संस्कृत सूची|संस्कृत साहित्य|पञ्चरत्नम्| वेदो नित्यमधीयतां तदुदितं... पञ्चरत्नम् लोकवीरं महापूज्यं सर्वरक्... श्री अम्बापञ्चरत्नम् उद्यद्भानुसहस्रकोटिसदृशां... कञ्जातपत्रायतलोचनाय कर्णा... नारायण नारायण नारायण नारा... नमो नरकविद्वेषि नाभीनलिन ... करुणापूर्णसुधाब्धे कबलितघ... ओंकारनगरस्थं तं निगमान्तव... दुर्वारदुर्विषहदुःखशताभिघ... मत्तरोगशिरोपरिस्थितनृत्यम... जयत्यतिबलो रामो लक्ष्मणश्... वन्देऽहं वरदार्यं तं वत्स... प्रत्यूषे वरदः प्रसन्नवदन... वेदो नित्यमधीयतां तदुदितं... नाहं देहो नेन्द्रियाण्यन्... श्वपाकः- किं गंगांबुनि बि... मनोनिवृत्तिः परमोपशान्तिः... प्रातः स्मरामि परमेश्वर-व... रक्ताम्भोरुहदर्पभञ्जनमहास... आदित्यादिप्रभृतिकमिदं चक्... प्रातः स्मरामि ललितावदनार... सरागलोकदुर्लभं विरागिलोकप... मुदाकरात्तमोदकं सदाविमुक्... साधनपञ्चकम् - वेदो नित्यमधीयतां तदुदितं... साधनपञ्चकम् Tags : panch ratnapanchakamsanskritपंचकमपञ्चरत्नम्संस्कृत साधनपञ्चकम् (श्रीमच्छंकरभगवत्पादविरचितम्) Translation - भाषांतर वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतांतेनेशस्य विधीयतामपचितिः काम्ये मनस्त्यज्यताम् ।पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयता-मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥१॥संगः सत्सुविधीयतां भगवतो भक्तिर्दृढा धीयतांशान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।सद्विद्वानुपसर्प्यतां प्रतिदिनं तत्पादुका सेव्यतांब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥२॥वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतांदुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम् ।ब्रह्मैवास्मि विभाव्यतामहरहर्गर्वः परित्यज्यतांदेहेऽहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥३॥क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतांस्वाद्वन्नं न तु याच्यतां विधिवशात्प्राप्तेन सन्तुष्यताम् ।शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-मौदासीन्यमभीप्स्यतां जनकृपा नैष्ठुर्यमुत्सृज्यताम् ॥४॥एकान्ते सुखमास्यतां परतरे चेतः समाधीयतांपूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् ।प्राक्कर्म प्रविलीयतां चितिबलान्नाप्युत्तरैः श्लिष्यतांप्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥५॥यः श्लोकपञ्चकमिदं पठते मनुष्यःसञ्चिन्तयत्यनुदिनं स्थिरतामुपेत्य ।तस्याशु संसृतिदवानलतीव्रघोर-तापः प्रशान्तिमुपयाति चितिप्रसादात् ॥६॥ N/A References : N/A Last Updated : January 07, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP