संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| वैराग्यावदानम् मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो वैराग्यावदानम् क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत वैराग्यावदानम् Translation - भाषांतर कुर्मायः सप्त रूपिण्यो भूपालस्य हुकेः सुताः । ययुः श्मशानं वैराग्यात्त्यक्तसंसारवासनाः ॥१०२॥ स्वजनेनार्थिताः प्राहुस्ताः शरीरमिदं हि नः । अस्थिमांसशिराचर्मसंवीतमपि कुत्सितम् ॥१०३॥ अस्मिन्काये श्मशाने च को विशेषः प्रदृश्यते । पच्यन्ते सततं यत्र वह्निना सप्त धातवः ॥१०४॥ विरक्तो राजपुत्रः प्राङ्नियतो भिक्षुकव्रतः । दृष्टः प्रविष्टो भिक्षायै कयाचिद्वरयोषिता ॥१०५॥ तं रूपमिव रूपस्य यौवनस्येव यौवनम् । विलोक्य कामवशगा भिक्षादानोद्यताभवत् ॥१०६॥ अहो सुभग रूपं ते मानसामृतदीधितेः । वर्षतीवामृतं दृष्टिस्तव राजीवलोचन ॥१०७॥ इति लोचनसौन्दर्यविचाराधिकसस्पृहाम् । तां वीक्ष्य निजमुत्पाट्य लोचनाब्जमुवाच सः ॥१०८॥ चर्मावनद्धं पश्येदं वारि स्तोकं न लोचनम् । अस्मिन्मनोहरं मातः किं कुत्सितशरीरके ॥१०९॥ इति तस्य गिरा सापि विरक्ता जिनसाध(शास)नम् । प्रपेदे जन्मसंतापजरामरणवारणम् ॥११०॥ इति वैराग्यावदानम् ॥६॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP