संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| पञ्चमो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका पञ्चमो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत पञ्चमो वेतालः Translation - भाषांतर ततस्तमादाय न्र्पः प्रययौ विपुलाशयः । स च स्कन्धस्थितः प्राह श्रृणु चित्रं महीपते ॥३३९॥ द्विजोऽभूदङ्गविषये विष्णुस्वामी महाधनः । वभूवुस्तस्य तनयास्तरुणाः सुखशालिनः ॥३४०॥ कदाचिद्याजिना तेन ते विसृष्टा महोदधिम् । यज्ञाय कूर्ममाहर्तुं ययुरादेशकारिणः ॥३४१॥ ते समुद्रं समासाद्य प्रपय कूर्मं महाकृतिम् । दुरामोदं न जगृहुः पिच्छिलाङ्गं जुगुप्सया ॥३४२॥ संप्राप्तेऽप्यगृहीतेऽस्मिन्कच्छपे वेशधारणात् । ध्रुवं नो याति जनको दीक्षाभङ्गादधोगतिम् ॥३४३॥ गृहाणं त्वं न शक्तोऽहं क्षमस्त्वं न त्वहं विभो । इति तेषामभूत्तत्र जल्पश्चिरमनल्पकः ॥३४४॥ नारीचङ्गोऽह्यमुचितो भीभत्सेऽस्मिन्नकर्मणि । भ्रातर्भोजनचङ्गोऽहं शय्याचङ्गोऽधिकोऽप्यहम् ॥३४५॥ इति ते जातकलहा विटङ्कनगरेश्वरम् । प्रसेनजितमभ्येत्य पप्रच्छुर्निजगौरवम् ॥३४६॥ इति विश्रम्यतामद्य प्रातर्दातास्मि चोत्तरम् । इति राज्ञा समादिष्टास्तस्थुस्तत्रैव ते द्विजाः ॥३४७॥ अथैकः प्रस्तुतो भोक्तुं नवकर्पूरसौरभम् । शालिभोजनमम्लानं नाभ्यनन्दद्विकूणितः ॥३४८॥ ततस्तन्दुलमज्ञासीद्दुष्टमन्विष्य भूपतिः । श्मशाननिकटक्षेत्रजातधान्यसमुद्भवम् ॥३४९॥ सत्यं भोजनचङ्गोऽयमित्युक्त्वा विस्मितो नृपः । दिदेश नारीचङ्गाय दासीं कुवलयेक्षणाम् ॥३५०॥ समाल्यसौरभाहूतभृङ्गव्याकुलमालिनीम् । तस्य शय्यान्तिकं प्राप्य तस्थौ हासविलासिनी ॥३५१॥ नारीचङ्गोऽप्यथोत्थाय करस्थगितनासिकः । ष्ठीवनव्याकुलस्तत्र निर्ययौ सहसा बहिः ॥३५२॥ हतश्छागलगन्धेन बताहं दुष्टयोषिता । इति क्रन्दन्तमाकर्ण्य तं ददर्श महीपतिः ॥३५३॥ अजादुग्धैरियं बाला मात्रा हीना विवर्धिता । इति पृष्टा नृपेणाहं दासी लज्जानतानना ॥३५४॥ स्त्रीचङ्गोऽयं भवत्येव निगद्येति नरेश्वर्ह । सप्ततूलीकृतां शय्यां शय्याचङ्गाय दत्तवान् ॥३५५॥ सप्ततूलीजुषस्तस्य पर्य‘ग्कतलवर्तिना । वालेन वलयाकारं गात्रेऽभूल्लक्ष्म लोहितम् ॥३५६॥ सव्यथं निःश्वसन्तं तं दृष्ट्वा वालं च भूपतिः । सत्यं शयनचङ्गोऽयमित्युवाच सविस्मयः ॥३५७॥ ततस्तेषां नृपतिना दत्तैर्द्रविणसंचयैः । संभोगसक्तास्तत्रैव तस्थुस्ते द्विजपुत्रकाह ॥३५८॥ तत्पिता क्रतुभङ्गाच्च विधायानशनव्रतम् । सभार्यः प्रययौ स्वर्गं जपयज्ञपवित्रितः ॥३५९॥ इत्यभ्युदीर्य वेतालो मोहयन्निव मायया । मातापित्रोस्तेषु हत्या पतिता कस्य भूपते ॥३६०॥ एतेभ्यः कोऽधिकश्चङ्ग इत्यपृच्छन्महीपतिम् । पृष्टो नरेश्वरः प्राह द्वावप्रत्ययवीक्षकौ ॥३६१॥ शय्याचङ्गोऽधिकस्तेभ्यो यो वालेनाङ्कितस्तनौ । तन्न्यूनयोः पातकं तत्पितृप्रलयसंभवम् ॥३६२॥ इति मौनपरित्यागात्स राज्ञः सहसा गतः । पुनः पुनर्दृष्टनष्टस्तथैवोल्लम्बितः स्थितः ॥३६३॥ इति पञ्चमो वेतालः ॥७॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP