संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| सुलोचनाख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो सुलोचनाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत सुलोचनाख्यायिका Translation - भाषांतर कलिङ्गदत्तः श्रुत्वेति बुद्धः सद्धर्मदेशनम् । अशृणोद्ब्राह्मणवचः कन्यकाजन्मदुःखितः ॥१११॥ कुमारीजन्मना राजन्किं वृथा परितप्यसे । पुत्रैरशक्यं यत्कर्तुं तत्सुताभिरवाप्यते ॥११२॥ सुषेण इति भूपालश्चित्रकूटाचलेऽभवत् । कर्पूरकर्णपूरोऽभूद्यद्यशः सुरयोषिताम् ॥११३॥ कान्तावर्गसमारम्भः प्रिया त्वस्य गुणाधिका । न विना चन्द्रिकां लक्ष्मीश्चन्द्रे कान्ते प्रसीदति ॥११४॥ स निर्ममे नवोद्यानं विमानमिव गां गतम् । संकेतसद्म कामस्य वसन्तमिव कल्पितम् ॥११५॥ रममाणः सदा तस्मिन्स नानाकुसुमोज्ज्वले । न््द नन्दनगतः शतक्रतुरिवापरः ॥११६॥ कदाचिन्नयनानन्दनिस्यन्दमधुवाहिनी । गीर्वाणनर्तकी रम्भा तं ददर्शाथ तां च सः ॥११७॥ सा तं विलोक्य सच्छायं श्रृङ्गारसुरपादपम् । सर्वातिशायिनिर्माणपुण्याहमिव वेधसः ॥११८॥ स च तां वीक्ष्य पूर्णेन्दुनवलावण्यचन्द्रिकाम् । कौशिकीरसिकस्येव कामस्य रतिभूमिकाम् ॥११९॥ बभूवतुः स्मरशरासारसंनिभमानसौ । तत्पक्षपवनेनेव सरोमोद्गमवेपथू ॥१२०॥ सा मानुषतनुर्भूत्वा तमुपेत्य घनस्तनी । गङ्गेव शंतनुं भेजे सुषेणं नाककामिनी ॥१२१॥ कासीति प्रच्छनीयाहं न राजन्निति संविदा । तां प्राप्य भूमिपालोऽभूत्स्मरसाम्राज्यदीक्षितः ॥१२२॥ रममाणः सह तया रतिमानिव मन्मथः । मधुमास इव श्रीमान्नवोद्यानमभूषयत् ॥१२३॥ ततः सा गर्भमासाद्य कालेन वसुधाधिपात् । असूत तनयां कान्तिसंतानजितचन्द्रिकाम् ॥१२४॥ सावदन्नृपतिं नाथ स्वस्ति गच्छाम्यहं दिवम् । रम्भामवैहि मां देव देवीं देवविलासिनीम् ॥१२५॥ सुताप्रसवपर्यन्तं संगमो मे भुवि त्वया । पुनः पुत्र्याः प्रभावान्मे भविता संगमस्त्वया ॥१२६॥ इत्युक्त्वा प्रययौ व्योम्ना तडित्स्फुरितविश्रमा । कृत्वा भुजङ्गी नृपतिं वियोगविषमूर्च्छितम् ॥१२७॥ ततः सुलोचना नाम सा कन्या विभ्रमा विधिः । प्रियासमागमायैव ववृघे नृपतेः शनैः ॥१२८॥ तां यौवनवसन्तेन संगतां स्तबकस्तनीम् । श्यामामपश्यद्द्युतिमान्काश्यपो मुनिपुत्रकः ॥१२९॥ अभिलाषवतीं दृष्ट्वा स तां हरिणलोचनाम् । युवा ययाचे नृपतिं स्मरतप्तः सुलोचनाम् ॥१३०॥याचितो मुनिना सोऽथ प्रोवाच वसुधाधिपः । रम्भावृत्तान्तमावेद्य शनैर्विरहनिःसहः ॥१३१॥ समागमे मे रम्भायास्तनया संभविष्यति । अनीश्वरोऽस्मि दानेऽस्या मुने तत्संगमावधि ॥१३२॥ श्रुत्वेति वचनं राज्ञो बभाषे मुनिपुत्रकः । अहं स्वतपसोऽ शेन सशरीरस्य ते दिवि । रम्भासमागमं कर्ता देहि राजन्सुलोचनाम् ॥१३३॥ पुरा प्रमद्वरां जायां भृगुवंशभवो गुरुः । आयुषोऽर्धेन दुष्टाहिदष्टामेवमजीवयत् ॥१३४॥ इत्युक्त्वा संगमं राज्ञो विदधे रम्भया दिवि । सुलोचनां मुनिः प्राप स्मरामृततरङ्गिणीम् ॥१३५॥ इति कन्याप्रभावेण प्राप्नुवन्तीप्सितं नराः । शापादिकारणाद्देव्यो मर्त्येष्ववतरन्ति च ॥१३६॥ इति सुलोचनाख्यायिका ॥७॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP