संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| सपत्न्याख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो सपत्न्याख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत सपत्न्याख्यायिका Translation - भाषांतर सखि तूर्णं त्वया मोहात्किमात्मा प्रकटीकृतः । सपत्नीनां प्रयत्नो हि त्वद्विवाहविपर्यये ॥४००॥ रक्षणीयासि मे यत्नात्सपत्नीगोचरं गता । मायावतीनां वैरेण योषितां को हि मुच्यते ॥४०१॥ दृढवर्माभिधो राजा मृगयानिर्गतः पुरा । इक्षुमत्याः परिसरे हृतोऽश्वेनाविशद्वनम् ॥४०२॥ सोऽपश्यदनिलालोलशालरम्ये तपोवने । तत्र कन्यां समासाद्य लावत्यललिताकृतिम् ॥४०३॥ तां विलोक्य मनःसिन्धुचन्द्रिकां क्षुभितो नृपः । प्रणम्य तस्या जनकं मुनिं पप्रच्छ मङ्कणम् ॥४०४॥ भगवन्कस्य कन्येयमस्मिन्नपि तपोवने । यत्कटाक्षकृतालम्बो मुष्णाति मदनो जनम् ॥४०५॥ श्रुत्वेति भूपतेः कन्यालाभलोलुपचेतसः । मुनिः प्रोवाच तां तस्मै दातुमभ्युद्यतः स्वयम् ॥४०६॥ ममैवाप्सरसो वीक्ष्य मेनकां धैर्यविप्लवात् । सुतेयं कदलीगर्भा कदलीगर्भसंभवा ॥४०७॥ गृहाणेमां शशिमुखीं पात्रमेवासि भूपते । दुष्यन्त इव कण्वेन पुरा दत्तां शकुन्तलाम् ॥४०८॥ उक्त्वेति प्रददौ तस्मै स कन्यामायतेक्षणाम् । अप्सरःकल्पितोद्वाहां योग्यकौतुकमङ्गलाम् ॥४०९॥ भूभुजा सह तां गन्तुं प्रस्थितां शासनात्पितुः । ऊचुरप्सरसः स्नेहाद्दत्त्वास्यै सिद्धसर्षपान् ॥४१०॥पुत्रि भूयाः सपत्नीषु सावधानात्मरक्षणे । न सहन्ते हि मानिन्यः पत्युरत्नासमागम म् ॥४११॥ खिन्ना भर्तृगृहे सुभ्रु यदा पितरमेष्यसि । तदा मार्गोपदेशाय तवेयं सर्षपावलीः ॥४१२॥ इत्युक्ता ताभिरगमत्सा पत्युरनपायिनी । उदयाभ्युत्थितस्येव रक्ता भानुमतः प्रभा ॥४१३॥ सा राजधानीमासाद्य रुचिरोद्यानभूमिषु । रममाणा चिरं तस्थौ प्रियप्रणयपालिता ॥४१४॥ तस्यामासक्तमालक्ष्य नृपं त्यक्ताखिलक्रियम् । ज्येष्ठा नरेन्द्रमहिषी बभूव भृशदुःखिता ॥४१५॥ उवाच सास्रमेकान्ते सा समाहूय भूपतेः । सचिवानेकसक्तोऽयं क्ष्मापतिर्वार्यतामिति ॥४१६॥ तदाकर्ण्याब्रुवन्देवीं स्वैरमालोक्य मन्त्रिणः । वयं प्रणयिनि प्रेमच्छेदे न स्वामिनः क्षमाः ॥४१७॥ स्त्रियोऽत्र विनियुज्यन्ते भिक्षुकी वाथ तापसी । मायाकुहककौटिल्यकलाकोशा हि योषितः ॥४१८॥ श्रुत्वेति लज्जितेवासौ कृत्वा तद्वचनं हृदि । दम्भान्न युक्तिमित्युक्त्वा तान्विसृज्य तथाकरोत् ॥४१९॥ गर्भदासं विसृज्यासौ समाहूय सुपूजिताम् । सपत्नीपरिहाराय योजयामास तापसीम् ॥४२०॥ गर्भपातनसंस्थानवश्याकर्षणमारणैः । लब्धप्रतिष्ठा तत्कार्ये सा तथेत्याह पूजिता ॥४२१॥ तत्प्रतिज्ञाय सा पश्चात्तापं भेजे निजाश्रमे । कुहकाः प्रभवन्त्येते कथं नृपगृहे स्थितिः ॥४२२॥ रत्नमन्त्रौषधिप्रीतसदैवज्ञपुरोहिते । महाराजपुरे युक्ता नश्यन्ति क्षुद्रसिद्धयः ॥४२३॥ ध्यात्वेति दुःखिता प्रायात्सुहृदं साथ नापितम् । यो मायाडम्बरचयैर्धौर्त्यराशिरिवोत्थितः ॥४२४॥ तस्मै निवेद्य सा सर्वं राजपत्न्या विचेष्टितम् । कार्येऽस्मिंस्त्वं सहायो मे तमुवाचेति तापस्सी ॥४२५॥ स तन्निशम्य मनसा प्रदध्यौ हर्षसंप्लुतः । अचिन्ते तमिदं तेन दिष्ट्याहं स्वयमर्थितः ॥४२६॥ दिष्ट्या पिबामः खादामो वर्णयित्वा समञ्जसम् । पुण्यैरुपनमन्त्येव धूर्तानां जडबुद्धयः ॥४२७॥ चिन्तयित्वेति विश्रब्धं तां स सादरमभ्यधात् । स्थितोऽहमत्र निःशेषमायाकल्लोलसागरः ॥४२८॥ राजपत्न्या करिष्यामि सपत्नीविनिवारणम् । युक्तिज्ञः साधयिष्यामि सर्वं तव मनोगतम् । कर्णकौतुकमव्यग्रा मद्बुद्धिविभवं श्रृणु ॥४२९॥ दुःशीलनामा भूपालः पुरा मे वल्लभां रहः । सदा सिषेवे तद्दुःखादभवं शुष्कविग्रहः ॥४३०॥ वमनक्षालनक्षीणं विधायाहं ततो वपुः । अवदं भूमिपालेन पृष्टो दौर्बल्यकारणम् ॥४३१॥ भार्या मे डाकिनी रात्रावाकृष्याङ्गानि भक्षति । गुदद्वारेण तेनाहं विवर्णो निष्प्रभः कृशः ॥४३२॥ सशङ्कमिति राजानं विधायाहं स्वमन्दिरे । अवोचं साश्रुनयनो निजजायामधोमुखः ॥४३३॥ गुदे राज्ञः समुत्पन्नं दंष्ट्रायुगलमुत्कटम् । क्षुरं छिनत्ति सततं तेन मे कर्मकारिणः ॥४३४॥ वृत्तिच्छेदाद्विनष्टोऽहं शस्त्रभाण्डक्षये सदा । इति मद्वचसा साभूद्भूरिविस्मयकौतुका ॥४३५॥ ततो रहः समेतस्य रतौ सा भूपतेर्निशि । गुदं पस्पर्श हस्तेन सशङ्कस्य कुतूहलात् ॥४३६॥ ततस्तां डाकिनी मत्वा स पलाय्य ययौ जवात् । इति युक्त्यैव दयिता मया धूर्तेन मोचिता । बाढं देव्याः करिष्यामि निःसपत्नीभयं मनः ॥४३७॥ उक्त्वेति तापसीं पृष्टः प्रदध्यौ नापितः क्षणम् । राजद्रोहे न शक्तोऽहं किंतु जीवामि वर्णनैः ॥४३८॥ विचिन्त्येत्यवदद्युक्तिं नृपस्यान्तःपुरान्तिके । हस्तपादशिरःखण्डान्कांश्चित्क्षिपतु पौरुषान् ॥४३९॥ विलोक्य जातशङ्कस्तां सापवादां मुनेः सुताम् । दृढवर्मा नृपः कोपाद्ध्रुवं त्यक्ष्यति वल्लभाम् ॥४४०॥ इति तद्वाक्यमाकर्ण्य तापसी राजमन्दिरे । देवीहिताय तत्सर्वं चकारालक्ष्यचारिभिः ॥४४१॥ तद्विलोक्य नृपो घोरां तां मत्वा शाकिनीं वधूम् । सपत्नीरचितासत्यदोषां तत्याज मूढवत् ॥४४२॥ पितुराश्रममासाद्य सर्शपादिष्टवर्त्मना । न्यवेदयत्स्ववृत्तान्तमात्मनः क्षितिपस्य च ॥४४३॥ विज्ञाय स हि तद्वृत्तं दिव्यधार्यङ्कणो मुनिः । चकाराभ्येत्य यत्नेन संजातप्रत्ययं नृपम् ॥४४४॥ इति माया सपत्नीनां दुर्लङ्घ्या नृपमानसे । गच्छाम्यहं त्वया सुभ्रु स्थातव्यं सावधानया ॥४४५॥ वर्तमानां परगृहे त्वामहं समुपस्थिता । वारिता वल्लभेनाद्या सादयिष्यामि तं पुनः ॥४४६॥ इति सपत्न्याख्यायिका ॥१५॥ N/A References : N/A Last Updated : October 12, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP