संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| चतुर्विंशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका चतुर्विंशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत चतुर्विंशो वेतालः Translation - भाषांतर पुनः स्कन्धस्थितः प्राह निर्बन्धोऽयं महामते । भोक्तुं गच्छ श्रियं राजन्न चेदेकां कथां श्रृणु ॥११८३॥ दाक्षिणात्यो नरपतिर्धीमान्नाम महाबलः । शत्रुभिर्विजितः पत्न्या पुत्र्या च सहितो ययौ ॥११८४॥ तद्भार्या चन्द्रवत्याख्या कन्या लाव्ण्यवत्यपि । दूराध्वस्वेदिते चन्द्रविलासे खेदितः शनैः ॥११८५॥ ताभ्यां सहैव भूपालः समुत्तीर्य महाटवीम् ।भिल्लपल्लेवनं प्राप छादितं द्वीपिचर्मभिः ॥११८६॥ मयूरपत्रवसनैर्गुञ्जास्रग्दामशेखरैः । शबरैराचितं संध्यारक्तश्रृङ्गैरिवारिभिः ॥११८७॥ तत्र तैः स महीपालो रत्नभूशणलोलुपैः । निहतानेकशबरः पतितः संमुखो रणे ॥११८८॥ तस्मिन्हते भयात्प्रायाद्दुहित्रा सह तद्वधूः । शार्दूलपातवित्रस्ता हरिणीव सुलोचना ॥११८९॥ सा गत वा दूरमुत्कम्पिकुचश्रोणीभरालसा । पुत्र्या त्रासचलन्नेत्रनीलोत्पलरुचा सह ॥११९०॥ वनं प्रविश्य लवलीलवङ्गैलालताकुलम् । निषसाद सरस्तीर कमलामोदमन्दिरे ॥११९१॥ अत्रान्तरे मृगकुलक्रीदारसकुतूहली । क्षत्रियश्चण्डसिंहाख्यः सपुत्रः प्राप तद्वनम् ॥११९२॥ नारीचरणमुद्रां तौ तत्र पांसुचयश्रियाम् । विस्मयं जग्मतुर्वीक्ष्य रम्यलेखाविभूषिताम् ॥११९३॥ लघुपादाम्बुजामेका मत्वा दीर्घाङ्गुलिं पराम् । चण्डसिंहः सुतं प्राह हर्शात्सिंहपराक्रम म् ॥११९४॥ कान्तायुगलमेतन्नो यदि दृक्पथमेश्यति । तदेषा दीर्घचरणा योग्या मे तव चापरा ॥११९५॥ इत्युक्त्वा नर्मवचने कृत्वा तौ सत्यसंविदौ । प्रापतुर्वीक्ष्य यत्नेन पूर्णेन्दुवदनायुगम् ॥११९६॥ तौ प्राप्य ललिते नार्यो स्मृत्वा तां निजसंविदम् ।लेभाते स्वगृहं गत्वा ताभ्यां स्मरमहोत्सवम् ॥११९७॥ कन्यां विशालचरणां चण्डसिंहोऽभजत्स्वयम् । चण्डसिंहसुतः प्राप तां कन्याजननीमपि ॥११९८॥ इति तौ सत्यवचसा बद्धौ विनिमयेन च । लब्ध्वा भार्या सुताः काले प्रापस्तनयास्तथा ॥११९९॥ वर्णयित्वेति वेतालः पप्रच्छ पृथिवीपतिम् । ते तयोर्वंशसंभूताः के भवन्ति परस्परम् ॥१२००॥ इति पृष्टो नृपः प्रायादजानन्प्रश्ननिर्णयम् । तेनाथ तुष्टो वेतालः प्रशंसंस्तमभाषत ॥१२०१॥ अनेन राजन्धैर्येण तव प्रज्ञाबलेन च । रोमाञ्चकर्कशः कायः कस्य नाम न जायते ॥१२०२॥ पापोऽसौ क्षान्तिशीलस्ते प्रस्तुतो विपुले छले । प्रपञ्चनीयो यत्नेन क्षिप्रं बुद्धिमता त्वया ॥१२०३॥ घोरे महाप्रेतयागे स त्वां वक्ष्यति दुर्मतिः । अष्टाङ्गकृतभूस्पर्शः प्रणामः क्रियतामिति ॥१२०४॥ ततो वाच्यो मृदुगिरा स दुष्टः श्रमणः स्वयम् । अहम समस्तसामन्तमौलिनीताङ्घ्रिपङ्कजः । अशिक्षितप्रणामोऽहं तं त्वमेव प्रदर्शय ॥१२०५॥ इति त्वयोक्तः स यदा प्रणामं दर्शयिश्यति । तदा खङ्गेन हन्तव्यो हन्ति त्वामन्यथा तु सः ॥१२०६॥ स चक्रवर्तितां प्राप्तुं विद्याधरधराभुजाम् । समीहिते पशुं कृत्वा त्वां त्रैलोक्यविभूषणम् ॥१२०७॥ इति सर्वं तवाख्यानं स्वस्ति तेऽस्तु व्रजाम्यहम् ।प्रायादुक्त्वेति वेतालो निर्गत्य प्रेतविग्रहात् ॥१२०८॥ राजापि शवमादाय क्षान्तिशीलान्तिकं ययौ । यामिन्यां भागशेषायामुत्साहविपुलेक्षणः ॥१२०९॥ इति चतुर्विंशो वेतालः ॥२६॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP