संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| मदनमञ्चकाविवाहो मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो मदनमञ्चकाविवाहो क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत मदनमञ्चकाविवाहो Translation - भाषांतर N/Aगोमुखश्चिन्तयित्वेति राजपुत्रं समभ्ययात् । मरुभूतिप्रभृतिभिः सेव्यमानं मनःप्रियैः ॥५९६॥ नानाकथान्तरे तत्र राजनीतिविदो मिथः । नरवाहनदत्ताग्रे ते प्राहुः सेवकाः श्रुतम् ॥५९७॥ दृप्ताः कष्टेन सिद्ध्यन्ति प्लवङ्गचपला नृपाः । ये सेव्यमानाः कुप्यन्ति प्रसीदन्ति च वञ्चिताः ॥५९८॥ सम्स्त्चित्रग्रहणं साहसं स्वामिवञ्चनम् । अहो व्रतमिदं तीक्ष्णं योगिनः सेवकस्य च ॥५९९॥ एतद्धि परमं तत्त्वं सेव्यते यन्महीपतेः । समस्तग्रहणे राज्ञो मरुतां च क ईश्वरः ॥६००॥राजा न संहताञ्जेतुं शक्रोति सरलाशयः । यस्तान्भिनत्ति यत्नेन तस्य लक्ष्मीर्विनश्वरी ॥६०१॥ मथुरायां पुरा राजा शूरसेनः सुसंहतान् । भृत्यान्विलोक्य भेदेन योजयामास योगवित् ॥६०२॥ दत्वा प्रसादमेकस्मै तीव्रं परमदण्डयत् । तमप्यदण्डयत्काले सर्वानेकैकशस्ततः ॥६०३॥ इति सन्ति नृपाः प्राज्ञाः सेव्यास्ते तत्त्वदर्शिनः । इत्यादि कथया तस्थौ वयस्यैर्नरवाहनः ॥६०४॥ अथ मानसवेगाख्यो विद्याधरपतिः स्वयम् । कलिङ्गसेनातनयालाभे चक्रे मनोरथम् ॥६०५॥ त्तः कलिङ्गसेनाया वचसा वत्सभूपतिः । यौगंधरायणसखः पुत्रोद्वाहे समुद्ययौ । इत्यादिकथया तस्थौ वयस्यान्नरवाहनः ॥६०६॥ ततः कलिङ्गसेनाया वचसा वत्सभूपतिः । यौगंधरायणसखः पुत्रोद्वाहे समुद्ययौ ॥६०७॥ शस्ते मुहूर्ते विमले प्रवृत्ते देवतागणे । पुष्पवर्षे सुरैर्मुक्ते विवाहोचितकङ्कणा ॥६०८॥ विवेश भूषिता देवी कन्या मदनमञ्चुका । निजकान्तिवितानेन भूषयन्ती विभूषणम् ॥६०९॥ वह्निप्रदक्षिणे तस्याः पत्युः पार्श्वविलोकिनी । ननाम दृष्टिः पर्यस्ता स्रस्तेवोत्पलमालिका ॥६१०॥ सकोपोऽभूत्तदा लक्ष्मीर्ह्येतेषां लग्नसंगमे । कल्पविद्याभृतां यस्याः प्रभावश्चक्रवर्तिता ॥६११॥ अथ नयनविलासस्मेरवक्त्रेन्दुभासा स्फुटमिह हि स रत्या संगतः पुष्पचापः । बत विधिविहतोऽयं कोऽपि नेत्रोत्सवो नः क्षणमिति दिवि चेरुस्तद्विवाहे प्रवादाः ॥६१२॥ इति श्रीक्षेमेन्द्रविरचिते बृहत्कथासारे मदनमञ्चकाविवाहो नाम सप्तमो लम्बकः ॥ N/A References : N/A Last Updated : October 12, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP