संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| पतिव्रताख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो पतिव्रताख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत पतिव्रताख्यायिका Translation - भाषांतर ततो विज्ञाय निपुणो राजकन्याविचेष्टितम् । चक्रे विदितवृत्तान्तं नृपं यौगंधरायणः ॥५१४॥ कलिङ्गसेना केनापि वृता विद्याधरेण सा । इति वासवदत्तां च मन्त्री गूढमहर्षयत् ॥५१५॥ क्रोधशोकस्मराक्रान्तो गत्वा वत्सेश्वरः स्वयम् । कलिङ्गसेनां निःशङ्कां ददर्शाक्रान्त््कथाम् ॥५१६॥ सा वत्सराजमालोक्य संभ्रमाद्गलितांशुका । स्तनद्वयं विदधती धरोल्लिखितमाबभौ ॥५१७॥ दृष्ट्वाभिनवसंभोगसंभावितमनोभवाम् । सौभाग्यविभ्रमोद्भिन्नां तां लतामिव पुष्पिताम् ॥५१८॥ वत्सराजो नियम्यान्तः कोपमन्मथविक्रियाम् । प्राह केनापि पापेन वञ्चितासीति निःश्वसन् ॥५१९॥ कलिङ्गसेना तच्छ्रुत्वा सद्यश्छिन्नमनोरथा । नेदानीं त्वं सपत्नी मे क्ष्मामितीव व्यलोकयत् ॥५२०॥ ततो वत्सेश्वरे याते साक्षाद्विद्याधरेश्वरम् । वरं मदनवेगं सा ददर्श स्मरविभ्रम म् ॥५२१॥ कुलाभिजनमावेद्य साक्षिता तेन मानिनी । नोवाच किंचिन्मनसा बबन्ध वसुनिर्वृतिम् ॥५२२॥ अथ वत्सेश्वरः स्वैरं स्मरानुशयतापितः । विद्याधरेन्द्ररहितां राजपुत्रीं समाययौ ॥५२३॥ स तामेत्यावदल्लज्जानाललोचनकान्तिभिः । आगुल्फामिव बिभ्राणां नीलोत्पलदलस्रजम् ॥५२४॥ प्राप्ता मदर्थमेवासि भज मां सुभ्रु नास्ति ते । दोषो विशुद्धभावायाः प्रमाणं चात्र मे मनः ॥५२५॥ इति राजवचः श्रुत्वा साब्रवीत्साश्रुलोचना । दुर्निमित्तं विलोक्यैवं सख्याहं वारिता पुरा ॥५२६॥ सोमप्रभावचः पथ्यमकृत्वा संशयं गता । प्रजापाल तवेदानीमगम्याहं पराङ्गना ॥५२७॥ इन्द्रदत्ताभिधो राजा चेदीनामभवत्पुरा । पापसूदनतीर्थे च चक्रे सुरालयम् ॥५२८॥ स कदाचिद्वणिग्जायां तत्तीर्थं स्नातुमागताम् । ददर्श कान्तिकल्लोलप्लाव्यमानामिवाभितः ॥५२९॥ तामन्विष्य स्वयं राजा समेत्य विजने निशि । भजस्वेत्यवदत्को हि कामेन न खलीकृतः ॥५३०॥ स्पृष्टा वह्निं विशामीति सा समाभाष्य भूपतिम् । तत्याज दयिता प्राणान्विषमं हि सतीव्रतम् ॥५३१॥ भूपतेरपि तत्तीव्रपापसंकुचितायुषः । मन्ये तस्य कथास्पर्शाज्जिह्वेयं लज्जतीव मे ॥५३२॥ इति पतिव्रताख्यायिका ॥२०॥ N/A References : N/A Last Updated : October 12, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP