संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च Translation - भाषांतर इति मन्त्रिवचः श्रुत्वा हृष्टो वत्सनरेश्वरः । देव्या च पद्मावत्या च विजहार स्मरार्तधीः ॥५५४॥ नरवाहनदत्तोऽपि मात्रोरमृतनिर्झरः । पितुर्मनोरथैः सार्धं पूर्यमाणतनुर्बभौ ॥५५५॥ ततो वासवदत्तायाः शासनात्तनयां प्रियाम् । कलिङ्गसेना सानन्दा विससर्ज नृपान्तिकम् ॥५५६॥ नरवाहनदत्तस्तां दृष्ट्वा मदनमञ्चुकाम् । स्फुटं जहर्ष बालोऽपि सिच्यमान इवामृतैः ॥५५७॥ उत्सङ्गलालिता धात्र्या तं राजतनयं विना । मुहूर्तमपि नो तस्थौ सा कन्या कामकन्दली ॥५५८॥ ततो राजा प्रशस्तेऽह्नि सुतं संपूर्णविग्रहम् । यौवराज्येऽभिषिच्याह मन्त्रिपुत्रान्क्रमागतान् ॥५५९॥ नरवाहनदत्तस्य यूयं मौला यथोचितम् । भृत्या मया समादिष्टाः पितृपैतामहे पदे ॥५६०॥ इत्युक्त्वा तनयायैतान्प्रददौ मन्त्रिपुत्रकान् । यौगंधरायणसुतं मरुभूतिं महामतिम् ॥५६१॥ वसन्तकस्य पुत्रं चावर्णशीलं सुमन्त्रकम् । [ गोमुखाद्यांश्च सुहृदो वीरं हरशिखं तथा ] ॥५६२॥ अत्रान्तरे मयसुता भर्तारं नलकूबरम् । समामन्त्र्यान्तिकं सख्याः स्मृतमात्रा समाययौ ॥५६३॥ सा चक्रे दिव्यमुद्यानं व्योमगं भर्तृशासनात् ।योग्यं कलिङ्गसेनायाः पुत्रीपरिणयोत्सवे ॥५६४॥ वत्सराजः सहामात्यस्तदालोक्यातिकौतुकात् । कलिङ्गसेनां सानन्दमेते सर्वविदां धुरि ॥५६५॥ततो रहःस्थितो राजा रजनीतिलकाननाः । दृष्ट्वा वराङ्गनाः प्रह्व्यः पप्रच्छागमकारणम् ॥५६६॥ ताः प्राहुर्भूपते सर्वा वयं विद्याः कलास्तथा । शरीरं प्रविशामोऽद्य तव पुत्रस्य धीमतः ॥५६७॥ तच्छ्रुत्वा वत्सराजस्ताः संपूज्य प्रयतः शुचिः । महाप्रसाद इत्युक्त्वा बभूवानन्दनिर्भरः ॥५६८॥ ततस्ता विविशुर्विद्या राजपुत्रं कलाश्च ताः । तदाविष्टश्च स बभौ सुधासिक्त इवोडुपः ॥५६९॥ इति यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च ॥२३॥ N/A References : N/A Last Updated : October 12, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP