अष्टमो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततः पुनस्तमादाय जगाम जगतीपतिः ।
तत्स्कन्धस्थोऽपि वेतालः प्राह तं श्रूयतामिति ॥४१९॥
बभूव चन्द्रसिंहाख्यस्ताम्रलिप्त्यधिपो नृपः ।
दिक्षु यद्विक्रमोत्साहश्लथा वीरकथाभवत् ॥४२०॥
तस्य सेवाव्रतः सत्वशीलाख्यो राजवंशजः ।
आसीत्कार्पटिको द्वारि शेतातपसहश्चिरम् ॥४२१॥
ततः कदाचिन्मृगयारसाकृष्टः स भूपतिः ।
पार्श्णिसंस्पर्शरोषेण हृतोऽश्वेतानियायिना ॥४२२॥
निर्मानुशं वनं प्राप्य स दूराध्वश्रमातुरः ।
नापश्यदनुगं कंचिदेकं कार्पटिकं विना ॥४२३॥
तत्र संदृश्य पानीयं वितीर्यामलकद्वयम् ।
नृपं साश्व समाश्वास्य मार्गं कार्पटिकोऽदिशत् ॥४२४॥
पुनः स्वनगरं प्राप्तो मन्त्रिभिर्विहितोत्सवः ।
तुष्टः कार्पटिकं श्रीमांश्चकारात्मसमं नृपः ॥४२५॥
ततः कदाचिद्दर्पेण स सिंहलपतेः सुताम् ।
मृगाङ्कलेखामुचितां विसृष्टो याचितुं ययौ ॥४२६॥
स प्रापाम्भोनिधिं तुङ्गतरङ्गालिङ्गिताम्बरम् ।
कैलासमिव चार्वर्कशिखरोल्लिखिताखिलम् ॥४२७॥
तत्रारुह्य प्रवहणप्रस्थिते सिंहलोन्मुखे ।
तस्मिन्महिषसंकाशः समुत्तस्थौ महाधनः ॥४२८॥
तदुद्भूतमहावात्या चण्डताण्डवितेऽम्बुधौ ।
प्रलयावर्तवित्रस्ताः क्कापीव ककुभो ययुः ॥४२९॥
ततः प्रवहणारूढा वणिजो ब्राह्मणास्तथा ।
चन्द्रसिंहमहीपालं चुक्रुशुर्भयकातराः ॥४३०॥
तं स्वामिशरणाक्रन्दं श्रुत्वा कार्पटिकोऽम्बुधौ ।
अमृष्यमाणः सहसा ममज्जाकोशखङ्गभृत् ॥४३१॥
ततो भग्ने प्रवहणे सर्वे ते जलचारिभिः ।
भक्षिताः सत्वशीलस्तु निजोत्साहेन रक्षितः ॥४३२॥
ध्वजयष्टिं जले दृष्ट्वा तत्पार्श्वेन प्रविश्य सः ।
अपश्यत्काञ्चनपुरं पाताले रत्नतोरणम् ॥४३३॥
मणिप्रासादमध्यस्थां तत्र तुष्टाव पार्वतीम् ।
भुजङ्गदैत्यकन्याभिः कृतपूजामहोत्सवाम् ॥४३४॥
जय गौरि गलद्गर्वगीर्वाणगणवन्दिते ।
जय काललघुग्रासहेलाहुंकृतिशालिनि ॥४३५॥
जय सोत्सुकचण्डिशनेत्रषट्पदपद्मिनि ।
जय दैत्येन्द्रहृत्पद्मसंकोचघनकौमुदि ॥४३६॥
जय मायागुणप्रोतजगद्यन्त्रविनोदिनि ।
यज स्फोटसमुन्मेषव्याप्तविश्वसरस्वति ॥४३७॥
इति स्तुत्वा भववधूं तत्पुराग्रे ददर्श सः ।
दासीसहस्रानुगतां कन्यां दिव्यविभूषणाम् ॥४३८॥
हरिणीहारिनयनां मत्तमातङ्गगामिनीम् ।
विलासलीलालसितां स्मरोपवनमञ्जरीम् ॥४३९॥
लावण्यवारिपरिस्वां मेखलायन्त्रमालिकाम् ।
रुद्धनेत्रानलध्वस्तस्मररक्शापुरीमिव ॥४४०॥
तां दृष्ट्वा स स्खलद्वीर्यो मुद्रितः पुष्पधन्वना ।
चित्रन्यस्त इव क्षिप्रमभूद्विस्मयनिश्चलः ॥४४१॥
स पूजयित्वा शर्वाणीं प्रविष्टां मणीमन्दिरे ।
अनुप्रविश्य तत्कान्तिं पपौ नयनचन्द्रिकाम् ॥४४२॥
तस्यां स्फाटिकपर्यङ्कनिषण्णायां स सादरम् ।
नीतः कार्पटिकः स्नातुं दासीभिर्विमलं सरः ॥४४३॥
स्नानार्थं नोदितस्तत्र ताम्रलीप्तान्तरस्थितात् ।
उत्तस्थौ भूमिपोद्यानक्रीदाकमलिनीतटात् ॥४४४॥
ततो नवमधुक्षीब इवानन्दितमानसः ।
कन्दर्पसर्पदष्टोऽभूत्स तत्रात्यन्तमूर्च्छितः ॥४४५॥
क्षिप्रमुद्यानपालेन विज्ञप्तोऽहं तदागम म् ।
चण्डसेननृपोऽभ्येत्य तं ददर्श तथास्थितम् ॥४४६॥
स कथंचित्परिज्ञाय नृपमुन्मील्य लोचने ।
मन्दमन्देन वचसा निजवृत्तान्तमभ्यधात् ॥४४७॥
तच्छ्रुत्वा विस्मितो राजा तमुवाच स्मरातुरम् ।
समाश्वसिहि पातालं गच्छावः पुनरब्धिना ॥४४८॥
इत्युक्त्वा सचिवन्यस्तराज्यः प्रणयिवत्सलः ।
सह कार्पटिकेनैव चण्डसेनोऽम्बुधिं ययौ ॥४४९॥
तत्र प्रवहणारूढः सलिले तत्प्रदर्शिते ।
निमज्य तेन सहितः क्षिप्रं पातालमाप्तवान् ॥४५०॥
ततो गौर्याश्रमे कन्यां तामपश्यत्सुलोचनाम् ।
नवां स्मरमयूरस्य निवासकदलीमिव ॥४५१॥
सैंहिकेयपरित्रासाल्लक्ष्मी हरिणलक्ष्मणः ।
चक्रिचक्रसमाक्रान्तामिव पातालमाश्रिताम् ॥४५२॥
तां दृष्ट्वा भूमिपालोऽभूद्गाढप्रमदविस्मयः ।
अहो स्थानेऽनुरक्तोऽयमिति लोलितशेखरः ॥४५३॥
सापि संपूज्य वरदां प्राप्तोद्वाहवरा सती ।
दृष्ट्वा राजानमवदन्निजदासीं सविस्मया ॥४५४॥
ब्रूहि सत्वोचिताकारं गत्वैनं पुरुषोत्तम म् ।
देव पूजां गृहाणेति तमादिष्टेत्यभाषत ॥४५५॥
इह स्थितेनैव मया गृहीता सुभ्रु सत्कृतिः ।
इति भूमिभुजाप्युक्ता कन्यकामेत्य सावदत् ॥४५६॥
निर्विकारेण सत्त्वेन तस्यावष्टम्भशालिना ।
सा भुजङ्गी ततः कृष्टा मन्त्रेणेवान्तिकं ययौ ॥४५७॥
सुवर्णवल्लरीरम्ये रत्नपादपकानने ।
सर्वर्तुफलपुष्पाढ्ये विश्रान्तं सा तमब्रवीत् ॥४५८॥
पूजां देव गृहायातो गृहाण मम सादरम् ।
इत्यर्थितस्तया राजा जगाद सहितोऽमुना ॥४५९॥
द्रष्टुं गौरीमहं प्राप्तस्त्वां ज्ञात्वा त्वर्थिवत्सलाम् ।
इति श्रुत्वा परिज्ञाय तं कार्पटिकमानतम् ॥४६०॥
मुहूर्तं लज्जया तस्थौ स्मृत्वा तां तस्य वञ्चनाम् ।
ततोऽब्रवीत्सा राजेन्द्र सुताहमसुरप्रभोः ॥४६१॥
कालनेमेः पुरयुगं ममेदं भोगमोक्षदम् ।
सर्वसिद्धिप्रदं दीप्तं रत्नहाटकनिर्मितम् ॥४६२॥
जन्ममृत्युजराव्याधिवर्जितं दिव्यसौरभम् ।
अहं पुरद्वयोपेता त्वदधीना नरेश्वर ॥४६३॥
इत्याकर्ण्य नृपः प्राह स्पृशन्कार्पटिकं दृशा ।
प्रेमविश्रम्भभूरेको मम मानसदर्पणः ॥४६४॥
सुहृत्पिता सुतो बन्धुः स्वामी सर्वमयं मम ।
कुलोन्नतः सत्त्वशीलस्तदस्मै त्वं मयार्पिता ॥४६५॥
( पुत्रीव सुभ्रु गुणिने भव्यस्ते प्रणयो यदि ।
निशम्य तां नरपतेर्गिरमौचित्यमन्थराम् ॥४६६॥
तथेति लज्जिता प्राह सा लिखन्ती दृशा भुवम् ।
कन्यामसुरराज्यं च दत्त्वा तस्मै नृपोऽब्रवीत् ) ॥४६७॥
एकस्यामलकस्यैतत्फलमन्यद्गुणं मम ।
तावापृच्छत्ततस्तस्मिन्स निमज्य सरोवरे ॥४६८॥
उन्ममज्ज निजोद्यानलीलापुष्करिणीतटात् ।
कथां राज्ञे निवेद्येति वेतालः पुनरभ्यधात् ॥४६९॥
वद कः सत्त्ववानत्र नृपः कार्पटिको नु वा ।
इति पृष्टोऽब्रवीद्राजा किं चित्रं यदि भूपतिः ॥४७०॥
कृते प्रतिक्रियां कर्तुं निमग्नो दृष्टवर्त्मना ।
श्लाघ्यः कार्पटिको येन भीताक्रन्दासहिष्णुना ॥४७१॥
अदेशिके निरालम्बे निमग्नो मकरालये ।
श्रुत्वेत्यलक्षितो यातो वेतालो विपुलच्छलः ।
शिंशिपाप्रान्तमागत्य पुनरुल्लम्बितः स्थितः ॥४७२॥
इत्यष्टमो वेतालः ॥१०॥

N/A

References : N/A
Last Updated : October 23, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP