संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| चतुर्दशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका चतुर्दशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत चतुर्दशो वेतालः Translation - भाषांतर ततस्तमादाय ययौ तथैव वसुधाधिपः । ( स च स्कन्धस्थितः प्राह कथां भूमिपते श्रृणु ) ॥६८८॥ वीरकेतुरभूच्छ्रीमानयोध्यायां महीपतिः । यत्प्रतापानलः कोऽपि राज्ञां जज्वाल मानसे ॥६८९॥ बभूव यस्य नगरे रत्नदत्ताभिधो वणिक् । तस्य रत्नवती नाम तनयाभून्मनोरमा ॥६९०॥ रूपलावण्यललिता नवयौवनशालिनी । प्रत्याख्यातविवाहा सा बभोव द्वेषिणी नृषु ॥६९१॥ अत्रान्तरे नरपतिश्चौरविप्रकृते जने । वीरो वै निर्ययौ रात्रौ द्रष्टुं नगरचेष्टितम् ॥६९२॥ ततस्तमपि सोऽपश्याचौरं तालमिवोन्नतम् । निःशब्दजनसंचारं क्कचिद्वक्रीकृताकृतिम् ॥६९३॥ क्कचिन्निभृतनिःश्वासं क्कचिद्वक्रीकृताकृतिम् । यक्ष्माणमिव तृष्णाढ्यं दावाग्निमिव दुःसहम् ॥६९४॥ वियोगमिव सोच्छ्वासं कल्पान्तमिव दाहिनम् । सर्वस्वापहरं घोरं कल्पान्तमिव विप्लुतम् ॥६९५॥ संधिच्छेदेषु कुशलं प्रच्छन्नमिव दुर्जनम् । विलोक्य तं नृपोऽवादीत्स्वैरं विश्वसघातकम् ॥६९६॥ कस्त्वमस्मिन्निरालोके सखे चरसि निःसखः । श्रुत्वेत्युवाच स व्याजाद्देवीपुत्रोऽहमीदृशः ॥६९७॥ कस्त्वमित्यपि तेनोक्तस्तदेव क्षितिपोऽभ्यधात् । एहि तुभ्यं प्रयच्छामि द्रविणं गर्तसंचितम् ॥६९८॥ इत्युक्त्वा स्वगृहं चौरस्तं निनाय वधोद्यतः । बहिर्निधाय तं वेश्म प्रविष्टे धनहारिणि ॥६९९॥ अभ्येत्य वत्सला प्राह नृपं तद्गृहचेटिका । केन त्वं मृत्युवदने प्रेषितो भद्र गम्यताम् ॥७००॥ विश्वासघातकश्चौरस्त्वामयं हन्तुमुद्यतः । इति श्रुत्वा ययौ राजा राजधानीमलक्षितः ॥७०१॥ प्रभाते तूर्णमुत्थाय सज्जीकृतबलाधिपः । चौरं सुदुर्जयं युद्धे जग्राह तं नृपः ॥७०२॥ ततोऽपरक्तसंसिक्तो नीतो राजाज्ञया क्षणात् । निग्रहाय तया पृष्टो वणिक्पुत्र्या ससंभ्रम म् ॥७०३॥ तद्दृष्ट्वा सहसा जातरागा जनकमभ्यधात् । अयं वृतो मया तात वीरो मान्योऽधिको मम ॥७०४॥ इति तद्वचनं श्रुत्वा सनिर्बन्धं पुनः पुनः । कथंचित्स नृपं गत्वा तन्मोक्षायावदद्धनम् ॥७०५॥ ततो राजा विहस्याह यश्चौरस्यास्य रक्षिता । सोऽपि बध्यो मम व्यक्तं पापी पापसमाश्रयात् ॥७०६॥ इति क्ष्मापतिना तस्मिन्निषिद्धे तत्सुता ययौ । चौरमेवानुमरणे निर्बन्धे निहितेक्षणा ॥७०७॥ सा स्मशानमथासाद्य धृतं शूले ददर्श तम् । ऊर्ध्वाननाक्षमचिरादाप्तैश्वर्यमिवाधनम् ॥७०८॥ स किंचिच्छेषजीवोऽथ तां दृष्ट्वा श्रुत््कथः । मुक्ताश्रुबिन्दुनिकरो विहस्यात्मानमत्यजत् ॥७०९॥ ततस्तेन समारूढां चितां तां वीक्ष्य शंकरः । केलिप्रियो वरं तस्यै स्मशाननिलये ददौ ॥७१०॥ शंभोर्वरात्पुत्रशतं पित्रे योग्यमयाचत । अजीवयच्च भर्तारं श्रिया धर्मेण चावृतम् ॥७११॥ ततः स सहसावाप्तजीवितः प्राप्य तां प्रियाम् ।सेनापतिः कृतो राज्ञा न््द सुभटाग्रणीः ॥७१२॥ कथयित्वेति वेतालः पप्रच्छ छलसंमुखः । राजन्रुरोद किमसौ जहास च ततोऽनु किम् ॥७१३॥ इति पृष्टो नृपः प्राह श्रुत्वा वणिजमुद्यतम् । प्रत्याख्यातुं विधिवशाद्राज्ञोऽकारणबान्धवम् ॥७१४॥ सर्वथा दैवलिखितं प्रमार्ष्टुं कस्य कः क्षमः । इति ध्यात्वा रुरोदासौ तत्स्त्रीवृत्तं जहास च ॥७१५॥ इत्याकर्ण्यैव वेतालो गत्वा पुनरलम्बत । राजापि तं समालम्ब्य प्रययावचलाशयः ॥७१६॥ इति चतुर्दशो वेतालः ॥१६॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP