संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| षष्ठो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका षष्ठो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत षष्ठो वेतालः Translation - भाषांतर ( पुनस्तमादाय ययावखिन्नो वसुधाधिपः । स च स्कन्धस्थितः प्राह श्रृणु राजन्कथामिमाम् ॥३६४॥ अस्ति धर्मस्य वसुधा लक्ष्म्याः क्षेत्रं स्थितिः स्थितेः । संपदां सदनं स्वर्गं जयत्युज्जयिनी पुरी ॥३६५॥ पुण्यसेनाभिधानस्य तस्यामासीन्महीपतेः । ब्राह्मणः सेवको धीमान्हरिस्वामीति विश्रुतः ॥३६६॥ देवस्वामी सुतस्तस्य बभूव श्रुतिपारगः । सोमप्रभा च तनया मूर्तेव श्रीर्मनोभुवः ॥३६७॥ विज्ञानिने ज्ञानिने वा देया शूराय वा त्वया । अहमित्याप्तनियमा पितरं सा व्यजिज्ञपत् ॥३६८॥ अत्रान्तरे दाक्षिणात्ये नृपे जेतुं समागत । पुण्यसेनो नरपतिः सहामात्यैरचिन्तयत् ॥३६९॥ सर्वथा सामसाध्योऽसौ रक्तामात्यो महाधनः । शूरश्च राजा तेनास्मै दूतो धीमान्विसृज्यताम् ॥३७०॥ इति मन्त्रिगिरा राजा वर्चस्वी गुनवान्द्विजः । हरस्वामी विसृष्टस्तत्कटकं सहसाभ्यधात् ॥३७१॥ तत्र राज्ञा समाधाय संधिं तस्मिन्स्थिते क्षणम् । विप्रः कश्चित्तमभ्येत्य ययाचे रुचिरः सुताम् ॥३७२॥ सोऽब्रवीज्ज्ञानिविज्ञानिशूरेभ्यो नापरः सखे । योग्यः पुत्री मयोद्वोढुमिति नः समयो दृढः ॥३७३॥ तत्सुता ब्राह्मणयुवा विज्ञानं स्वमदर्शयत् । क्षणेन दृष्टवान्येन हरिस्वामी जगत्त्रयम् ॥३७४॥ हृष्टस्ततः स्वतनयां विस्मितो वचसा ददौ । शुभे दिने सप्तमेऽस्तु विवाह इति संविदा ॥३७५॥ अत्रान्तरेऽपरो विप्रः शोरो धीमान्कृतश्रमः । देवस्वामिनमब्येत्य तत्स्वसारमयाचत ॥३७६॥ ज्ञानिविज्ञानिशूराणां मध्यादेको लभेत ताम् । इत्यसौ तद्वचः श्रुत्वा धनुर्विद्यामदर्शयत् ॥३७७॥ अनेकमल्लसंचार्यं दृष्ट्वा तस्यानतं धनुः । देवस्वामी ददौ तस्मै विस्मितो भगिनीं गिरा ॥३७८॥ मात्रापि द्विजपुत्राय कस्मैचिज्ज्ञानशालिने । पुत्री वाक्येन दत्तासौ तत्प्रभावोदितस्मयात् ॥३७९॥ सप्तमेऽह्नि वृतस्तेषां लग्ने प्राप्ते गृहाधिपः । हरस्वामी स्वतनयां ददर्शोज्ज्वलभूषणाम् ॥३८०॥ ज्ञानिविज्ञानिशूरेषु तुल्यं प्राप्तेष्वथोत्सवे । अन्विष्टापि प्रयत्नेन कन्या नैव व्यदृश्यते ॥३८१॥ ततस्तज्जनकः प्राह दुःखितः साश्रुलोचनः । ज्ञानिन्वद क्क यातासौ निकषेयं तवागता ॥३८२॥ इति पृष्टः स चोवाच धूम्राक्षेणाद्य रक्षसा । सा नीता रूपलुब्धेन घोरां विन्ध्याटवीमितः ॥३८३॥ विज्ञानिना कल्पितेऽथ समारुह्य रथोत्तमे । शूरस्तं राक्षसं हत्वा कन्यकामानिनाय ताम् ) ॥३८४॥ ततो लग्नक्षणे प्राप्ते तत्पिता श्रान्तमानसः । सर्वे कृतोपकाराश्च तुल्याश्चेति व्यचिन्तयत् ॥३८५॥ कथयित्वेति वेतालः पप्रच्छ धरणीपतिम् । कस्तेभ्यः कन्यकालाभयोग्य इत्युच्यतां विभो ॥३८६॥ पृष्टोऽब्रवीन्नरपतिः स पात्रं येन निर्जिता । सा कन्यान्यौ तु विधिना दिष्टौ तौ सिद्धिकारणम् ॥३८७॥ इति श्रुत्वेति वेतालो गत्वा क्षिप्रमलक्षितः । तस्मि९न्विटपिपर्यन्ते तथैवोल्लम्बितः स्थितः ॥३८८॥ इति षष्ठो वेतालः ॥८॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP