संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| कलिङ्गसेनामदनवेगसमागमः मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो कलिङ्गसेनामदनवेगसमागमः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कलिङ्गसेनामदनवेगसमागमः Translation - भाषांतर इति मन्त्रिवचः श्रुत्वा प्रच्छन्नो ब्रह्मराक्षसः । कलिङ्गसेनाभवनं तत्प्रयुक्तः पुनर्ययौ ॥५०५॥ अत्रान्तरे स्मराकृष्टश्चिरान्न्यस्तमनोरथः । धीमान्न्मदनवेगाख्यो विद्याधरपतिः स्वयम् ॥५०६॥ वत्सेशवेशमाधाय निर्विशेषमवाद्रितः । कलिङ्गसेनाभवनं विवेश विशद्द्युतिः ॥५०७॥ कलिङ्गसेना तं वीक्ष्य ध्यात्वा वत्सनरेश्वरम् । ससंभ्रमं समुत्तस्थौ रणन्नूपुरमेखला ॥५०८॥ लज्जानतमुखाम्भोजां कम्पमानां घनस्तनीम् । गान्धर्वोद्वाहविधिना हृष्टस्तामालिलिङ्ग सः ॥५०९॥ तं दृष्ट्वा तूर्णमासाद्य प्राह यौगंधरायणम् । राक्षसो वत्सराजेन राजपुत्री वृतेति सः ॥५१०॥ असंभाव्यमिदं मन्ये नायं राजा विश्रृङ्खलः । ध्रुवं कश्चित्स तद्वेषो मन्त्री प्राहेति विस्मितः ॥५११॥ नृपं वासवदत्ताया मन्दिरे वीक्ष्य मन्त्रिणा । विसृष्टो राक्षसः प्रायाद्द्रष्टुं कपटकामुकम् ॥५१२॥ कलिङ्गसेनाभवने सोऽपश्यन्नृपरूपिणम् । विद्याधरेन्द्रं सुरतश्रमनिद्राविमोहितम् ॥५१३॥ इति कलिङ्गसेनामदनवेगसमागमः ॥१९॥ N/A References : N/A Last Updated : October 12, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP