दशमो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


वीरबाहोर्नरपतेर्नगरं पुरमण्डले ।
निदर्शनं धनवतामर्थदत्तोऽभवद्वणिक् ॥४९०॥
धनदत्ताभिधस्तस्य पुत्रो भूतलनन्दनः ।
सुता मदनसेना च मदनस्येव देवता ॥४९१॥
धनदत्तवयस्योऽथ धर्मदत्तो युवा वणिक् ।
तस्यानुजां कदाचित्तामपश्यत्तद्गृहागतः ॥४९२॥
दृष्टिर्युवनिरानन्दस्मयगुर्वी तरङ्गिते ।
यत्कान्तिसलिले मग्नान्समुद्धर्तुं न पार्यते ॥४९३॥
भ्रूलास्यवीचितरले हारहंससितोर्मिणि ।
लावण्यमानसे यस्याः कटाक्षैः शफरायितम् ॥४९४॥
उन्निद्रचन्द्रवदनां तां विलोक्य निजालयम् ।
गतो न लेभे स धृतिं सार्थभ्रष्ट इवाध्वगः ॥४९५॥
स वै निःश्वाससंतापग्लपिताधरपल्लवः ।
अशान्तसर्वशिखिना कामेनेवान्तराश्रितः ॥४९६॥
अत्रान्तरे जलनिधिं संध्यारक्ते दिवाकरे ।
तापादिव क्लान्ततनौ प्रविष्टे पद्मिनीप्रिये ॥४९७॥
दिक्षु कालागरुस्यन्दनीलैस्तिमिरसंचयैः ।
अभिसारोचितं वेषमाश्रितास्विव तत्क्षणात् ॥४९८॥
उदिते पूर्वदिक्कान्तासीमन्तमणिमौक्तिके ।
शशाङ्के शंकरक्तृप्तकामसंजीवनौषधम् ॥४९९॥
ज्योत्स्नाविलासविलसत्प्रभाशुभ्रे नभस्तले ।
दुग्धाब्धिशायिनः शौरेः सुधालिप्त इवोरसि ॥५००॥
वणिक्पुत्रः स्मराक्रान्तः सुहृदाश्वासितो मुहुः ।
क्षणार्धनिद्रितोऽपश्यत्स्वप्ने तामेव कामिनीम् ॥५०१॥
ततः प्रभाते विजने स्थितां तामेव कन्यकाम् ।  
ययाचे संगमं तस्या लज्जा रागेण सह्यते ॥५०२॥
तेन प्रणयिभृङ्गेन वल्लरीवाकुलीकृता ।
स्तनाग्रलग्नवदना बभाषे सा नता ह्रिया ॥५०३॥
अहमद्यैव तातेन वचसा प्रतिपादिता ।
सखे समुद्रदत्ताय वणिजे गुणशालिने ॥५०४॥
पूर्वमेव त्वयाभ्येत्य पिता मे किं न याचितः ।
अधुनाहं परवधूरगम्या विदुशस्तव ॥५०५॥
इति श्रुत्वा बलवता मन्मथेन समाहतः ।
सोऽवदद्वीक्ष्यमाणस्तां हठात्कण्ठग्रहोत्सुकः ॥५०६॥
मम प्राणैः पणः सुभ्रु त्वां विना समुपस्थिथ ।
कार्याकार्यविचारो हि कस्य जीवितसंशये ॥५०७॥
त्यजते प्राप्तममृतं यदेतद्बुद्धिलाघवम् ।
को जानीते परे लोके कस्य किं नु भविष्यति ॥५०८॥
भज मामनवद्याङ्गि न चेत्त्वद्वदनामृतम् ।
स्वयं पिबामि किं प्राप्ते विधौ नक्षत्रचिन्तया ॥५०९॥
श्रुत्वेति चकिता तन्वी प्रोवाचानन्तवीक्षितैः ।
लज्जयेव वितन्वाना ततो मायूरकञ्चुकम् ॥५१०॥
भ्रष्टायां मयि तातस्य विनष्टे कन्यकाफले ।
कुलं पतति नः सर्वं तत्र मा कारणं भव ॥५११॥
प्राग्जन्मविहितः कोऽपि निबन्धो यदि मे प्रभो ।
तत्पित्रे स्वफलं दत्वा कृतोद्वाहास्मि ते वशे ॥५१२॥
वणिग्युवा निशम्येति प्राह सर्वं न मे वरम् ।
नवां मालां परित्यज्य निर्माल्ये रमते नु कः ॥५१३॥
अनम्यस्प्रष्टुमुचितं त्यक्तुं नेशोऽस्मि ते वपुः ।
को हि हस्तात्परित्यज्य कुर्यादन्वेषणश्रम म् ॥५१४॥
इत्याग्रहेण तेनोक्ता निर्जने भयविह्वला ।
अबला बलिना लब्धा निःश्वसन्ती जगाद सा ॥५१५॥
सत्यं वृत्तविवाहाहं  त्वदन्तिकमदूषिता ।
समेश्यामि क्षपामेकामिति ते सुकृतैः शपे ॥५१६॥
श्रुत्वेति स ययौ तुष्टः प्रीतये हि मृगीदृशाम् ।
प्रणयाद्स्त्युपगमो यथा नैव तथा हठात् ॥५१७॥
अथ लग्नदिने प्राप्ते प्रवृत्ते विपुलोत्सवे ।
समुद्रदत्तस्तरुणीं परिणीय निनाय ताम् ॥५१८॥
ततो भुक्तोत्तरं स्मेरकुसुमोत्तंसमन्दिरे ।
भेजाते दम्पती शय्यां तनुस्वच्छोत्तरच्छदाम् ॥५१९॥
लज्जानतमुखी तेन चाटुकारेण कामिना ।
करेण रुद्धां नो नीवीं याचितापिअ मुमोच सा ॥५२०॥
ततः सा तस्य वणिजः स्मृत्वा प्राग्विहितं वचः ।
यत्नाद्विहाय सहजां लज्जां भर्तारमब्रवीत् ॥५२१॥
प्रौढा समुचितं बाला वैदग्ध्यं सहते कथम् ।
अफुल्लां चूतकलिकां नहि चुम्बति षट्पदः ॥५२२॥
इति नीवीहठाकृष्टप्रगल्भं विनिमय्य तम् ।
सा प्राह पूर्ववरणद्रोहकाङ्गीकृतेप्सितम् ॥५२३॥
वणिजो धर्मदत्तस्य हठसङ्गभयान्मया ।
अभ्रष्टाहं समेष्यामि त्वामिति प्राक्प्रतिश्रुतम् ॥५२४॥
असत्यं नोत्सहे कर्तुं तदनुज्ञातुमर्हसि ।
इत्याकर्ण्य स तत्याज तामाशां च तदागमे ॥५२५॥
ततः सा तेन विजने संत्यक्ता प्रययौ निशि ।
तारहारांशुधवला कमलेनेव कौमुदी ॥५२६॥
प्रयान्तीं धर्मदत्तस्य भाण्डशालां सुलोचनाम् ।
सर्वस्वहारी चौरस्तां ददर्शोज्ज्वलभूषणाम् ॥५२७॥
विस्तीर्णवक्षःप्राकारो मेघश्यामो महाभुजः ।
तमःशबरसंघातसेनापतिरिवाग्रतः ॥५२८॥
स्कन्धावलम्बिभिर्भृङ्गनीलैः कुटिलकुन्तलैः ।
सदा संचरणप्रीत्या रात्रिचक्रैरिवाश्रितः ॥५२९॥
उद्भिन्नश्मश्रुलेखाग्रकेशमण्डलमण्डितः ।
दिग्धन्तिमुक्ताचौर्येषु मदाम्बुभिरिवाङ्कितः ॥५३०॥
विकोशासिप्रभाजालैर्दीपैरालम्बिताम्बरः ।
तारा रत्नप्रहारार्थमिवारोहनरज्जुभिः ॥५३१॥
स दृष्ट्वा तां सुवदनां कूजद्भूषणमौक्तिकाम् ।
दिवः सचन्द्र्नक्षत्रां श्रियं संचारिणीमिव ॥५३२॥
नेत्रयोः कज्जलेनेव नीलाब्जेनेव कर्णयोः ।
तनौ कृष्णांशुकेनेव तमसापि विभूषिताम् ॥५३३॥
करेणुं कुञ्जराकारस्तां राजकदलीमिव ।
समालम्ब्यावदद्धन्यः कोऽसौ यो मृग्यते त्वया ॥५३४॥
सर्वस्वहारी चौरोऽहं क्क नु गच्चसि निर्भया ।
( अथवा मण्डलोद्दण्डकोदण्डस्ते स्मरोऽनुगः ॥५३५॥
इत्युक्ता तेन सा प्राह चौरोऽसि यदि गृह्यताम् ) ।
रत्नभूषणमामुक्तमौक्तिकं किं तु मुञ्च माम् ॥५३६॥
श्रुत्वेत्याह विहस्यैनां नाहं ग्राम्यः शुचिस्मिते ।
यस्त्वां स्मरालंकरणां त्यक्त्वा यास्याम्यचेतनः ॥५३७॥
इत्युक्त्वा तेन संरुद्धा सा जगौ वल्गुवादिनी ।
वचसा येन निर्बद्ध तस्मादेष्यामि ते वशे ॥५३८॥
स श्रुत्वेत्याह चित्रं ते सरलः कोऽप्ययं क्रमः ।
क्षिप्त्वा दिक्षु क्षिपेत्को नु कण्ठस्थां रत्नमालिकाम् ॥५३९॥
गच्छामि पुनरेष्यामीत्येवं धूर्तो न वञ्च्यते ।
योषितां च नदीनां च पुनरागमनं कुतः ॥५४०॥
यस्तु हस्तगतं रत्नं मोहात्त्यजति बालवत् ।
स मन्दपुण्यः सुभगे पुनस्तस्य न भाजनम् ॥५४१॥
इति वादिनमत्युग्रसाहसं तं चकार सा ।
निवेद्य निजवृत्तान्तं किंचिद्धि कलितग्रहम् ॥५४२॥
सोऽब्रवीद्धर्मदत्तस्य यथा तथ्यं वचः कृतम् ।
तथैव मे त्वया कार्यं गत्वा सत्यवती ह्यसि ॥५४३॥
इति चौरेण मुक्तासौ भाण्डशालान्तरस्थितम् ।
धर्मदत्तमवाप्याहं प्राप्तास्मीति सविस्मयम् ॥५४४॥
सोऽवदत्परभार्या मे न गम्या त्वं सुलोचने ।
शमितोऽनङ्गदावाग्निधूम्राभ्रमलिनः क्षणः ॥५४५॥
प्रतिमुक्तापि सा तेन चोरमेत्य तदाभ्यधात् ।
सत्यत्वात्सोऽपि तच्छ्रुत्वा तां तत्याज सभूषणाम् ॥५४६॥
ततः समुद्रदत्तं सा पुनरभ्येत्य वल्लभम् ।
यथा वृत्तं निवेद्यास्मै भेजे तेन स्मरोत्सवम् ॥५४७॥
नृपमुक्त्वेति पप्रच्छ वेतालो वञ्चनोन्मुखः ।
ब्रूहि कोऽत्र महासत्त्वः श्रुत्वेत्याह च भूपतिः ॥५४८॥
तत्याज धर्मदत्तस्तां बहुकर्णगतां प्रियाम् ।
राजभीत्या सुखे नित्यं धनिनो हि पराङ्मुखाः ॥५४९॥
धत्तां समुद्रदत्तोऽपि कथं तामन्यमानसाम् ।
किं न कुर्युर्गृहे रुद्धा विरक्तहृदयाः स्त्रियः ॥५५०॥
सत्त्वमानेक एवात्र चौरोऽसौ तां मुमोच यः ।
प्राणान्हि पणमाधाय धने धावन्ति दस्यवः ॥५५१॥
इति श्रुत्वैव वेतालस्तरौ पुनरलम्बत ।
भूयोऽप्यादाय तं राजा ययौ मारुतरंहसा ॥५५२॥
इति दशमो वेतालः ॥१२॥

N/A

References : N/A
Last Updated : October 23, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP