संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| षोडशो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका षोडशो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत षोडशो वेतालः Translation - भाषांतर अस्ति श्रीकाञ्चनपुरी मूर्ध्नि गौरीगुरोर्गिरेः । रत्नप्राकारकिरणैरश्रान्तोल्लिखिताम्बरा ॥७६६॥ जीमूतकेतुस्तस्याभूद्विद्याधरपतिः पतिः । यस्याभूच्छेषयशसः प्रख्याता काप्यनन्तता ॥७६७॥ विद्याधरेन्द्रदुहिता भार्याभूत्तस्य संमता । कान्ता कनकवत्याख्या ख्यातिक्षेत्रं मनोभुवः ॥७६८॥ तेनाजनि सुतस्तस्यां कल्पवृक्षवराद्वरः । जीमूतवाहनो नाम समूहो गुणसंपादाम् ॥७६९॥ सोत्कण्ठं काञ्चनलताकुञ्जेष्वमरभूभृतः । गायन्ति त्यागसुभगं यस्य स्वर्गाङ्गणे यशः ॥७७०॥ तं सर्वगुणसंपन्नमभिषिच्यात्मजं पिता । कल्पवृक्षं ददावस्मै नानासिद्धिसुधाफलम् ॥७७१॥ कान्ताकटाक्षचपलं चपलं यौवनं धनम् । जीविं चेति स ध्यात्वा तमर्थिभ्यस्तरुं ददौ ॥।७७२॥ तेन दारिद्र्यनाशाय जगति प्रतिपादितः । हेम्ना संपूर्य निखिलं क्षणात्सोऽन्तर्दधे द्रुमः ॥७७३॥ कुलक्रमागते तस्मिन्कल्पवृक्षे व्ययीकृते । अपूर्वत्यागिना तेन त्रिलोकी विस्मयं ययौ ॥७७४॥ ( ज्ञात्वा तं प्रतिसामन्ता रहितं सुरशाखिना । तद्राज्यहरणोद्योगे बभूवुः संहता मिथः ॥७७५॥ जीमूतवाहनो ज्ञात्वा विद्यया तद्विचेष्टितम् । तद्वेधाकूणितमना राज्यं तत्याज निस्पृहः ॥७७६॥ स पित्रा सह मात्रा च तपसे सिद्धसेवितम् । मलयं खेचरवधूविलासनिलयं ययौ ) ॥७७७॥ खेल्लद्भुजङ्गकटकं सिद्धमन्डलसेवितम् । चण्डीपतिमिवोत्सर्पन्नीलकण्ठप्रभावनम् ॥७७८॥ संचरत्सिद्धललनाचरणाम्भोजकान्तिभिः । बिभ्राणामिव पर्यङ्कसक्ताब्धेर्विद्रुमावलीम् ॥७७९॥ निर्भरस्मेरहाराङ्कमकरन्दोज्ज्वलांशुकम् ।स त्वाद्यं भूभृतां धुर्यं चन्दनागरुभूषितम् ॥७८०॥ स प्राप्य सर्वसिद्धीनामाश्रयं विषयं श्रियः । पित्रोः सपर्यानिरतस्तस्थौ जीमूतवाहनः ॥७८१॥ कदाचिदथ विश्रम्भसारिणा सुहृदा सह । स्वैरं मधुकराख्येन चचारोपवनेषु सः ॥७८२॥ स तत्र कान्तं कुसुमकरन्दं नाम काननम् । प्रविश्यापश्यदुच्छ्वासिसौरभाः पुष्पवल्लरीः ॥७८३॥ यत्र खेचरनारीणां तारानूपुरराविभिः । अशोकाश्चरणाघातैरुत्फुल्ला भान्ति रागिणः ॥७८४॥ यत्र विद्याधरवधूमधुगण्डूषनिर्भरैः । जृम्भेवारम्भि बकुलैः पुष्पाननविकाशिभिः ॥७८५॥ यत्र दिव्याङ्गनातुङ्गस्तनोत्सङ्गतरङ्गिणः । मन्दारमकरन्दाढ्याः सुन्दरा वान्ति वायवः ॥७८६॥ यत्रोद्धूतालिपटलं विलोक्य घनविभ्रम म् । नृत्यन्ति ह एमकदलीकुञ्जेषु शिखियोषितः ॥७८७॥ उत्कण्ठाकोमलं यत्र गीतं किन्नरयोषितः । श्रृण्वन्ति निश्चलाः साश्रुनयना हरिणाङ्गनाः ॥७८८॥ ददर्श तत्र कैलासशिखरस्फारविभ्रम म् । गङ्गायितपताकाङ्कं गौर्याः प्रासादमुन्नतम् ॥७८९॥ स्वयमेत्य सितच्छायास्पष्टीकृतदिगन्तरम् । ( स्थितं दुहितृवात्सल्यादिव तत्र हिमाचलम् ) ॥७९०॥ देवीगर्भगृहे तस्मिन्गीतं वीणास्वनाश्रितम् ।शुश्राव श्रोत्रपीयूषं हृदयानन्दनिर्झरम् ॥७९१॥ तच्छ्रुत्वा कौतुकाकृष्टः प्रविश्य गिरिजालयम् । कन्यामपश्यत्संसारसारं सरसिजेक्षणाम् ॥७९२॥ प्रवालपल्लवच्छायपादाम्बुजयुगं बभौ । रागसागरसंचारादिव लग्नारुणद्रवम् ॥७९३॥ लावण्यनलिनीबालमृणालयुगलोपमे ।जङ्घाकाण्डद्वये तस्याः कान्तिहंसी व्यरोचत ॥७९४॥ विलासबर्हिकदलीदण्डावूरू बभार सा । पुष्पायुधपुरीकान्तदन्ततोरणविभ्रमे ॥७९५॥ पुलिने कान्तिसरितः पर्यङ्कशयने रतेः । मेखलापरिखं यस्या जघनं मान्मथं पुरम् ॥७९६॥ मग्नो नाभीह्रदावर्ते हरकोपानलाकुलः । कामोऽनुमीयते यस्या रोमालीधूम्रलेखया ॥७९७॥ तारहारांशुमुकुलैर्जातौ यस्याः पयोधरौ । चक्रवाकाविव मुखासक्तबालबिसाङ्कुरौ ॥७९८॥ यस्या वलयकेयूरनीलरत्नांशुभोगिभिः । तारुण्यचन्दनलताललिते बभतुर्भुजे ॥७९९॥ स्मरबालवसन्तेन कृतेवाधरकान्तिभिः । श्यामा बबहु वनस्थाया यस्याः किशलयावलिः ॥८००॥ सुस्पष्टनासावंषोच्चललाटच्छत्रमाश्रिताः । यत्कटाक्षच्छटाः प्रापुरुत्पलोद्दामदायताम् ॥८०१॥ वदनाम्भोजभृङ्गालीं या बभारालकावलीम् । प्रशस्तिमिव कामेन न्यस्तां सौभाग्यभूपतेः ॥८०२॥ तां दृष्ट्वा विस्मयोत्फुल्ललोचनस्तन्मयोऽभवत् । क्षिप्रं नवावतारेण स्मरेण तरलीकृतः ॥८०३॥ विस्तीर्णं सुकृतिप्राप्यं तारुण्यस्तनपादपम् । प्रशान्तविग्रह कथं न्यस्तचापमिव स्मरम् ॥८०४॥ लक्ष्मीविलासभवनं भुजस्तम्भविभूषितम् । सापि लावण्यनलिनी राजहंसं विलोक्य तम् ॥८०५॥ लज्जामज्जत्तनुलता कम्पसंपत्तरङ्गिता । असूत्रमौक्तिकलता बभूव स्वेदबिन्दुभिः ॥८०६॥ क्षिप्रं पुलकिता तस्या विरराज कुचस्थली । विशद्भिरिव पुषेपुषरैराकीर्नकेसरा ॥८०७॥ ततः सहेलं तामेत्य प्राह जीमूतवाहनः । प्रागुपायनकर्पूंरमिव दन्तांशुभिर्दिशन् ॥८०८॥आचाररुचिरः कोऽहं क्रमस्तव सुलोचने । संभाष्य तेन यत्पूर्वस्वागतं प्रणयी जनः ॥८०९॥ उक्त्वेति तन्मुखाम्भोजन्यस्तलोचनषट्पदः । अपृच्छत्तत्सखीं लोलकुण्डलोद्द्योतिताननः ॥८१०॥ रसाधारे गुणाधारः कुरुते कस्य नो मनः । कौतुकोत्कलिकालोलस्वभावसुभगो जनः ॥८११॥ विधेरवधिनिर्माणत्रैलोक्यनयनोत्सवः । कुलालंकरणं कन्या कस्येयं ललिताकृतिः ॥८१२॥ इत्युक्ता तेन सा प्राह सखी प्रणयमन्थरम् । गम्भीरोदारमधुरं कलयन्ती तदाशयम् ॥८१३॥ सत्यमुन्नतसत्त्वानां दर्शनेन भवादृशाम् । मनो नृत्यति किं त्वस्याः क्षणं वाङ्ग प्रवर्तते ॥८१४॥ लज्जानिकेतनं कन्या कथं नाथ तवाग्रतः । संभाषणे सुप्रतिभा ललनेव प्रगल्भते ॥८१५॥ विश्वावसोः सिद्धपतेर्वंशमुक्तालता सुता । इयं मलयवत्याख्या नित्यं गौरीस्तुतिव्रता ॥८१६॥ निवेद्येति सखी क्षिप्रं तद्वयस्यादथाश्रृणोत् । जीमूतवाहनकथां प्राज्याभिनयशालिनीम् ॥८१७॥ ततो न्वसमुन्मेषकुसुमेशुतरङ्गिताम् । कान्तां पिबन्निव दृशा प्राह जीमूतवाहनः ॥८१८॥ सहजेनाभिलाषेण गुणैः कान्त्या च भूषिता । इयमालोक्यते क्षिप्रं यदेतज्जन्मनः फलम् ॥८१९॥ आनन्दमधुरा दृष्टिर्मनः प्रीतितरङ्गितम् । सतामेतावदौचित्यं बाह्यस्त्वाचारडम्बरः ॥८२०॥ समागमं सुधावृष्टिं दृष्टिपातमनुग्रहम् । एवंविधस्य वपुषः को हि नाम न मन्यते ॥८२१॥ इति ब्रुवाणे सानन्दं तस्मिन्विद्याधराधिपे ।आहूता सा प्रतीहार्या प्रत्यस्थे मातुरन्तिकम् ॥८२२॥ न्यस्तं मयि मनः पाल्यमेतदत्यन्तपेशलम् । इतीव कान्तं सा प्राह व्रजन्ती नूपुरारवैः ॥८२३॥ ददौ त्रिकपरावृत्तिलक्षितैकस्तनी मुहुः । तस्मै दृशं सा धम्मिल्लमधुपासारणच्छलात् ॥८२४॥ वेपथुस्तम्भसुरुद्धा तन्वी कृच्छ्रेण सा ययौ । सुकुमारेण मनसा सा वहन्ती महाभुजम् ॥८२५॥ निजमन्तःपुरं प्राप्य निःश्वसन्ती श्लथांशुला ।पपात शयनोत्सङ्गे दष्टा मकरकेतुना ॥८२६॥ तस्याः प्रववृधे क्षिप्रं स कोऽपि विरहानलः । यः सिच्यमानो बाष्पाम्बुपूरैरुज्जृम्भतेऽधिकम् ॥८२७॥ अत्रान्तरे जलनिधिं प्रविष्टे वासरेश्वरे ।बभूव रागिणी संध्या नलिनीवनशालिनी ॥८२८॥ पद्मसंकोचचकिता बभ्रमुर्भ्रमरा भुवि । संध्यया सपदि व्युत्पास्तमोबीकजणा इव ॥८२९॥ तिमिरैरञ्जनश्यामैः श्यामावदनकुन्तलैः । चक्रवाकीवियोगाग्निधूमाभैरुत्थितं ततः ॥८३०॥ नीलाम्बुजैरिवोत्सृष्टं भ्रमरैरिव मूर्च्छितम् । नीलकण्ठैरिवोद्गीर्णं चचार सुचिरं तमः ॥८३१॥ अथादृश्यत चण्डिशजटामण्डलमण्डनम् ।श्यामाकर्पूरतिलको रोहिणीरमणः शशी ॥८३२॥ दिक्कान्ताकेलिमुकुले निशामौक्तिककुण्डले । स्मरराजसितच्छत्रे शशिनि स्मेरजृम्भिते ॥८३३॥ उत्फुल्लकुसुमामोदनन्दितेन्दीवरा मुहुः । पद्मिनीविरहोच्छ्वासा इव बालानिला ववुः ॥८३४॥ योषितां हृदयाकाण्डभङ्गयन्त्रोपले विधौ । प्रौढिं प्रयाते पञ्चेषुवह्निकुण्डमहोल्मुके ॥८३५॥ श्रीखण्डरससंसिक्तकदलीदलशायिनी । बभूव गाढसंतापक्लान्ता सिद्धपतेः सुता ॥८३६॥ न जलार्द्रैर्न वसनैर्न हारैर्न सरोरुहैः । तस्या न चन्द्रकान्तैश्च शशाम मदनानलः ॥८३७॥ सा लज्जातरला प्राह तां सखीं पार्श्ववर्तिनीम् ।अयि त्वमेव मे तत्र कान्तदर्शनसाक्षिणी ॥८३८॥ किं करोमि क्क गच्छामि कस्यैतत्कथयामि वा । अयं कन्याविरुद्धो मे क्रमः कामेन निर्मितः ॥८३९॥ ( प्रत्यादिशन्ति संदेशं प्रयान्ति स्वयमेव वा । प्रियं प्रणयशालिन्यो निर्लज्जा बत योषितः ) ॥८४०॥ किं वा संदिश्यते तस्मै लीलया हतचेतसे ।युवासौ भाग्यसंपन्नो वाचः कस्य श्रृणोति वा ॥८४१॥ विज्ञप्तोऽसीति कार्पण्यं वदतीति प्रगल्भता । एहीत्याज्ञावलेपोऽयं प्रियोऽसीति विलज्जता ॥८४२॥ न जीवामीत्यसदृशं त्वत्प्रियास्मीत्यलक्षितम् । आगच्छामीत्यनुचितं स्मरार्तास्मीति चापलम् ॥८४३॥ न जाने सखि किं वाच्यो दैवादासादितोऽपि सः । सर्वथा नष्टसार्थेऽस्मिन्मरणं शरणं मम ॥८४४॥ वयस्यामभिधायेत्थं सा निनायाशु निर्झरैः । संतापशोककठिनं कुचचन्दनमार्द्रताम् ॥८४५॥ जीमूतवाहनोऽप्यस्मिन्नन्तरे विरहाकुलः । तस्मिन्गौरीवरोद्याने चचारेन्दुमुखीं स्मरन् ॥८४६॥ स कामभुजगाक्रान्तः कौमुदीविषमूर्च्छितः । संतापवुह्वलो भेजे वातूलतरलां स्थितिम् ॥८४७॥ तं ध्यानमूकमभ्येत्य क्षामं मधुकरः सखा । उवाच विप्लवः कोऽयं तवापि मनसः सखे ॥८४८॥ भजन्ति सततं सन्तो विद्यार्जनपरिश्रम म् । येन न व्यसनापाते मुह्यन्ति मतिविप्लवैः ॥८४९॥ इति श्रुत्वा विनिःश्वस्य तप्तो जीमूतवाहनः । क्षणं विलोक्य वसुधां स्वस्थोऽस्मीति तमभ्यधात् ॥८५०॥ प्रत्यग्रचन्दनदलैः कल्पिते सुहृदा ततः । निशण्णः शयने प्राप न स संतापतानवम् ॥८५१॥ अत्रान्तरे मलयवत्यभ्येत्य विरहासहा । गौर्याश्रमे तरुलताप्रान्ते पाशमकल्पयत् ॥८५२॥ ततः प्रणम्य गिरिजां हा हतेति विलप्य सा । विधाय साश्रुनयनास्तत्र बाला मृगाङ्गनाः ॥८५३॥ जीमूतवाहनो भूयादन्यस्मिन्मे स जन्मनि ।विभुरित्यभिधायाभूत्सा पाशाभिमुखी क्षणात् ॥८५४॥ तच्छ्रुत्वा सुहृदाहूतस्तूर्णं जीमूतवाहनः । छन्नस्तरुलताजालैः शुश्राव च ददर्श च ॥८५५॥ ततो भगवती प्राह पुत्रि मा साहसं कृथाः । भविता चक्रवर्ती ते भर्ता जीमूतवाहनः ॥८५६॥ इति देवीवरं प्राप्य सा ददर्श पुरःस्थितम् । जीमूतवाहनं हर्शलज्जामुकुलितेक्षणा ॥८५७॥ अत्रान्तरे समभ्येत्य चेटिका तां व्यजिज्ञपत् । दिष्ट्या विवर्धसे देवि कल्पितस्ते महोत्सवः ॥८५८॥ त्वद्भ्रात्रा जनकादेशादद्य विद्याधरात्मजः । जीमूतकेतुपुत्राय दातुं त्वां सादरोत्थितः ॥८५९॥ तदेहि कल्पितोऽद्यैव विवाहो जनकेन ते । इति श्रुत्वैव सा तूर्णं प्रययौ चारुहासिनी ॥८६०॥ जीमूतवाहनोऽप्याशु समेत्य पितुरन्तिकम् । उवाह मङ्गलोदारविवाहोचितभूषणम् ॥८६१॥ ततो महोत्सवानन्दिविद्याधरशतानुगः । परिणीय प्रियतमां सोऽभूत्संभोगतत्परः ॥८६२॥ प्रेयस्याः सोऽग्रजं तुल्यरूपं मित्रावसुं व्यधात् । विलासकेलिलीलासु प्ररूढप्रेमभाजनम् ॥८६३॥ कदाचिदथ विश्रम्भात्स मित्रावसुना सह । चचार जलधेर्वेलावनान्तमवलोकयत् ॥८६४॥ ददर्श तत्र शिखराकारं नागास्थिसंचयम् । युगक्षये महाभूतं करकैरिव पूरितम् ॥८६५॥ किमेतदिति तेनाशु पृष्टो मित्रावसुस्ततः । उवाच गरुडेनात्र भक्षिता भुजगोत्तमाः ॥८६६॥ सर्वक्षयभयात्तार्क्ष्यस्ततो वासुकिनार्थितः । विसृष्टं तेन वारेण सदैकं नागमत्त्यसौ ॥८६७॥ अयमस्थिचयस्तेशामद्रिकूटसमुच्छ्रयः । उक्त्वेति जनकाहूतस्तूर्णं मित्रावसुर्ययौ ॥८६८॥ जीमूतवाहनोऽप्योकः सर्पेषु करुणाकुलः । चचार तत्र निःसारं संसारं कलयन्धिया ॥८६९॥ ततो ददर्श करुणाक्रन्दशुष्काधराननाम् । वृद्धाङ्गनां कुमारेण सान्त्वमानां मुहुर्मुहुः ॥८७०॥ पूर्णेन्दुसुन्दरमुखं कान्तिधूतदिगन्तरम् । स्फुरत्स्फीतफणारत्नपुञ्जपिञ्जरिताम्बरम् ॥८७१॥ आनन्दमिव कासारं संतोषमिव जङ्गम म् । तं वीक्ष्य तनयं वृद्धा ( विललापाश्रुगद्गदम् ॥८७२॥ हा पुत्र नयनानन्द सौन्दर्यामृतदीधिते । शङ्खपालमहावंशव्यक्तमुक्तामणीयित ) ॥८७३॥ हा शङ्खचूड लावण्यनिधानमिदमेव ते । यपुर्गरुडचञ्चवग्रवज्रपातासहं कथम् ॥८७४॥ भीतेन नागराजेन प्रेशितोऽसि गरुत्मते । सुकुमारशरीरेऽस्मिन्कस्ते त्राणं भविष्यति ॥८७५॥ इति पुत्रमुखाम्भोजमाघ्राय विललाप सा । जीमूतवाहनोऽभ्येत्य तामुवाच कृपाकुलः ॥८७६॥ मातः स्थितोऽस्मि ते पुत्रपरित्राणकृतक्षणः । परोपकारः संसारे निःसारे प्राप्यते कुतः ॥८७७॥ अयमेव सदापाये काये सारसमुच्चयः । यत्प्रयाति परायासत्राणसत्पुण्यपात्रताम् ॥८७८॥ इत्याकर्ण्य परित्रस्ता सुपर्णाशङ्किनी ततः । पुत्रमासाय साकम्पा सा पुरः प्रणनाम तम् ॥८७९॥ नाहं गुजङ्गधिपतिर्वितीर्य निजविग्रहम् । विद्याधरो रक्षिताहं त्वत्पुत्रस्येति सोऽय़्भ्यधात् ॥८८०॥ वृद्धावदत्तं त्वमथ(स्व्हङ्खचूडधिको मम । बहुकल्पशतं धन्यां रक्ष सौम्यामिमां तनुम् ॥८८१॥ इति तस्यां ब्रुवाणायां शङ्खचूडाधिको मम । तमभ्यधात्स्मितमुखो ललाटरचिताञ्जलिः ) ॥८८२॥ अभिनन्दितमेतत्ते दर्शनं सत्त्वशालिनः । पूर्णेन्दुरमृतोद्गारिकिरणः कस्य न प्रियः ॥८८३॥ अहो नु त्फ़्वं निजान्प्राणान्मदर्थं दातुमुद्यतः । सहामहे कथं नाम तृणार्थे रत्नविक्रयम् ॥८८४॥ कियन्तो न भवाम्भोधौ जाता याताश्च मद्विधाः । कौस्तुभस्येव भवतः क्क दृष्टः पुनरुद्भवः ॥८८५॥ सत्त्वोज्ज्वलं तवैवेतन्मुखेन्दौ शोभते वचः । अन्धकायस्य जगतामनास्थाने तु पातितम् ॥८८६॥ मद्वियोगाग्निविधुरा समाश्वास्या विभो त्वया । माता मे स्या अदृष्टोऽपि साधुः सुचिरबान्धवः ॥८८७॥ इति नागकुमारस्य वचः श्रुत्वा कुलोचितम् । जीमूतवाहनः प्राह बत चित्रं प्रभाषसे ॥८८८॥ वृद्धेयं त्वां विना पुत्रं कुलालंकरणं सखे । कथं जीवति दुःखं हि जननीनां सुदुःसहम् ॥८८९॥ एतां त्रातुं निजात्मानं रक्श त्वज्जीविता ह्यसौ । अस्याः प्राणपरित्यागे विद्वन्मा कारणं भवः ॥८९०॥ शरीरेण मदीयेन द्वयं पाहि महामते । इत्युक्त्वा शङ्खचूडस्य पादयोर्निपपात सः ॥८९१॥ फणिसूनुस्तमवदन्निर्बन्धकुलितस्ततः । श्रुत्वा विवेचितं नैव मादृशामीदृशं वचः ॥८९२॥ न नाम शङ्खधवलं शङ्खपालं महाकुलम् । मयापि शङ्खचूडेन सत्त्वभङ्गात्कलङ्क्यते ॥८९३॥ आसन्नो गारुडः कालः स्वस्ति गच्छाम्यहं विभो । वधशैले प्रणम्याशु गोकर्णं शशिशेखरम् ॥८९४॥ उक्त्वेति मात्रानुगते याते तस्मिन्क्षणादभूत् । उच्चण्डाकाण्डकल्पान्तवातव्याकुलितं जगत् ॥८९५॥ कालदोर्दण्डशङ्खाभाश्छटाघटितदिक्तटाः । उत्तस्थुर्मकरास्फारकरालाः सागरोर्मयः ॥८९६॥ ततश्चण्डांशुतप्तस्य सुमेरोरिव रश्मिमिः । अभूदौर्वानलेनेव पूरित्वं पिञ्जरं नभः ॥८९७॥ आगतं गरुडं ज्ञात्वा सूचितं पक्षमारुतैः । आरुरोह मदाबद्धः शिलां जीमूतवाहनः ॥८९८॥ रत्नांशुकेन संछन्नः स्थितस्तत्र व्यचिन्तयत् । सत्त्वोपकाराय पुनर्जन्म भूयान्ममेति सः ॥८९९॥ ततोऽदृश्यत दिग्दाहदारुणच्छविरम्बरे । प्रलयाग्निशिखालोलपक्षाक्षेपः खगेश्वरः ॥९००॥ तस्योरुवेगसंघट्टस्फूर्जद्धनघनारवैः । चुक्रोशाकालकल्पान्तसंत्रस्तेव जगत्त्रयी ॥९०१॥ ततः स तस्य धैर्याब्धिविद्याधरशिरोमणेः । जहार शिरसश्चूडं चूडारत्नेन मण्डितम् ॥९०२॥ ततः शरीरमादाय तस्य तुण्डेन खेचरः । गगने वलयाकारं चकार गतिविभ्रम म् ॥९०३॥ तच्चञ्चुक्रकचभ्रष्टं रत्कधारापुरःसरम् । अङ्के मलयवत्यास्तु चूडारत्नमथापत त् ॥९०४॥ तद्दृष्ट्वा वज्रसंरुग्णा शिरीषलतिकेव सा । जीमूतकेतवे तन्वी परित्रस्ता न्यवेदयत् ॥९०५॥ स्वविद्यया परिज्ञाय स्वसूनोर्जीवितव्ययम् ।भार्यास्नुषाभ्यां सहितः सौपर्णीं तां शिलां ययौ ॥९०६॥ अत्रान्तरे शङ्खचूडस्तूर्णं तं देशमागतः । गोकर्णमर्णवतटे प्रणिपत्य मनोजवः ॥९०७॥ तत्रापश्यान्नखमुखोत्खातस्खलितशेखरम् ॥ विद्याधरेन्द्रमादाय तार्क्ष्यमुत्पतितं दिवि ॥९०८॥ तं वीक्ष्य साश्रुनयनो विनाघातं विदारितः । आत्मानं तद्वधे मत्वा कारणं विललाप सः ॥९०९॥ हा सत्त्वविपुलौदार्यधैर्यगाम्भीर्यसागर । हा पूर्णकरुणाकोश हा निष्कारणबान्धव ॥९१०॥ इति शोचन्स विपदमनुसर्तुं गरुत्मतः । जगाम जीवितत्यागदृढीकृतविनिश्चयः ॥९११॥ आस्वाद्यास्वाद्य तार्क्ष्योऽपि व्योमि जीमूतवाहनम् । क्षिप्रं स्थगितसंरम्भं प्रदध्यौ विस्मयाकुलः ॥९१२॥ अहो नु सत्त्ववानेष कोऽपि धैर्यमहोदधिः । भक्ष्यमाणस्य यङ्गास्ये जायन्ते पुलकाङ्कुराः ॥९१३॥ प्रसन्नवदनः क्षिप्रं जीवशेषोऽपि वर्तते । चिन्तयित्वेत्यपृच्छत्त्वं कोऽसीति विनतात्मजः ॥९१४॥ स तं प्राह किमेतेन तव भक्षय मामिति । अस्मिन्नवसरे शङ्खचूडोऽभ्येत्य तमब्रवीत् ॥९१५॥ हा हा मा मा कृथास्तार्क्ष्य साहसं किं न पश्यसि । अस्य विद्याधरेन्द्रस्य स्वस्तिकाङ्कमुरस्तटम् ॥।९१६॥ अहं स नागस्ते भक्ष्यं पश्य जिह्वालताद्वयम् । विस्फूर्जद्विषफूत्कारं रत्नस्फीताः फणाश्च मे ॥९१७॥ इदानीमपि मे देहे मांसशोणितमस्ति भोः । न च पश्यामि ते तृप्तिं स त्वं दूरे स्थितः कुतः ॥९१८॥ इत्युक्त्वा विपुलं वक्षः प्रसार्योत्तानविग्रहः । तूर्णं मां भक्षयेत्याह स सुपर्णं पुनः पुनः ॥९१९॥ ततोऽस्थिशेषं तं त्यक्त्वा विषण्णे पन्नगेश्वरे । जीमूतवाहनवधूर्गुरुभ्यामाययौ सह ॥९२०॥ दृष्ट्वा मलयवत्यग्रे प्राणनाथं तथागतम् । मुमोहापूर्वशोकाग्निधूमेनेवान्धकारिता ॥९२१॥ जीमूतकेतुस्तनयं विलोक्य सह जायया । पपात मूलनिर्लून इव चन्दनपादपः ॥९२२॥ तार्क्ष्येणाश्वास्यमानेषु तेषु जीमूतवाहनम् । संस्पृश्य पाणिना माता शुशोच करुणस्वनम् ॥९२३॥ मुहूर्तोच्छेषजीवोऽपि सोऽब्रवीज्जननीं शनैः । मातर्विनश्वरस्यास्य किं शरीरस्य शोच्यते ॥९२४॥ भवेऽस्मिन्पवनोभ्द्रान्तवीचिविभ्रमभङ्गुरे । जायते पुण्ययोगेन परार्थे जीवितव्ययः ॥९२५॥ उक्त्वेति विसृजन्प्राणानविच्छायमुखच्छविः । स्फारेण शोकतमसा जगत्संपूरयन्निव ॥९२६॥ ततो मलयवत्यासीन्मरणे कृतनिश्चया । शोकस्तम्भेन संरुद्धां न चचाल पपात वा ॥९२७॥ अथ साक्षाद्भगवती गौरी तां भक्तवत्सला । समाश्वास सुधसारैस्तद्भर्तारमजीवयत् ॥९२८॥ चक्रवर्तिश्रियं चास्मै दत्त्वा क्षिप्रं तिरोदधे । ततो देवाः सगन्धर्वास्तस्य सत्त्वमपूजयन् ॥९२९॥ गरुडोऽप्यथ हृष्टात्मा वरदस्तेन याचितः । प्रददौ सर्वनागानां पुण्यमभयदक्षिणाम् । जीमूतवाहनो हृष्टः प्रययौ दयितासखः ॥९३०॥ कथयित्वेति वेतालः पप्रच्छ वसुधाधिपः । सत्त्ववाञ्शङ्खचूडोऽत्र किं वा जीमूतवाहनः ॥९३१॥ इति पृष्टो नृपः प्राह शङ्खचूडोऽत्र सत्त्वभूः । यो बालोऽपि निजौचित्यान्न चचाल महाशयः ॥९३२॥ जीमूतवाहनस्यैतदात्मदानं किमद्भुतम् । बोधिसत्वः स हि पुरा दत्तवान्बहुशस्तनुम् ॥९३३॥ तपस्तीव्रं यशः शुभ्रं श्लाघ्या श्रीः सत्त्वमद्भुतम् । निर्व्याजदानं च नृणां पूर्वाभ्यस्तं हि जायते ॥९३४॥ श्रुत्वेत्यलक्षितो गत्वा वेतालः शिंशपातरौ । तेनैव कण्ठपाशेन तथैवोल्लम्बितः स्थितः ॥९३५॥ इति षोडशो वेतालः ॥१८॥ N/A References : N/A Last Updated : October 25, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP