संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः|

विक्रमसिंहाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


इति सत्त्वविशुद्धानां सतामायान्ति संपदः ।
त्यजन्ति सत्त्वहीनां स्तु दारा अपि निरादराः ॥६२॥
अस्ति गौरीव नगरी चन्द्रचूडस्य वल्लभा ।
श्रीमत्युज्जयिनी नाम जननी जनसंपदाम् ॥६३॥
तस्यां विक्रमसिंहोऽभूद्भूमिपालो महाबलः ।
निःशेषविजितारातिर्यस्य युद्धे मनोरथः ॥६४॥
दर्पकण्डूलदोर्दण्डं तं युद्धगतमानसम् ।
उवाचामरगुप्ताख्यः कदाचिन्मन्त्रिपुंगवः ॥६५॥
देव बाणोऽसुरः पूर्वं सहस्रभुजदुर्मदः ।
ययाचे त्रिपुरारातिं योद्धा मे दीयतामिति ॥६६॥
ततो नियुद्धसंबन्धयुद्धसंनद्धचेतसा ।
माधवेन निकृत्तास्य चक्रेण भुजमण्डली ॥६७॥
अभिमानोऽवमानाय दृप्तानामिह भूभुजाम् ।
युद्धप्रतिनिधिर्देव मृगयास्ति नृपोचिता ॥६८॥
मुनीनां प्रातिकूल्येन प्रमादाद्वरवाजिनाम् ।
राज्ञामतिप्रसङ्गाच्च मृगया दुःखदायिनी ।
तस्मान्मृगरणक्रीडां भज व्यसनवर्जितः ॥६९॥
इति मन्त्रिगिरा राजा सानुगः प्रययौ वनम् ।
कुञ्जरक्रोडशरभद्वीपिकेसरिसंकुलम् ॥७०॥
ततः कृतश्रमोऽभ्येत्य लीलाहतवनेचरः ।
विनिवृत्तो ददर्शाग्रे कथासक्तौ मिथो नरौ ॥७१॥
एकान्ते चिरसंलापौ तौ दृष्ट्वा शङ्कितो नृपः ।
चौराविति तदाह्वाने प्रतीहारमचोदयत् ॥७२॥
प्रतीहारसमाहूतौ सर्वास्थानं महीपतेः ।
ततस्तौ ब्राह्मणौ प्रातः प्रविष्टौ भयकम्पितौ ॥७३॥
दत्ताभये नरपतौ स्ववृत्तं कथ्यतामिति ।
तयोरेकोऽब्रवीद्राजन्श्रूयतां नौ विचेष्टितम् ॥७४॥
पितृभ्यां विप्रयुक्तोऽहं बालो विप्रः पुरा नृप ।
नियुद्धशस्त्रकुशलो द्यूतकृद्दुर्मदोऽभवम् ॥७५॥
याति काले नवोद्वाहामपश्यं पथि योषितम् ।
युग्याधिरूढां प्रत्यग्रमङ्गलाबद्धकङ्कणाम् ॥७६॥
अत्रान्तरे महावेगः स्फोटितालानश्रृङ्खलः ।
तां विवाहमहावाद्यकुपितः कुञ्जरोऽभ्ययात् ॥७७॥
त्यक्त्वा तां द्विरदत्रासात्प्रयातेष्वनुयायिषु ।
गजो जिघृक्षुस्तां प्राप मुखाब्जां नलिनीमिव ॥७८॥
दृष्ट्वाहमतिकारुण्यान्नादेनाहूय वारणम् ।
वञ्चयित्वा श्रमाभ्यासाद्विह्वलां ताममोचयम् ॥७९॥
तस्मान्महाभयान्मुकता सावदन्मां सुलोचना ।
वल्लभस्त्वं जनस्यास्य प्राणानामधुना विभुः ॥८०॥
त्यक्तास्मि येन संत्रासाद्धिग्धिक्तं कातरं नरम् ।
नाहं संदूषिता तेन न च स्प्रक्ष्यामि तं जडम् ।
प्रच्छन्नानुगतस्त्वं मामचिरात्समवाप्स्यसि ॥८१॥
इति मे संविदं कृत्वा संगता स्वजनेन सा ।
ययौ भर्तृगृहं तन्वी मय्येवार्पितमानसा ॥८२॥  
तामेवानुप्रयातोऽहं प्रेमपाशवशीकृतः ।
प्रच्छन्नवृत्तिर्बद्धाशः शून्यदेवगृहे स्थितः ॥८३॥
तत्रापश्यमिमं विप्रमहं प्रच्छन्नकामुकम् ।
तस्या भर्तुः स्वसुर्गूढरूढरागैकभाजनम् ॥८४॥
अनेन जातसौहार्द्रस्ततस्तां कामिनीमहम् ।
कृत्वा गूढमयं प्राप्तस्तापनिर्वापणौषधिमम ॥८५॥
जामिं च तस्याः प्राप्यायं सुहृन्मे निर्वृतोऽभवत् ।
तदर्थं देव संलापः शून्येऽभूच्चिरमावयोः ॥८६॥
श्रुत्वेति तद्वचो राजा तुष्टः सत्यनिवेदनात् ।
ताभ्यां वसु ददौ को हि सद्भावेन न तुष्यति ॥८७॥
इत्येवं सत्त्वसारेण प्राप्ता कान्ता द्विजन्मना ।
क्लीबेन सत्त्वहीनेन कातरेण तु हारिता ॥८८॥
इति विक्रमसिंहाख्यायिका ॥४॥

N/A

References : N/A
Last Updated : October 11, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP