संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्|
दुर्वारदुर्विषहदुःखशताभिघ...

शरणपञ्चकम् - दुर्वारदुर्विषहदुःखशताभिघ...

शरणपञ्चकम्


दुर्वारदुर्विषहदुःखशताभिघातै-
र्दूरार्दितस्य भगवन्, मनसो गतिस्त्वम् ।
दिष्ट्याद्य दिव्यकरुणावरुणालयं तं
त्वां सत्यसायिभगवन्, शरणं प्रपद्ये ॥१॥
मन्दस्मितातिरमणीयमुखारविन्दं
कारुण्यवर्षकमनीयकटाक्षपातम् ।
शान्तिप्रदं भृशमशान्तहृदन्तराणां
त्वां सत्यसायिभगवन्, शरणं प्रपद्ये ॥२॥
भूयासमुत्सुकमतिर्भगवत्पदाब्ज-
सेवासु भागवतसङ्कथनोत्सवेषु ।
न स्यां दुरन्ततरभौतिकसौख्यमग्न-
स्त्वां सत्यसायिभगवन्, शरणं प्रपद्ये ॥३॥
नित्यं स्वधर्मवशकर्ममयप्रसूनै-
रत्यन्तपावनतरैः परिपूज्य च त्वाम् ।
सत्यां प्रशान्तिमुपगच्छतु जीवितं मे
त्वां सत्यसायिभगवन्, शरणं प्रपद्ये ॥४॥
दिव्यानुभाव, दयया शिशिरीकुरुष्व
दीनं भवच्चरणदासममुं महात्मन् ।
त्वद्दर्शनामृतकणास्वादनैकतृप्त-
स्त्वां सत्यसायिभगवन्, शरणं प्रपद्ये ॥५॥

N/A

References : N/A
Last Updated : January 07, 2019

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP