संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| स्त्रीदुष्टाख्यायिका द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका स्त्रीदुष्टाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत स्त्रीदुष्टाख्यायिका Translation - भाषांतर श्रुत्वेति सारिकावाक्यं राजपुत्रः सविस्मयः । चूडामणिं विदग्धानामपृच्छत्सस्मितः शुकम् ॥२२४॥ पृष्टः शोणमणिच्छायचञ्चुर्मरकतप्रभः । रत्नाद्रिकुञ्जसिञ्जान इव क्रीडाशुकोऽवदत् ॥२२५॥ हर्षवत्यभिधानायां धर्मस्य नृपतेः पुरि । बभूव धनदत्ताख्यः कुबेरसदृशो वणिक् ॥२२६॥ सुतां वसुमतीं नाम सदा ददौ वसुमान्मथम् । कान्तां समुद्रदत्ताय तारुण्यतरुमञ्जरीम् ॥२२७॥ दत्वा पुत्रीं प्रियां तस्मै ताम्रलिप्तनिवासिने । अपुत्रो नात्यजद्गेहात्पुत्रत्वे परिकल्पिताम् ॥२२८॥ कदाचित्सा शशिमुखी तुङ्गवातायनस्थिता । ददर्श पथि सुस्नातं युवानं द्विजपुत्रकम् ॥२२९॥ तं दृष्ट्वा कामवातेन नदीवाकुलतां गता । कुलकूलनिपाताय कृतारम्भावदत्सखीम् ॥२३०॥ सखि पूर्णेन्दुवदनो द्विजोऽयं प्रतिभाति मे । भुजङ्गो येन जातेयं विषव्याप्तेव मे तनुः ॥२३१॥ वृथा मे यौवनमिदं याति नेयं स्तनस्थली । यदैवद्वक्षसि क्षिप्रं गाढालिङ्गनखर्वताम् ॥२३२॥ उक्त्वेति मन्मथहता तया चानाय्य तं रहः । भेजे रतिं को हि शक्तो धर्तुं रागवतीमनः ॥२३३॥ सुचिरं रममाणायां तस्यां तेन विलासिना । कौमारस्तत्पतिस्तूर्णमाययौ सोत्सुकश्चिरात् ॥२३४॥ पूजितः श्वशुरेणासौ निशि शय्यानिकेतनम् । विवेश माल्यधवलं मधुपानारुणेक्षणः ॥२३५॥ साप्यन्यसक्ता तं प्राप्य शीतार्तेवार्तिपीडिता । भुजोरुस्वस्तिकाक्रान्तुकुचश्रोणीतटास्वपत् ॥२३६॥ अवाङ्मुखी निःश्वसन्ती स्पर्शसंकुचिता मुहुः । स तां प्रसादयामास मुग्धो मौनावलम्बिनीम् ॥२३७॥ अन्यत्र बद्धसौहार्दाः सावलेपाः सदा क्रुधः । अधिकं क्लीबमूर्खाणां यान्ति वल्लभतां स्त्रियः ॥२३८॥ इति दुःखाकुला तन्वी पत्युः पार्श्वे बभूव सा । कटुकौषधतुल्यं तं वेपमाना पितुर्भयात् ॥२३९॥ ( सिषेवे कम्पयन्ती खं शिरः कथमपि क्रुधा ) । अत्रान्तरे स्वसंकेतं शून्योद्याने विधाय सा । रागिणी तं द्विजसुतं प्रसुप्ता भर्तुरन्तिके ॥२४०॥ मधुमत्तं समालोक्य सुप्तं काष्ठमिवाचलम् । उत्थाय लघुसंचारा गन्तुमुद्यानमुद्यता ॥२४१॥ अथ प्रविष्टस्तद्वेश्म चौरः स्वैरं ददर्श ताम् । निर्यान्तीमन्तिकात्पत्युः सर्वाभरणभूषिताम् ॥२४२॥ छन्नेनानुगता तेन शून्योद्यानमवाप सा । तं चौरशङ्कितैः कैश्चिद्ददर्शोल्लम्बितं द्विजम् ॥२४३॥ तं दृष्ट्वा संविरुग्णेव पतिता विललाप सा । हा प्रिय श्रमपीयूष प्रणयामृतदीधिते ॥२४४॥ क्कासि मे प्रियसर्वस्वं देहि कर्णामृतं वचः । इत्युक्त्वा पाशमुन्मुच्य कण्ठे जग्राह तं शवम् ॥२४५॥ कृत्वा सकुसुमोत्तंसं तन्मुखं प्रचुचुम्ब च । ताम्बूलगर्भमादाय वेपमानकराधरा ॥२४६॥ ततः सपदि वेतालः कृतावेशः सुनासिकाम् । तस्याश्चिच्छेद दशनैः सतीशिक्षां दिशन्निव ॥२४७॥ छिन्ननासाथ शनकैः शय्यां भर्तुरुपेत्य सा । चक्रोश हा हता तेन पापेनास्मीति सव्यथा ॥२४८॥ प्रतिबुद्धः स सहसा किमेतदिति संभ्रमात् । ब्रुवाणः श्वशुरेणैत्य श्रुत्वा च परिभर्त्सितः ॥२४९॥ नासिकां दुहितश्छिन्नां दृष्ट्वा कोपात्स भूपतेः । प्रातर्नीत्वा तमास्थानं तनयां तामदर्शयत् ॥२५०॥ न मयास्याः कृतं किंचिदिति वादिनमेव तम् । अहो धार्ष्ट्यमिति प्राहुः सभ्याः कोपपराङ्मुखाः ॥२५१॥ ततो राजाज्ञया तूर्णं प्रस्तुते तस्य निग्रहे । स चौरोऽभ्येत्य तत्सर्वं नरनाथं व्यजिज्ञपत् ॥२५२॥ राज्ञा दत्ताभयो रात्रिवृत्तान्तं विनिवेद्य सः । शवदन्तस्थितां नासां प्रत्ययार्थमदर्शयत् ॥२५३॥ तामेव क्षिप्रमाधाय छिन्नकर्णां ततो नृपः । दण्डपालं स नगरे चौरं चक्रे सदोत्थितम् ॥२५४॥ इति स्त रियः किल्बिषस्य द्रोहस्य च निकेतनम् । कस्तासामपशुर्नाम प्रेमपाशवशं व्रजेत् ॥२५५॥ इति स्त्रीदुष्टाख्यायिका ॥४॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP