संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| प्रथमो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका प्रथमो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत प्रथमो वेतालः Translation - भाषांतर अथ व्रजन्दक्षिणाशां दयितावाप्तिदक्षिणाम् । मृगाङ्कदत्तो विपिनं विवेश सचिवैः सह ॥१॥ ततो मध्याह्नविस्फूर्जत्प्रचण्डकिरणे रवौ । अध्वन्यवनितातापैस्ताप्यमान इवाखिले ॥२॥ पङ्कावगाहसंनद्धमहिषे क्रोडकुञ्जरे । लोके प्रत्यग्रदिग्दाहधूमैरिव समावृते ॥३॥ जनार्दनकृतारम्भे तप्तार्जुनसमाकुले । कानने खाण्डव इव प्रौढदावानलाकुले ॥४॥ उपविष्टः क्षणं तत्र राजपुत्रो व्यलोकयन् । नरेण विकृताकारेणोह्यमानं नरं दिवि ॥५॥ तं दृष्ट्वा प्राह सचिवानेष विक्रमकेसरी । केनापि दूयते यत्नः क्रियतामस्य मोचने ॥६॥ इति वादिनि संनद्धे स तस्मिन्स्वयमम्बरात् ।( अवतीर्य ववन्दे तमानन्दस्यन्दसुन्दरः ॥७॥ श्रुतधिप्रमुखान्सर्वान्परिष्वज्य मुदान्वितः । सोऽथ तं वाहननरं प्रोवाच विकृताकृतिम् ) ॥८॥ भो महासत्त्व गच्छ त्वं पुनरेष्यसि मत्स्मृतः । इति तेन विसृष्टोऽसौ जगामादर्शनं क्षणात् ॥९॥ ततो मृगाङ्कदत्तस्तं पप्रच्छ पृथुविस्मयः । करालाकारविस्फारः कुतोऽयं सचिवस्तव ॥१०॥ इति तेनादरात्पृष्टः प्राह विक्रमकेसरी । मनःप्रह्लादितीं दिक्षु दिशन्दशनचन्द्रिकाम् ॥११॥ अयि तस्यां त्रियामायां तेन नागेन शापितः । संमूर्छितः परिक्षिप्तः प्राणैः स्मृतमनः शनैः ॥१२॥ तत्र पुष्करिणीतीरे तृष्णासंतापपीडितः । विश्रान्तोऽहं क्षणं पीत्वा जलं शीतांशुशीतलम् ॥१३॥ ततोऽभ्येत्य भुजङ्गेन दष्टः कश्चिज्जरद्द्विजः । विशव्यथार्तः सलिले त्यक्तुमात्मानमुद्यतः ॥१४॥ सुपर्णविद्यया सोऽथ रक्षितः कृपया मया । कृतज्ञः प्राह मां कोऽपि देवस्त्वं सत्त्वसागरः ॥१५॥ वेतालोत्थापिनीं विद्यां गृहाण त्वं मयार्पिताम् । अधीरे तु मया नैव सार्पिता त्वं तु धैर्यवान् ॥१६॥ इति श्रुत्वाहमवदं वियुक्तस्य सुहृज्जनैः । विद्यया किं मम सखे ज्योत्स्नयेव विवस्वतः ॥१७॥ इत्यसौ मत्कथां श्रुत्वा विस्तीर्णां ब्राह्मणोऽब्रवीत् । कियन्मात्रं सुहृत्सङ्गो विद्यया सर्वमाप्यते ॥१८॥ श्रीत्रिविक्रमसेनोऽभूत्प्रतिष्ठानपुरे नृपः । रत्नाकरः प्रसूतिर्यो लक्ष्म्याः सत्त्ववतां वरः ॥१९॥ यद्यशोदर्पणतले तारहारविभूषितैः । बिम्बितेव विभाति द्यौरिन्दुमार्तण्डकुण्डला ॥२०॥ रामाभिरामं तं द्रष्टुं श्रमणो नित्यमाययौ । इव सीताग्रहच्छद्मच्छन्नो लङ्कापतिः पुनः ॥२१॥ क्षान्तिशीलाभिधानोऽसौ तस्यास्थाने ददौ सदा । फलं नरपतिस्तच्च कोशाध्यक्षकरेऽक्षिपत् ॥२२॥ इति संसेवमानस्य ययुर्भिक्षोः समा दश । कदाचित्तत्फलं राज्ञः प्राप केलिकपिः करात् ॥२३॥ तद्दन्तदलितात्तस्माद्दिव्यं रत्नं विनिर्ययौ । तत्कान्त्या छुरितः सर्वो बभूव स्थानमण्डपः ॥२४॥ नृपः कोशेशमाहूय फलान्यन्यान्ययाचत । सोऽप्यदात्तद्रत्नचयं राज्ञे फलविनिर्गतम् ॥२५॥ दत्त्वा कोशेश्वरायैव रत्नानि त्यागसागरः । पुनः श्रमणमायातं तं पप्रच्छ महीपतिः ॥२६॥ क्षान्तिशीलव्यवसितं चित्रं ते प्रतिभाति मे । किं रत्नः पृथिवीमूल्यैः प्राप्तुमिच्छस्यतः परम् ॥२७॥ इति पृष्टो नृपतिना श्रमणः प्राह तं नरः । बद्धप्रतिज्ञमाधाय निजवाञ्छितसिद्धये ॥२८॥अनुल्लङ्घितमर्यादाः परायासासहिष्णवः । सेव्या न कस्य नृपते त्वादृशाः शौर्यसागराः ॥२९॥ परार्थायोच्चवपुषः सर्वाशापोषशालिनः । राजन्दुर्गतिमित्रस्य त्वादृशः को न याचकः ॥३०॥ अस्यां कृष्णचतुर्दश्यां श्मशाने मन्त्रसाधना । ममास्ति काचित्तत्र त्वं द्वितीयो भव साधकः ॥३१॥ महावटतरोर्मूले स्थिते मयि निशि त्वया । आगन्तव्यं महावीर करवालविभूषिणा ॥३२॥ इत्याभाष्य तथेत्युक्त्वा क्ष्मापालेन प्रतिश्रुते । श्रमणः प्रययौ हृष्टः प्रवेष्टुं मन्त्रसाधनम् ॥३३॥ ततस्तस्यां निशि नृपः खङ्गी रुचिरकुण्डलः । तं ययौ भूतलशशी यशोविशदचन्द्रिकः ॥३४॥ चलद्वज्रांशुकटकच्छायाशबलिताम्बरः । किरीटमणिसच्छायो रत्नाद्रिरिव जङ्गमः ॥३५॥ तमालकलितोत्तंसकालागरुविलेपनः । नीलांशुको गजच्छायाव्याप्ताकार इवेश्वरः ॥३६॥ रराज व्रजतस्तस्य तारहारकरो निशि । तत्कालोल्लासिवपुषा सत्त्वेनेव प्रकाशितम् ॥३७॥ कस्तूरीक्षोदतां गात्रे जयकुञ्जरतां पुरः । मायूरच्छत्रतां मूर्ध्नि मुहुस्तस्य ययौ तमः ॥३८॥ मौलिमालापरिमलव्यालीनालिकुलैर्बभौ । तद्यात्रामङ्गले लक्ष्याः स्वस्तिवादाक्षरैरिव ॥३९॥ ततः श्मशानं स प्राप निःशङ्को भूतसंकुलम् । सर्वापायमयं कायमिवायासशताश्रयम् ॥४०॥ मस्तिष्कलिप्तशुभ्रास्थिप्रकरं लोहितासवम् । आक्रीडमिव कालस्य कपालचषकाकुलम् ॥४१॥ धूमान्धकारमलिनं वीरेन्द्रारावगर्जितम् । चञ्चच्चिताग्नितडितं कालमेघमिवोत्थितम् ॥४२॥ गृध्रकृष्टान्त्रमालाभिः कृतं प्रारम्भविभ्रम म् । काल्या इवोत्सवोन्मत्तकृत्तिकामृतकम्पतिम् ॥४३॥ जीर्णास्थिनलकच्छिद्रक्षिप्रविज्ञानमारुतम् । संचरद्योगिनीवृन्दनूपुरैरिव रावितम् ॥४४॥ दिक्षु प्रतिफलद्धोषस्फारहुंकारहुंकृतम् । त्रिजगत्प्रलायारम्भकृतोङ्कारमिवान्तकम् ॥४५॥ मण्डितं मुण्डखण्डेन दुष्टकङ्कालमालिनम् । ज्वलिताङ्गारनयनं द्वितीयमिव भैरवम् ॥४६॥ प्रत्यग्ररुधिरापूरसंपूरितवृकोदरम् । कर्णशल्योद्धृतारावं दुःशासनवधाकुलम् ॥४७॥ संचरद्भीमपुरुषं द्वितीयमिव भारतम् । बहुच्छलं द्यूतमिव स्त्रीचित्तमिव दारुणम् ॥४८॥ अविवेकमिवानेकशङ्कातङ्कनिकेतनम् । खरोत्कटजनस्थानं घोरसर्पनखावृतम् ॥४९॥ दन्दकारण्यसदृशं मारीचरुचितान्तरम् । भ्राताकम्पनधूम्राक्षमेघनादविभूषणम् ॥५०॥ लङ्कादाहमिवोद्भूतं जीवद्रवणविप्लवम् । समग्रदुःखनिलयं भूतसंघप्रहर्षणम् ॥५१॥ बहुच्छिद्रं घनाश्लिष्टप्रेतराशिनिरन्तरम् । पलाशशतसंबाधं चितानिःशेषितद्रुम म् ॥५२॥ शिवाभिर्व्याप्तमशिवं भ्रान्तान्तकमलन्तकम् ।निकुम्भकुचकुम्भाभिर्विपुलश्रोणिभिर्मुहुः ॥५३॥ दिगम्बराभिर्नारेभिः कल्पिताकाण्डताण्डवम् । गृध्रगोमायुगहनं काककङ्ककुलाकुलम् ॥५४॥ प्रमत्तभूतवेतालं मालामेलकमालितम् । पिशाचशाकिनीयुक्तं लडड्डमरुमण्डलम् ॥५५॥ स्पष्टाट्टहासमकटं क्रीडच्चक्रेश्वरीचयम् । भयंकरं भयस्यापि विमोहस्यापि मोहनम् ॥५६॥ तमसोऽप्यन्धतमसं कृतान्तस्यापि कम्पनम् ।दृष्ट्वा पितृवनं घोरं डाकिनीगणसेवितम् ॥५७॥ क्षान्तिशीलं वटतले सोऽपश्यत्कृतमण्डलम् । दृष्ट्वा प्रणम्य तं प्राह प्राप्तोऽहं करवाणि किम् ॥५८॥ इति श्रुत्वावदद्भिक्षुर्हर्षव्याकोशलोचनः । राजन्सत्त्ववतां धुर्य धैर्येणानेन तेऽधुना ॥५९॥ मन्ये समस्तधीराणाम यशसां केतुराहिथ । क्रोशमात्रमतिक्रम्य दक्षिणाशामुखः प्रभो ॥६०॥ इतो गच्छ तमानेतुं शिंशिपोल्लम्बितं नरम् । इति तस्य गिरा राजा घोरे तमसि सोल्मुकः ॥६१॥ गत्वा ददर्श तं शुष्कं वृक्षं नीचमिवोद्धतम् । दरिद्रमिव विच्छायं पिशाचमिव भीषणम् ॥६२॥ कुकाव्यमिव विश्लिष्टं विशालं शिंशिपातरुम् ।भुग्नाननं चावनतं सरलस्रस्तदोर्युगम् ॥६३॥ दीर्घाग्रपादं तस्याग्रे स चापश्यन्नृपः शवम् । भुवि पुण्यं मया नोप्तं हस्तेनाप्तं न किंचन ॥६४॥ विमुक्तहस्तं संतापादितीवाधोमुखं स्थितम् । तरुमारुह्य तं मुक्त्वा कण्ठपाशमपातयत् ॥६५॥ पतितः सोऽथ चुक्रोश हा हतोऽस्मीति सव्यथम् । करुणाकूणितमना भूपालोऽप्यनुरुह्य तम् ॥६६॥ मुहुर्मुहुः परामृश्य निनिन्द निजसाहसम् । स च क्षणादट्टहासं मठको विकटं व्यधात् ॥६७॥ भूतानां समभूद्येन स्पष्टं कण्टकिता तनुः ।ततस्तूर्णमदृश्योऽसौ तस्मिन्नेव लतान्तरे ॥६८॥ तेनैव कण्ठपाशेन तथैवोल्लम्बितः स्थितः । वेतालमायां विज्ञाय पुनरारुह्य पादपम् ॥६९॥ तमादाय नृपः स्कन्धे जवेन महता ययौ । स्कन्धस्थितस्तमवदद्वेतालः श्रृणु भूपते ॥७०॥ कथयामि कथां तुभ्यं दूरेऽध्वनि सुनन्दिनीम् । अस्ति वाराणसी नाम श्रीकण्ठदयिता पुरी ॥७१॥ गौरीकृताहिमगिरिस्फारैः स्फटिकमन्दिरे । प्रतापमुकुटो नाम तस्यामासीन्महीपतिः ॥७२॥ द्यौर्यत्प्रतापमुकुटा ससंध्येवानिशं बभौ । तस्य भूमिपतेः प्राणप्रिया सोमप्रभाभवत् ॥७३॥ शक्तिः पुष्पशरस्येव त्रैलोक्यविजयोद्यमे । द्युतिमान्वज्रमुकुटस्तस्यां तेन सुतोऽजनि ॥७४॥ स्मरेन्दुमाधवा य अस्य लज्जन्ते रूपसंपदा । तस्य बुद्धिशरीराख्यो मन्त्रिपुत्रः सखाभवत् ॥७५॥ अद्वितीयः सदा प्रेमलीलाविश्रम्भसंपदाम् ॥कदाचित्तेन सहितः स ययौ मृगयारसात् ॥७६॥ वनं कुरङ्गमातङ्गशार्दूलशरभाकुलम् । स तत्र चापक्रेङ्कारक्रूरकोपान्मृगेश्वरान् ॥७७॥ हत्वा विवेश व्याकोशकुल्लवल्लीयुतं वनम् । तस्याविदूरे फुल्लाब्जं ददर्श विमलं सरः ॥७८॥ स्फाटिकं वनदेवीनामिव विभ्रमदर्पणम् । तत्सरः स्नातुमायातां कन्यां दासीशतैर्वृताम् ॥७९॥ आलुलोके नृपसुतः शशिलेखामिवोद्गताम् । तस्याः कुवलयच्छायैः कटाक्षैश्चटुलांशुभिः ॥८०॥ नृत्यच्छिखण्डिमालेव चकासे काननस्थली । अधरांशुभिराकाशे निबिडैर्बिम्बबन्धुभिः ॥८१॥ या बभारेव लावण्यजलधौ विद्रुमावलीम् । जातौ यस्याः कुचौ कान्तिवापीकमलकोरकौ ॥८२॥ ययोर्दोर्युगलं धत्ते बिसकाण्डकुटुम्बताम् । उवाह या तनुलता भृङ्गालीं रोमवल्लरीम् ॥८३॥ पश्चाद्विषक्तां वैमल्याद्बिम्बितामिव वेणिकाम् । या हंसगामिनी रेजे निःक्कणन्मणिनूपुरा ॥८४॥ श्रीरिवाम्बुजसंचारलग्ना सिञ्जानषट्पदी । तां विलोक्येन्दुवदनां नयनानन्दकौमुदीम् ॥८५॥ सहसा राजपुत्रोऽभूत्किमप्युल्लासिमानसः । सापि तं वीक्ष्य कामस्य प्रतिमानं धनुर्धरम् ॥८६॥ बबहु बालानिलालोलवल्लीव ललिताकृतिः । लीलावती समादाय सा निजं शेखरोत्पलम् ॥८७॥ कर्णे चकार लोलाक्षी सचिवं लोचनश्रियः । अपनीय ततः कर्णान्मुहुर्दन्तैरवादयत् ॥८८॥ सविभ्रमं च चिक्षेप खण्डितं पादयोत्सले । ततोऽप्याहृत्य सा कन्या निदधी तत्कुचस्थले ॥८९॥ इति स्मराकुला चक्रे किमप्यात्योपसूचकम् । ततो महत्तराहूता सा ययौ वलितानना ॥९०॥ विसृज्य राजपुत्राय दूतीं नेत्रप्रभामिव । ध्यायन्ती राजतनयं सा प्राप्य निजमन्दिरम् ॥९१॥ बभूव विरहक्षामा प्राचीव शशिनः कला । राजपुत्रोऽपि नगरीं प्रविश्य स्मरतापितः ॥९२॥ दिनैरेवाभवद्बालप्रवालशयनाश्रयः । ततो बुद्धिशरीरस्तं स्वैरं मन्त्रिसुतोऽब्रवीत् ॥९३॥ कोऽयं देव तवापायो धैर्यस्य धृतिसागरः । कासौ क्कास्ते सुता कस्य क्केति चिन्ताज्वरं सखे ॥९४॥ त्यज जानाम्यहं सर्वं तयैव प्राङ्गिवेदितम् । कर्णे यदुत्पलं चक्रे तत्कर्णोत्पलभूपतेः ॥९५॥ पुरःस्थिता सा कालिङ्गः स प्रसिद्धो हि पार्थिवः । संग्रामवर्धनो नाम सचिवो दन्तघाटकः ॥९६॥ विश्रुतो दिक्षु तस्यास्ति तत्पुत्री सा ध्रुवं सखे । अत एवोत्पलं तत्र दन्तेन खण्डितं तया ॥९७॥ सा च पद्मावती नाम पादपद्माहितोत्पला । यव्द्यधात्तच्च हृदये तत्तस्या वल्लभो भवान् ॥९८॥ तदेहि तावद्गच्छावो मृगयाच्छद्मना पुनः । इति श्रुत्वा नृपसुतस्तत्सखः प्रययौ क्षणात् ॥९९॥ कलीङ्गविषयं पृथ्वी विप्रसंध्या हि रागिणाम् । तत्र प्रविष्टौ वृद्धायाः प्रतिश्रयधिया गॄहम् ॥१००॥ पप्रच्छतुस्तावत्र त्वं जानीषे दन्तघाटकम् । इति ताभ्यां रहः पृष्टा सावदज्जर्जराकृतिः ॥१०१॥ संग्रामवर्धनो मन्त्री राज्ञोऽसौ दन्तघाटकः । तस्य पद्मावती नाम तनयास्ति सुलोचना ॥१०२॥ तद्गृहे गर्भदास्यस्मि सर्वं जानामि तत्कुले । इति वृद्धावचः श्रुत्वा निजवृत्तं निवेद्य तौ ॥१०३॥ चक्राते दत्तसंकेतौ तस्यास्तामेव दूतिकाम् । सा तदन्तःपुरं गत्वा तस्यै सर्वं निवेद्य य अत् ॥१०४॥ पद्मावती च तच्छ्रुत्वा मिथ्याकोपाकुलाभवत् । आ वृद्धदासि दुःशीले बालां मामवमन्यसे ॥१०५॥ उक्त्वेति कर्पूरकरात्तां जघान कपोलयोः । ततो भग्नमुखी वृद्धा समभ्येत्य निजं गृहम् ॥१०६॥ ताभ्यां सर्वं यथावृत्तं साश्रुनेत्रा न्यवेदयत् । राजपुत्रस्ततः प्राह निःश्वासग्लपिताधरः ॥१०७॥ अहो मे पुण्यहीनस्य वृथा जातोऽयमुद्यमः । स्वस्ति तुभ्यं मम प्राणाः क्कापि गन्तुं समुद्यताः ॥१०८॥ न सहे विरहं सद्यस्तया छिन्नो मनोरथः । इति मन्त्री वचः श्रुत्वा राजपुत्रेण भाषितम् ॥१०९॥ रहस्तमवदद्धैर्यं भज सिद्धं समीहितम् । दशास्या गण्डयोः पश्य सकर्पूराः कराङ्गुलीः ॥११०॥ तयोक्तं शुक्लपक्षस्य दश शेषा निशा इति । अलक्षितः कृष्णपक्षे ध्रुवं तां स्मौपैष्यसि ॥१११॥ इति तेन कृताश्वासो राजपुत्रो व्यलम्बत । ततो दशसु यातेषु वासरेषु यदृच्छया ॥११२॥ कन्यकान्तःपुरं गत्वा वृद्धा पुनरुपाययौ । अलक्तकाङ्कमालोक्य हृदि तस्यास्त्रिचन्द्रकम् ॥११३॥ रहो मन्त्रिसुतः प्राह सोत्कण्ठं भूमिपात्मजम् । सखेऽस्या रजसा रात्रित्रयमावर्तते तनुः ॥११४॥ पश्यास्या हृदये न्यस्तं तया शोणाङ्गुलित्रयम् । इति श्रुत्वा पुनर्ध्यायन्स तामायतलोचनाम् ॥११५॥ सहस्रयामतां यातमनयद्यामिनीत्रयम् । ततो वृद्धा चतुर्थेऽह्नि गत्वा पुनरुपागता ॥११६॥ तावुवाचाद्य याताहं तया संफूजिता भृशम् । तत्कालम स्फोटितालाने निर्गते मत्तकुञ्जरे ॥११७॥ हर्म्येण रज्जुमालम्ब्य सा भीता विससर्ज माम् । इति वॄद्धागिरं श्रुत्वा विसृष्टो मव्न्त्रिसूनुना ॥११८॥ तेनैव रज्जुपात्रेण स प्रापान्तःपुरं निशि । चेटिकाभिः समुत्क्षिप्तः प्रासादेन प्रविश्य सः ॥११९॥ न्यस्तस्फटिकपर्यन्तं विवेश मणिमन्दिरम् । दीपरत्नांसुकपिशे सुप्तकञ्चुकिमण्डले ॥१२०॥ पाताल इव तत्रासौ तां भुजङ्गीं व्यलोकयत् । प्रत्युद्गतां ह्रिया नम्रां तां राजतनयोऽवदत् ॥१२१॥ सोत्कम्पकुचविन्यस्तहस्तमत्रस्तविभ्रमाम् । अयि मानसदुग्धाब्धिचन्द्रिके लज्जया नताम् ॥१२२॥ उत्तानय दृशं सन्तु दिशः कुवलयाकुलाः । इत्युक्त्वा रत्नपात्रेण मालतीस्मितसुन्दरी ॥१२३॥ अपाययत्तां माध्वीकं पपौ च घनसौरभम् । हठात्कण्ठग्रहानन्दमीलितार्धविलोचनाम् ॥१२४॥ मदारुणकपोलां तां चुचुम्ब सरसं ततः । सा तेन कुञ्जरेणेव समाक्रान्ता सरोजिनी ॥१२५॥ चकाशे निष्क्कणत्काञ्चीकलहंसकुलावली । अकृत्रिमविलासाङ्कमशिक्षितकलाक्रम म् ॥१२६॥ अविभागाङ्गसुभगं बभूव सुरतं तयोः । एवं प्रतिनिशं श्यामा गूढं तेन समागता ॥१२७॥ अभूदुद्भिन्नसंभोगकुसुमस्मेरमञ्जरी । ततः कदाचित्सस्मार राजपुत्रो बहिः स्थितम् ॥१२८॥ मन्त्रिपुत्रोऽपि देशेऽस्मिन्कथमेकश्चरेदिति । ज्ञात्वान्यमनसं कान्तं पृष्ट्वा च श्रुत््कथा ॥१२९॥ उवाच किं त्वया नासौ सुहृन्मे प्रकटीकृतः । पूज्यः स धीमतां धुर्योऽज्ञासीत्तत्तन्मदिङ्गतम् ॥१३०॥ तत्कृते प्राहिणोम्यद्य विचित्रं त्विष्टभोजनम् । उक्त्वेति विससर्जाशु राजपुत्री तदन्तिकम् ॥१३१॥ विचित्रमाल्यताम्बूलं भोजनं च स्वयं कृतम् । मन्त्रिपुत्रस्तदादाय राजपुत्रमभाषत ॥१३२॥ अहो त्वया कृतं जाड्यं यदहं प्रकटीकृतः । ( विषदिग्धमिदं सर्वं तया मे प्रहितं सखे ) ॥१३३॥ न सहन्ते हि रागिण्यो भर्तुः प्रेमपदं जनम् । इत्युक्त्वा तच्छुने प्रादात्सोऽपि तेनाभवव्द्युसुः ॥१३४॥ ततस्तौ कोपकलुषौ तदालोक्य बभूवतुः । कर्णोत्पलस्य नृपतेरस्मिन्नवसरे प्रिये ॥१३५॥ पुत्रे दैवाद्दिवं याते राजपुत्रं सखावदत् । अद्य तस्यास्त्वया गत्वा मत्ताया भूषणावलीम् ॥१३६॥ समादाय नखैः कार्यं त्रिशिखं लक्ष्म विग्रहे । इति तद्वचसा सर्वं कृत्वा राजसुतो निशि ॥१३७॥ गृहीताभरणः क्षिप्रं ततः प्राप्तस्तदन्तिकम् । व्रतिवेषोऽटवीं गत्वा मन्त्रिपुत्रस्तमब्रवीत् ॥१३८॥ अधुना मौक्तिकलतां नयैतां विक्रयावनिम् । प्रदर्शनीया सर्वत्र दातव्या न तु कस्यचित् ॥१३९॥ कस्येयमिति पृष्ठेन निर्देशोऽहं त्वया सखे । इति तेन विसृष्टोऽसौ विपणे समदर्शयत् ॥१४०॥ राजपुत्रोऽपि तत्कालं छन्नवेशादलक्षितः । तां दृष्ट्वा राजपुरुषैः पृष्टः कस्येयमित्यथ ॥१४१॥ तं कूटव्रतमभ्येत्य गुरोरस्येत्युवाच तान् । सोऽपि पृष्टोऽवदद्राजा स्वयमेत्य श्रृणोतु मे ॥१४२॥ इति तद्वचसा तूर्णं नृपं प्राप्तमुवाच सः । राजंस्तव पुरे छन्ना दन्तघाटकपुत्रिका ॥१४३॥ डाकिनी भ्राम्यति सदा रजनीषु दिगम्बरा । इहाकृष्य विसृष्टोऽसावेकदा त्वत्सुतोऽनया ॥१४४॥ तत्कोपाच्च त्रिशूलेन मया गात्रे समाहता । इदं चाभरणं तस्या मया सुबहुमौक्तिकम् ॥१४५॥ ( प्राप्तं भीता पलाय्यासौ पितुर्वेश्म पुनर्गता ) । निर्वास्यतां पुरात्पापा सा स्त्री न वधमर्हति ॥१४६॥ इति कर्णोत्पलो राजा श्रुत्वा कोपानलाकुलः । स्त्रीभिर्विज्ञाय तद्गात्रे प्रत्यग्रां त्रिशिखाहतिम् ॥१४७॥ पद्मावतीं स्वनगरान्निःसार्योद्भ्रान्तमानसाम् । विवासितां च तां पश्चात्तौ स्ववेषौ प्रजग्मतुः ॥१४८॥ सप्रलापा प्रतीपौघैः कुर्वाणा क्रन्दितैर्दिशः । आद्यराजस्य पुत्रस्तां सहितो मन्त्रिसूनुना ॥१४९॥ ततो वाराणसीं गत्वा विललास तया चिरम् । संग्रामवर्धनोऽप्यस्याः पिता तद्दुःखवह्निना ॥१५०॥ स्फुटितात्मा व्यसुरभूद्दयितानुगतः क्षणात् । कथयित्वेति वेतालः पप्रच्छ वसुधाधिपम् ॥१५१॥ सुताशोकविपन्नौ तौ कस्य पापाय भूपते । ज्ञात्वाप्यब्रुवतो मूर्धा शतधा ते भविष्यति ॥१५२॥ इति तेन नृपः पृष्टो बभाषे गतसंभ्रमः । राजपुत्रः प्रिया चास्य न वाच्यौ मन्मथाकुलौ ॥१५३॥ प्रभुभक्तिव्रतो धीमान्मन्त्रिपुत्रोऽप्यकल्मषः । कर्णोत्पलस्य नृपतेः पातकं तत्प्रमादिनः ॥१५४॥ यो न पश्यति चारेण राजवृत्तान्तमन्धवत् । इति मौने परित्यक्ते राज्ञा तूर्णेमलक्षितः । स वेतालस्तरोरग्रे तथैवोल्लम्बितः स्थितः ॥१५५॥ इति प्रथमो वेतालः ॥१॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP