संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| द्वाविंशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका द्वाविंशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत द्वाविंशो वेतालः Translation - भाषांतर अथ स्कन्धगतः प्राह वेतालः श्रृणु भूपते । ब्रह्मस्थलाग्रहारेऽभूद्विष्णुस्वामी द्विजोत्तमः ॥११४५॥ चत्वारस्तस्य तनया बभूवुः श्रुतिशालिनः । मृते पितरि ते जग्मुर्मातुलानां निवेशनम् ॥११४६॥ सावज्ञमीक्षमाणास्तैर्निर्धनास्तत्र ते स्थिताः । अचिन्तयन्नहो दुःखं दारिद्र्यं मरणाधिकम् ॥११४७॥ गृध्राः प्रयान्ति च शवं नित्यं मांसोपजीविनः । निष्पत्त्रमपि दग्धं च नित्यमागारिकास्तरुम् ।न तु दारिद्र्यसंस्पृष्टं कश्चित्स्पृशति पूरुषम् ॥११४८॥ शीतलैर्दीर्घनिद्रैश्च निरुच्छ्वाससुखैः शवैः । दरिद्रस्तापनिर्निद्रः सोच्छ्वासः स्पर्धते कथम् ॥११४९॥ एकः प्राह गतोऽद्याहं स्मशानं भूतभीषणम् । दौर्गत्यदुःखादात्मानं परित्यक्तुं समुद्यतः ॥११५०॥ ततः केनापि कारुण्याद्बुधेनेवास्मि रक्षितः । अभुक्त्वा स्वकृतं कर्म मरणं प्राप्यते कुतः ॥११५१॥ इति ध्यात्वा ययुः स्वैरं सर्वे देशान्तरं पृथक् । पुनः संगमसंकेतस्थानमादिश्य ते ततः "॥११५२॥ ततः कालेन ते भ्रान्त्वा पृथिवीं बहुकौतुकाम् । अवाप्तविद्या मिलिताः परस्परमथोचिरे ॥११५३॥ अस्थिसंपादिनीं विद्यां जानामीत्यग्रजोऽभ्यधात् । तन्मांसयोजनज्ञोऽहमित्युवाच ततः परः ॥११५४॥ त्वग्रोमन्यसकुशलस्तत्रास्मीत्यपरोऽब्रवीत् । जीवितार्पणविज्ञाने दक्षोऽस्मीत्येव तत्परः ॥११५५॥ विद्याप्रभावं ते द्रष्टुं मिथस्तत्र संकौतुकाः । दैवादवापुः सिंहस्य कीर्णजीर्णास्थिसंचयम् ॥११५६॥ तं समग्रं समांसं च कृत्वा त्वग्रोमसंकुलम् । क्रमैश्चतुर्थो विद्यानां पञ्चननमजीवयत् ॥११५७॥ दंष्ट्राविटङ्कवदनः क्षुत्क्षामः समजायत । जघान तीक्ष्णं करजैः पुरस्ताद्द्विजपुत्रकान् ॥११५८॥ कथयित्वेति वेतालः पप्रच्छ धरणीपतिम् । ब्रूहि राजन्द्विजवधोद्भूतं तत्कस्य पातकम् ॥११५९॥ इति पृष्टोऽब्रवीद्राजा यो मृगेन्द्रमजीवयत् । तस्य तत्पातकं घोरमन्येषां नास्त्यसंशयम् ॥११६०॥ इति श्रुत्वेति वेतालो गत्वा पुनरलम्बत । नृपोऽपि तं गृहीत्वा तु प्रायादतुलविक्रमः ॥११६१॥ इति द्वाविंशो वेतालः ॥२४॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP