष्वासीनमीशं भजे ॥४॥अर्चास्तुतिःश्रीरङ्गस्थल वेङ्कटाद्रि करिगिर्यादौ शतेऽष्टोत्तरेस्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे ।अर्चारूपिणमर्चकाभिमतितः स्वीकुर्वते विग्रहंपूजां चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः ॥५॥फलश्रुतिःप्रातर्विष्णोः परत्वादि पञ्चकस्तुतिमुत्तमाम्पठन् प्राप्नोति भगवद्भक्तिं वरद निर्मिताम् ॥६॥॥इति श्रीपरत्वादिपञ्चकं समाप्तम्॥ N/A References : N/A Last Updated : January 07, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP