सप्तदशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


पुनस्तमादाय ययौ जवेन जगतीपतिः ।
स्कन्धस्थितः स च प्राह कथेयं श्रूतामिति ॥९३६॥
रूठकाख्ये पुरे राजा श्रीमानासीद्यशोधनः ।
मांधातृरामनहुषा यत्कीर्त्या विस्मृता इव ॥९३७॥
स कदाचित्समब्येत्य विज्ञप्तो वणिजा भयात् ।
ममास्ति कन्यकारत्नं देव तस्यास्ति भाजनम् ॥९३८॥
इति श्रुत्वा नरपतिर्द्रष्टुं तां प्राहिणोद्द्विजान् ।
ते दृष्ट्वोन्मादिनी नाम्ना तामुन्मादं समाययुः ॥९३९॥
इमां भूमिपतिः प्राप्य प्रजाकार्यपराङ्मुखः ।
ध्रुवं नङ्क्ष्यति रागेण द्विजास्तत्रेति चिन्तयन् ॥९४०॥
ते नरेश्वरमभ्येत्य कन्यां दुर्लक्षणां जगुः ।
अनादृतां ततो राज्ञा सेनान्ये तां पिता ददौ ॥९४१॥
कदाचिदथ मत्तालिमालावलयिते मधौ ।
उत्फुल्लफुल्लधवले कोकिलालापमालिनि ॥९४२॥
मकरन्दपिशङ्गासु दिक्षु दक्षिणमारुतैः ।
कौङ्कुमेनाङ्गरागेण विलिखन्निव कामिभिः ॥९४३॥
राजा गजेन्द्रशैलस्थश्चम्पकापीडशेखरः ।
अशोकमालासच्चायो मधुमास इवापरः ॥९४४॥
पुरे चैत्रोत्सवं द्रष्टुं चचार कमलेक्षणः ।
विलोक्यमानः कान्ताभिः कुसुमायुधशङ्कया ॥९४५॥
दुर्लक्षणेत्यनेनाहं प्रत्याख्यातेति मानिनी ।
उन्मादिनी ततो राज्ञः सौधात्तनुमदर्शयत् ॥९४६॥
नेत्रांशुभिः कन्दलिता पाणिभ्यां जातपल्लवा ।
बभौ मूर्तेव चैत्रश्रीः सा मुग्धस्मितपुष्पिता ॥९४७॥
तारहारकरस्फीतफेनाङ्के कान्तिसागरे ।
तस्याः कटाक्षैरभवद्यमुनाभ्रान्तिविभ्रमः ॥९४८॥
बिम्बाधरारुणदलं लोललोचनषट्पदम् ।
सा बभार मुखाम्भोजं सुगन्धिस्मितशेखरम् ॥९४९॥
तां वीक्ष्य चन्द्रवदनां मदनोद्यानकौमुदीम् ।
अहो नु वञ्चितोऽस्मीति प्रदध्यौ वसुधाधिपः ॥९५०॥
राजधानीं प्रविश्याथ स्मरज्वरनिपीडितः ।
नोद्यानेषु न वापीषु न सौधेष्वाययौ धृतिम् ॥९५१॥
दुर्लक्षणेति यैरुक्ता दुर्नयैर्नयबुद्धिभिः ।
उन्मादिनी ब्राह्मणास्ते निर्गच्छन्तु पुरान्मम ॥९५२॥
इत्यादिश्य नृपस्तस्थौ दह्यमान इवानिशम् ।
कदलीदलशय्यासु श्रीखण्डसलिलोच्छ्रितः ॥९५३॥
भिषग्भिः सेव्यमानोऽपि स्वास्थ्यं न प्राप भेषजैः ।
स्मरज्वरचिकित्सा हि दयितालिङ्गनामृतैः ॥९५४॥
विश्रम्भसाक्षिणैकेन सा तस्य विरहव्यथा ।
विराजनाम्ना विज्ञाता राजन्येन कथान्तरे ॥९५५॥
पृष्टोऽब्रवीन्नृपस्तेन सखे तां सुन्दरीं विना ।
सेनापतिवधूं प्राणाः क्कापि गन्तुं ममोद्यताः ॥९५६॥
यौवनोदयशीतांशुं तन्मुखं सुन्दरं दृशोः ।
धन्याः पश्यन्ति लावण्यरसायनतरङ्गितम् ॥९५७॥
भूपतेः परदारेषु संगमो मे न शोभते ।
प्रमादान्नृपमूढानां मरणं हि प्रमेयता ॥९५८॥
( इत्युक्त्वा दीर्घमुष्णं च निःश्वस्य क्षामविग्रहः ।
आनीयतां सेति वचो वयस्याहं न चक्ष्महे ) ॥९५९॥
अन्येद्युर्ज्ञातवृत्तान्तः सेनापतिरुपेत्य तम् ।
स्वैरं बलधरो नाम सप्रणामं व्यजिज्ञपत् ॥९६०॥
भाजनं सर्वरत्नानामेकस्त्वं देवतापरः ।
गृहाणोन्मादिनीं कान्तां ललनारत्नमुत्तम म् ॥९६१॥
इति श्रुत्वा विहस्यैनमुवाच वसुधाधिपः ।
अहो भक्तोऽपि मे भृत्योऽहितं नैव प्रभाषते ॥९६२॥
अयं लोको निरालोकः कलिकर्दमसंकुलः ।
नृपाणां साधुशीलानां चरितैर्हि प्रकाश्यते ॥९६३॥
तदहं पृथिवीपालो दण्डधारपदे स्थितः ।
अनीतिगहनावृत्तं व्यसनाधिं कथं भजे ॥९६४॥
कुले जन्मगुणाः सन्ति धर्मे यशसि चादरः ।
मतिश्च परदारेषु सत्यं न सदृशं मम ॥९६५॥
इति ब्रुवाणं राजानं सेनापतिरभाषत ।
उन्मादिनीं करोम्येनां नर्तकीं सुरमन्दिरे ॥९६६॥
भजस्वैतां देवदासीं देव दोषो न विद्यते ।
इति तेनार्थ्यमानोऽपि तं निनिन्द रुषा नृपः ॥९६७॥
ततः सेनापतौ याते तामेवोन्मादिनीं स्मरन् ।  
यशःशरीरममलं विवेश भ्रष्टजीवितः ॥९६८॥   
तस्मिन्नुपरते राज्ञि सेनानीः शोकविह्वलः ।
वह्निं विवेश सद्भक्तिः पर्यन्ते हि प्रदृश्यते ॥९६९॥
अभिधायेति वेतालः क्ष्मापालं पृष्टवान्पुनः ।
सेनानीभूमिपालाभ्यां कोऽधिकः सत्त्ववानिति ॥९७०॥
राजावदत्स्वामिभक्तिर्भृत्यानां किमिवाद्भुतम् ।
श्लाघ्यो नरेन्द्र एवैको र्पाणांस्तत्याज न स्थितिम् ॥९७१॥
उद्दाममदसंरुद्धा लीलामीलितदृष्टयः ।
न श्रृण्वन्ति न पश्यन्ति राजानः कुञ्जरा इव ॥९७२॥
नारीणामिव सद्भावो दौर्जन्यं महतामिव ।
विवेको भूमिपालानां कदा केनोपमीयते ॥९७३॥
इति श्रुत्वैव वेतालं प्रयातं शिंशिपातरुम् ।
पुनरादाय भूपालः प्रययौ पवनोपमः ॥९७४॥
इति सप्तदशो वेतालः ॥१९॥

N/A

References : N/A
Last Updated : October 25, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP