संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| श्रुतसेनाख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो श्रुतसेनाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत श्रुतसेनाख्यायिका Translation - भाषांतर इत्यामन्त्र्य सखीं प्रयातायां विहायसा । सोमप्रभायां तत्सर्वमाकर्ण्य ब्रह्मराक्षसः ॥४४७॥ योगेश्वरः समभ्येत्य मन्त्रिणे दिव्यलोचनः । सख्योः परास्परालापं निवेद्य पुनराविशत् ॥४४८॥ वत्सेश्वरोऽपि तत्सङ्गदिनध्यानपरायणः । निनिन्द मनसा नित्यं गणकान्गणनापरान् ॥४४९॥ दृष्ट्वा वासवदत्तां स निर्विकारमवस्थिताम् । यौगंधरायणकृतां कांचिन्नीतिमशङ्कतः ॥४५०॥ तत्कारणं रहो राज्ञा पृष्टो यौगंधरायणः । प्राह देव मनस्विन्योर्देव्योः कोपो न लक्ष्यते ॥४५१॥ यत्सहासं मुखं कोऽपि स्त्रीणां मे नातिनिश्चतम् । मरणे व्यवसायस्य स कोपस्खलितः क्रमः ॥४५२॥ इत्युआदियुक्तिवचनैर्विनिधाय प्रभोर्मनः । स विवाहमहोत्साहे श्लथादर्मिवाकरोत् ॥४५३॥ वत्सराजस्ततो ध्यात्वा विमनाः प्राह मन्त्रिणम् । संदेहाकुलितो वाक्यं विलोल इव यद्यदः ॥४५४॥ भजमानां प्रणयिनीं यो मोहादवमन्यते । नमोऽस्तु षण्ढपशवे तस्मै कठिनचेतसे ॥४५५॥अस्मत्पुराणपुरुषः सोऽपि धीमान्धनंजयः । स्वर्गे रम्भामनादृत्य तच्छापात्षाण्ढ्यमाप्तवान् ॥४५६॥ चिन्ताज्वरो दुःसहोऽयं त्यज्यते च नृपात्मजा । त्यक्त्वा लक्ष्मीं स्वयं प्राप्तामनुतापं भजेन्न कः ॥४५७॥ इति वत्सेश्वरवचः श्रुत्वा मन्त्रीवरोऽवदत् । कन्दर्परूपो नृपतिः श्रुतसेनाविधोऽभवत् ॥४५८॥ कदाचित्तीर्थपूतात्मा दृष्ट्वा सोमेश्वरं प्रभुम् । अग्निशर्माभिधो विप्रस्तं यदृच्छागतोऽब्रवीत् ॥४५९॥ पञ्चतीर्थं नृप स्नात्वा यत्र ताः सव्यसाचिना । पूर्वमप्सरसो मुक्ता द्रष्टुं शर्वमहं गतः ॥४६०॥ दृष्ट्वा सोमेश्वरं देवं सुराष्ट्रामृतवारिदम् । भ्रान्तस्तालीवनालोलश्यामले जलधेस्तटे ॥४६१॥ ततः कदाचिल्ललितामपश्यं राजकन्यकाम् । राज्ञो वसन्तसेनस्य भुञ्जानस्तस्य मन्दिरे ॥४६२॥ भल्लीं कुसुमचापस्य वल्लीं यौवनशाखिनः । पल्लीं मदपुलिन्दस्य वीक्ष्य तां विस्मितोऽभवम् ॥४६३॥ परां रतिमिवालोक्य तां त्वां स्मृत्वा स्मरोपम म् । नृपतिः श्रुतसेनोऽस्या योग्य इत्यभ्यधां स्फुटम् ॥४६४॥ स भवानेव तत्कन्यां वर्तुमर्हति नापरः । इत्युक्त्वा तद्गिरा गत्वा तामयाचत तत्कृते ॥४६५॥ द्विजदौत्यवितीर्णां तां पित्रा प्राप नृपः प्रियाम् । विद्युद्द्योतां स्मरोद्यानविलासरसिकोऽभवत् ॥४६६॥ याति काले तयोः प्रौढं प्ररूढे प्रेमपादपे । अपरा विश्रुतगणं वरयित्री समाययौ ॥४६७॥ नवां नरेन्द्रतनयां प्राप्तां पत्युः स्वयंवरे । सा ज्ञात्वा प्रियसंभोगभङ्गभीताभवव्द्युसुः ॥४६८॥ तद्वियोगानलालीधो नृपोऽपि प्राप पञ्चताम् । वरयित्री च मानिन्या संशयाय निपातिता ॥४६९॥ इति श्रुतसेनाख्यायिका ॥१६॥ N/A References : N/A Last Updated : October 12, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP