संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| राजपुत्राख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो राजपुत्राख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत राजपुत्राख्यायिका Translation - भाषांतर इति विप्रगिरा राजा चिन्तां तत्याज निर्वृतः । कलिङ्गसेनां तनयां पश्यन्नयनचन्द्रिकाम् ॥१३७॥ सा पितुर्मन्दिरे बाला केलिलीलाविलासिनी । दृष्टा सौधस्थिता व्योम्ना कदाचिद्दैत्यकनका(या) ॥१३८॥ मयस्य तनया तन्वी साथ सोमप्रभाभिधा । कृत्वा मर्त्योचितं वेषं सख्यं चक्रे तया सह ॥१३९॥ तयोर्विश्वस्तसद्भावप्रेमप्रणयपल्लवा । संसिक्ता स्नेहपीयूषैर्ववृधे प्रेमवल्लरी ॥१४०॥ ततो मयसुता प्राह तां विश्वासकथान्तरे । राजपुत्रि सुगुप्तोऽयं संगमो मे प्रियस्त्वया ॥१४१॥ नास्मिन्राजगृहे स्थातुं शक्ता प्रकटिता त्वया । आशीविषगुहाघोरं राजगेहं सुदुःसहम् ॥१४२॥ नागर्यां पुष्करावत्यां गूढसेनो नृपात्मजः । मित्त्रं वणिक्सुतं चक्रे प्रणयेनार्थितं पुरा ॥१४३॥ संगतो राजपुत्रेण स्नेहसंमानकारिणा । मनसा स प्रियहितव्रतः सोऽभूद्वणिक्सुतः ॥१४४॥ राजपुत्रोऽपि जन्यर्थयात्रायां मित्त्रसंवृतः । उदयाद्रिरिव प्रायात्सितच्छत्त्रेन्दुमण्डलः ॥१४५॥ स व्रजन्पथि विश्रान्तः सैनिकैः सुहृदा सह । विवाहोत्कण्ठितो वीतनिद्रो धात्रीमभाषत ॥१४६॥ श्रुणु प्रहर्षजननीं कथामाश्चर्यशालिनीम् । इत्युक्त्वेवाभवत्क्षीबो भेजे निद्रां समाकुलः ॥१४७॥ धात्र्यामपि प्रसुप्तायामेक एव वणिक्सुतः । विनिद्रो निशि शुश्राव वाणीमाकाशयोषिताम् ॥१४८॥ अहो नु राजपुत्रेण कथिता नैव सा कथा । कौतुकाद्वयमायाताः सुप्तश्चैष मदाकुलः ॥१४९॥ आभाष्य कथयामीति मूर्खो यो याति मूकताम् । कौतुकाच्छ्रोतुमायातास्तं शपन्त्यनु देवताः ॥१५०॥ हारं वर्त्मनि संप्राप्य यदा कण्ठे करिष्यति । तदा तेनैव पाशेन कृतान्तमयमेष्यति ॥१५१॥ भक्षयित्वाम्रवृक्षस्य फलान्येष विनङ्क्ष्यति । अथ वास्योपरिगृहं क्षिप्रमेव पतिष्यतै ॥१५२॥ क्षुतशब्दशते नास्य जीवशब्दशतं न चेत् । कच्चिद्दास्यति तेनैव प्रयास्यत्येष पञ्चताम् ॥१५३॥ अस्य शापप्रतीकारं यः कुर्यात्पशुचेतसः । सोऽपि व्यसनमासाद्य संशये निपतिष्यति ॥१५४॥ श्रुत्वेति शापान्देवीभिर्वितीर्णान्सुहृदो मिथः । तत्प्रतीघातसंनद्धः स बभूव वणिक्सुतः ॥१५५॥ प्रभाते कृतयात्रोऽथ राजपुत्रः सहानुगः । यथोक्तमेव देवीभिर्हारं प्राप्य फलानि च ॥१५६॥ वणिक्पुत्रेण सहसा निषिद्धो नाग्रहीत्स तम् । महागृहनिपाताच्च तेनैवाभ्येत्य रक्षितः ॥१५७॥ ततः स विहितोद्वाहो नवकान्तासमागमः । उवास राजतनयः श्वशुरावसथे सुखम् ॥१५८॥ वणिक्पुत्रोऽपि रक्षायां तस्यासीच्छन्नविग्रहः । क्षुतो(सुप्तो) विनिद्रः शुश्राव क्षुतशब्दशतं निशि ॥१५९॥ जीव जीवेति शब्दानां स स्वैरं शतमभ्यधात् । इत्यस्य शापनिर्वाणं विदधे स सुहृद्वरः ॥१६०॥ ततः प्रभाते वि(प्र)च्छन्नो निर्गतोऽन्तःपुराद्वणिक् । दृष्टो राजसुतेनाशु क्रोधव्याकुलचेतसा ॥१६१॥ अयमन्तःपुरे पापच्छन्नो निशि करोति किम् । इत्युक्त्वा भृकुटीभ्रान्त्या दिदेशास्य वधं क्रुधा ॥१६२॥ स रजपुत्रवचसा गाढबद्धः पुरःसरैः । अचिन्तयदहो कष्टा नृणां राजकुले स्थितिः ॥१६३॥ व्यालाः सुखेन सेव्यन्ते वातोद्धूताश्च वह्नयः । नतु नित्यमदाध्माता राजानः कुटिलाशयाः ॥१६४॥ ध्यात्वेति दुःखसंतप्तो राजपुत्रमुपेत्य सः । हितं यया कृतं सर्वं तत्त्वमस्मै न्यवेदयत् ॥१६५॥ ततस्तत्त्वविचारेण राजपुत्रो वणिक्सुतम् । हितैषिणं प्रियं मित्त्रं प्रसाद्य मुदितोऽभवत् ॥१६६॥ इत्येवं राजभिः सख्यं सखि दुःखेन रक्ष्यते । को हि सुप्तेन सिंहेन कृतकण्ठग्रहः स्वपेत् ॥१६७॥ इति राजपुत्राख्यायिका ॥८॥ N/A References : N/A Last Updated : October 11, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP