संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| कीर्तिसेनाख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो कीर्तिसेनाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कीर्तिसेनाख्यायिका Translation - भाषांतर श्रृणु श्वश्रुकृतैर्दुःखैर्यथाप्ता कीर्तिसेनया । विपत्स्वबुद्ध्या च यथा निस्तीर्णा व्यसनोदधिम् ॥२१९॥ धनपालित इत्यासीद्वणिक्पाटलिपुत्रके । कीर्तिसेनाभवत्तस्य कन्या लावण्यवाहिनी ॥२२०॥ तां यौवनवतीं काले स सारङ्गविलोचनाम् । देवसेनाय वणिजे मग्धावासिने ददौ ॥२२१॥ सा भर्त्रा लालिता स्वैरं श्वश्र्वा कलहपीडिता । उवास गेहे श्रीखण्डवने सर्पाकुले यथा ॥२२२॥ ततः कदाचिद्वलभीं प्रस्थितो द्रविणार्जने । देवसेनः प्रियावेश्म विवेशामन्त्रणोद्यतः ॥२२३॥ तमब्रवीत्कीर्तिसेना त्वयि याते ध्रुवं विभो । भर्त्सयिष्यति मां श्वश्रूः कलहेन निरन्तरम् ॥२२४॥ इति प्रियावचः श्रुत्वा संस्तभ्य विरहव्यथाम् । ययौ मातरमाभाष्य वर्तयेथाः स्नुषामिति ॥२२५॥ तस्मिन्गते तज्जननी सततं क्रोधमूर्च्छिता । वियोगदुःखितां प्राह कीर्तिसेनां नताननाम् ॥२२६॥ सुकृते नित्यरुदिते दुर्भत्गे मङ्गलोज्झिते । बाष्पं ते पितुरेवास्तु पुत्रो जीवतु मे चिरम् ॥२२७॥ उक्त्वेति तत्परिजनं निरस्य सहसा गृहम् । भयात्प्रसन्नवदनां पुनराह परेऽहनि ॥२२८॥ हासशीले तव पतिर्भयाद्देशान्तरं गतः । त्वं नु वेश्येव निःस्नेहा विलासेनेक्षसे जनम् ॥२२९॥ इति नानाविधोद्वेगैः सावेगक्रोधदुःसहैः । वाक्सायकैस्तामसकृज्जघान विरहेऽपि सा ॥२३०॥ संमन्त्र्य तद्वधोपायं तामथान्धगृहोदरे । रक्षेऽहं भर्तृद्रविणं स्वमित्युक्त्वा न्यवेशयत् ॥२३१॥ श्वश्र्वा च पिहिते तत्र न्यस्ता सा निबिडार्गले । सदाशनचतुर्भागं लेभे भग्नशरावके ॥२३२॥ शरावकर्परेणाथ सा चखान गृहं शनैः । दैवात्प्राप्तेन च पुनः खनित्रेण महाबिलम् ॥२३३॥ तेनैव निशि निर्गम्य गृहीतकनकाम्बरा । विधाय पौरुषं वेषं वलभीप्रमुखं ययौ ॥२३४॥ पथि सार्थपतिं प्राप्य कृतराजसुताकृतिः । प्रययौ पुरुषस्पर्शपरिहारपरैव सा ॥२३५॥ ततस्तस्मिन्महासार्थे पपाताशनिवन्निशि । चौरसेना विधौ वामे त्रुट्यन्त्यालम्बनान्यपि ॥२३६॥ सा चौरभयवित्रस्ता सार्थे निःशेषतं गते । उवास गूढां रजनीं तृणे भूकुहरान्तरे ॥२३७॥ प्रातस्ततो विनिर्गत्य प्रविष्टा विकटाटवीम् । सिंहव्यालैर्न निहता सतीतेजोऽतिदुःसहम् ॥२३८॥ राजपुत्राकृतिं दृष्ट्वा तामथ श्रमतापिताम् । कारुण्यात्सलिलैः शीतैर्वितृश्णामकरोन्मुनिः ॥२३९॥ तिरोहिते मुनिसुते निशीथे प्रत्युपस्थिते । सा तस्थौ दस्युचकिता सुषिरद्रुमकोटरे ॥२४०॥ ततोऽर्धरात्रे संप्राप्ते राक्षसीं सह पुत्रकैः । छायामिव कृतान्तस्य ददर्शालिखि(लक्षि)ता पुरः ॥२४१॥ भोजनं याच्यमानासौ तनयांस्तानभाषत । महाकालेन निर्दिष्टं भोजनं नो भविष्यति ॥२४२॥ वसुदत्ताभिधो राजा वसुदत्तपुराधिपः । शतपद्या समाक्रान्तः कर्णरन्ध्रप्रविष्टया ॥२४३॥ तत्प्रसूतैः शतपदीशतैर्व्याप्तशिरोन्तरः । अविज्ञातामयो वैद्यैर्भविता पूर्णभोजनम् ॥२४४॥ श्रुत्वेति कौतुकाविष्टैः सा पृष्टा राक्षसैः सुतैः । नृपस्य जीवितोपायं वीतशङ्कमभाषत ॥२४५॥ घृताभ्यक्तः स मध्याह्नतापे संतप्तपायसैः । उपलिप्तं शिरः कृत्वा श्रवणे वेणुनालकाम् ॥२४६॥ स्थापयेन्नालिकाप्रान्ते कुम्भं यदि सुशीतलम् । ततोऽस्मिन्निःसरन्त्येव शतपद्यो न संशयः ॥२४७॥ किमनेनाथवास्माकं यातु राजा स पञ्चताम् । अस्मत्संतृप्तये तूर्णमित्युक्त्वा राक्षसी ययौ ॥२४८॥ कीर्तिसेना निशम्यैवं प्रातस्तं प्रययौ नृपम् । अदूरवासिनीं क्षिप्रं वैद्यवेषोपलक्षिता ॥२४९॥ पूर्णेन्दुसुन्दरमुखः श्रीमानेक इवाश्विनोः । सुकुमारारविन्दाक्षो वैद्यो देशान्तरागतः ॥२५०॥ नृपं स्वस्थं विधास्यामि द्वारपं प्रति दर्शयन् । प्रविष्ट इति राजानं प्रतीहारो व्यजिज्ञपत् ॥२५१॥ ततः क्षिप्रं समाहूय राज्ञा देव्या च पूजिता । वैद्यवेषाविशत्क्षिप्रं कीर्तिसेना नृपालयम् ॥२५२॥ ददर्श नृपतिं तत्र क्षयक्षीणमिवोडुपम् । शोषितं घूणसंघेन छायावृक्षमिवाततम्म ॥२५३॥ देवीकरतलन्यस्तकपालो वीक्ष्य तं नृपः । निभृतोऽभूच्छुभप्राप्तौ मनः पूर्वं प्रसीदति ॥२५४॥ ततो यथोक्तं राक्षस्या सा विधाय महीपतेः । चकर्ष शिरसो व्याधिं येन स्वस्थोऽभवत्क्षणात् ॥२५५॥ व्याधिमुक्तोऽथ नृपतिर्वैद्यवेषामुवाच ताम् । राज्यं ममाश्वरत्नाढ्यं गृहाणेति प्रसन्नधीः ॥२५६॥ साब्रवीन्न्यासभूतं मे संप्रति त्वयि तिष्ठतु । याचितो दास्यसीत्युक्त्वागूढा तस्थौ तदालये ॥२५७॥ ततः कालेन स वणिग्देवसेनः समाययौ । महाभाण्डधनाभोगपूरिताशेषपत्तनः ॥२५८॥ राज्ञा निवारितं गन्तुं शुल्कायतमुपेत्य सा । चिरसंगमपीयूषप्लाव्यमानाभवन्मुहुः ॥२५९॥ देवसेनः स विज्ञाय कीर्तिसेनां सकौतुकः । दृष्ट्वा निशम्य वृत्तान्तं बभूव प्रमदाकुलः ॥२६०॥ भूपालोऽपि तदाश्चर्यं विदित्वा निखिलं ततः । उवाच धर्मभगिनी ममेयं त्वं स्वसुः पतिः ॥२६१॥ वैद्यवेषं विधायैषा जीवितं विततार मे । इत्युक्त्वा वणिजे राजा राज्यार्धं मुदितो ददौ ॥२६२॥ इति श्वश्र्वा सुविपुले पातिता शोकसागरे । कीर्तिसेना स्वधैर्येण तारिता प्राप वल्लभम् ॥२६३॥ इति कीर्तिसेनाख्यायिका ॥११॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP