संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| त्रयोदशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका त्रयोदशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत त्रयोदशो वेतालः Translation - भाषांतर ततोऽवदत्स्कन्धगतो धरेशं भीषणाकृतिः । श्रृणु राजन्कथामेकां यस्यां तो कोऽपि संशयः ॥६६५॥ वाराणस्यां शिवस्वामी द्विजन्माभून्महाजनः ।ऐश्वर्यलालितस्तस्य हरिस्वामी सुतोऽभवत् ॥६६६॥ तस्य लावण्यवत्याख्या मनस्तारुण्यशालिनी । प्रिया बभूव त्रैलोक्यललामललिताकृतिः ॥६६७॥ स कदाचित्तया कान्तिसरिता सौधशेखरे । सुष्वाप केलिशयने संभोगसुभगोत्सवे ॥६६८॥ अत्रान्तरे रतश्रान्तां तां ददर्श नभश्चरः । सुप्तां मदनवेगाख्यः प्रियां जायां द्विजन्मनः ॥६६९॥ तस्या विवसनं दृष्ट्वा करिणीदन्तनिर्मलम् ।स्तनोरुजघनाभोगं बभूव स मनोभुवः ॥६७०॥ अलक्षितो जहाराशु ततस्तामायतेक्षणाम् ।अदृष्टपूर्वसंरम्भकम्पमानां मनोजवः ॥६७१॥ प्राप्तः प्रबुद्धो दयितामपश्यन्नथ दुःखितः । अभवद्ब्राह्मणयुवा वियोगविषमूर्च्छितः ॥६७२॥ हा सुन्दरि सुधास्यन्दमन्दिरं कृधि सुस्मितम् । पुनरिन्दुमिवानन्दबन्धु द्रक्ष्यामि ते मुखम् ॥६७३॥ इति प्रलापमुखरः सुहृत्स्वजनशोकदः । उन्मत्त इव बभ्राम तत्र तत्र स्मरातुरः ॥६७४॥ संप्राप्य कृष्णपक्षेन्दुतानवैकोपमागताम् ।त्यक्त्वा स्वनगरं प्रायाद्देहं देहीश्वरो यथा ॥६७५॥ भोगो रोगो विषं वेश्म सर्पबन्धश्च बान्धवाः । दग्धारण्यं जगच्चेदं वियोगव्याप्तचेतसाम् ॥६७६॥ स सूर्यकिरणाप्लुष्टः कृष्यमाण इवानिशम् । भ्रान्त्वा सर्वाणि तीर्थानि क्षुत्क्षामः पांसुधूसरः ॥६७७॥ श्रीमतः पद्मनाभस्य सत्रशालां द्विजन्मनः । प्रविश्य दत्तं पत्न्या वै परमान्नमवाप सः ॥६७८॥ प्रस्तुते नलिनीतीरे न्यग्रोधस्य तरोरधः । भोक्तुं तत्र दिवानक्तं न दिशोऽप्यैक्षत क्षुधा ॥६७९॥ अत्रान्तरे श्येनहृतः पन्नगोऽगादमूर्च्छितः । विषौधश्यामलां लालां तस्य तत्याज भोजने ॥६८०॥ तदनालोकितं भुक्त्वा पञ्चतां स ययौ द्विजः । विधौ हि वामतां याते सर्वमेति विपर्ययम् ॥६८१॥ तं त्यक्तजीवितं ज्ञात्वा सत्रदोऽन्नाधिपो निजाम् । साध्वीं विवासयामास वधूं तद्भोजनक्रुधा ॥६८२॥ कथयित्वेति वेतालः पप्रच्छ नृपतिं पुनः । ब्रह्महत्या नरपते कस्य सा कथ्यतामिति ॥६८३॥ राजा जगाद सर्पोऽसौ श्येनेनात्यन्तपीडितः । परतन्त्रो विषोत्सर्गे कथं नामापराध्यति ॥६८४॥ श्येनोऽपि दैवनिर्दिष्टं भोक्तुमामिषमुद्यतः । बुभुक्षितो निर्विवेकी केन पापीति कथ्यते ॥६८५॥ अन्नदानपतिः सत्यं सभार्यः सोऽप्यकिल्बिषः । किं च जानन्वदेद्यः स सत्यं तत्पापभाजनम् ॥६८६॥ इति तावदहं मन्ये कथं वेताल मन्यसे । श्रुत्वेत्यन्तर्हितः सोऽथ तरौ पुनरलम्बत ॥६८७॥ इति त्रयोदशो वेतालः ॥१५॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP