संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| द्वितीयो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका द्वितीयो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत द्वितीयो वेतालः Translation - भाषांतर भूयो वृक्षमथारुह्य तमादाय ययौ नृपः । स च स्कन्धगतः प्राह नरेन्द्र श्रूयतामिति ॥१५६॥ ब्रह्मसेनाग्रहारेऽभूत्कालिन्दीकूलसंश्रये । अग्निस्वामीति विप्रेन्द्रो दाता श्रुतिविदां वरः ॥१५७॥ तस्य मन्दारवत्याख्या पुत्री दिव्योचिताभवत् । कान्ता मन्दारमालेव नेत्रषट्पदहारिणी ॥१५८॥ रूपेण विश्रुतां दिक्षु तामायतविलोचनाम् । अयाचन्त द्विजवरा बहवः सत्कुलोचिताः ॥१५९॥ ततः कदाचित्तरुणाः कान्तिमन्तो द्विजास्त्रयः । मिथो दर्पेण संक्रान्तां इव तुल्याकृतिश्रियः ॥१६०॥ कन्याजनकमभ्येत्य सुन्दरीं तां ययाचिरे । ममैवासौ ममैवासाविति स्पर्धानुबन्धिनः ॥१६१॥ एकस्मै चेद्ददास्येनां द्वौ मृतावेंव विद्धि नौ । इति तेषां समाकर्ण्य पिता तां न ददौ भयात् ॥१६२॥ तोषितां नयनानन्दसौन्दर्यामृतवाहिनीम् । सदा विलोक्य प्रययुस्तत्रैव विहिताश्रयाः ॥१६३॥ ततः कालेन सा धातुर्नैर्घृण्यात्पेशलाकृतिः । जगाम पञ्चतां बाला लोचनाब्जोत्सवैः सह ॥१६४॥ चित्तसंवर्धनं यच्च यच्च नेत्ररसायनम् । चिराय निरनुक्रोशः सहते तद्विधिः कथम् ॥१६५॥ निर्यातजीवितां बालां पतितां कदलीमिव । तत्कान्तिचन्द्रिकाचन्द्रचकोरा शुशुचुर्द्विजाः ॥१६६॥ एकस्ततो ययौ दुःखी जटाभस्मविलेपनः । अन्यस्तदस्थीन्यादाय तीर्थाय प्रययौ कृती ॥१६७॥ श्मशाने चापरस्तस्थौ तद्भस्मशयनाश्रयः । रागिणां किमकार्यं हि स्त्रिया संहृतचेतसाम् ॥१६८॥ प्रथमः पृथिवीं भ्रान्त्वा भस्मस्मेरशरीरकः । रुद्रशर्माभिधानस्य गृहं प्राप्तो द्विजन्मनः ॥१६९॥ तत्रोपमन्त्रितस्तेन प्रस्तुतो भोक्तुमैक्षत । क्षिप्तं तज्जायया वह्नौ पुत्रं रोदनकोपतः ॥१७०॥ तस्मिन्निःशेषनिर्दग्धे भोजनाद्विरतो व्रती । उवाच चण्डालगृहं प्राप्तोऽहमशनाशया ॥१७१॥ इत्याकर्ण्य गृहस्थोऽपि जग्राह निजपुस्तकम् । सिद्धमन्त्रं समुद्धृत्य ततः पुत्रमजीवयत् ॥१७२॥ दृष्ट्वेति विस्मितः क्षिप्रं ध्यात्वा रात्रौ जटाधरः । तं मन्त्रमनयत्कान्ताजीवनायाशु पुस्तकात् ॥१७३॥ सोऽथ संप्राप्य तरसा तत्स्मशानमभोजनः । ददर्श तीर्थादायतमेकं तत्र निवासिनम् ॥१७४॥ तावपास्य प्रियाभस्मकूटोपान्तात्स मन्त्रवित् । रजश्चिक्षेप येनासौ समुत्तस्थौ द्विजात्मजा ॥१७५॥ लावण्यललिताकारां मन्मथानलदीपिकाम् । पीयूषकालकूटाङ्कां दुग्धाब्धिलहरीमिव ॥१७६॥ वदनप्रतिमा चन्द्रो रणन्नूपुरमेखलाम् । नलिनीमिव कामस्य विलोलनयनोत्पलाम् ॥१७७॥ ते दृष्ट्वा विस्मयानन्दस्मरसंघर्षशालिनः । ममैवेयं ममैवेयमित्यूचुस्ते ससंभ्रमाः ॥१७८॥मन्मन्त्रेणोत्थिता तन्वी मयाप्ता तीर्थसेवया । मयास्या रक्षितं भस्म तेशामित्यभवत्कलिः ॥१७९॥ कथयित्वेति वेतालः पप्रच्छ पृथिवीपतिम् । राजन्धर्मेण सा कस्य दयिता सत्यमुच्यताम् ॥१८०॥ इति पृष्टो नृपस्तेन बभाषे शापकम्पितः । तस्यास्तं जनकं मन्ये यस्तां मन्त्रैरजीवयत् ॥१८१॥ पुत्रकार्येण परेणास्याः शङ्के तीर्थेषु यत्कृतम् । वेताल तस्य धर्मेण तद्भस्मशयनः पतिः ॥१८२॥ श्रुत्वेत्यलक्षितो गत्वा क्षिप्रं स्कन्धान्महीपतेः । स शिंशिपातरुप्रान्ते तथैवोल्लम्बितः स्थितः ॥१८३॥ इति द्वितीयो वेतालः ॥२॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP