संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|मदनमञ्चुकानामा सप्तमो लम्बकः| मार्जाराख्यायिका मदनमञ्चुकानामा सप्तमो लम्बकः रत्नदत्ताख्यायिका विप्रचण्डालाख्यायिका शिष्याख्यायिका विक्रमसिंहाख्यायिका क्षमावदानम् वैराग्यावदानम् सुलोचनाख्यायिका राजपुत्राख्यायिका पिशाचाख्यायिका स्वयंप्रभासमागमः कीर्तिसेनाख्यायिका हरिशर्माख्यायिका तेजोवत्याख्यायिका मूर्खाख्यायिका सपत्न्याख्यायिका श्रुतसेनाख्यायिका मार्जाराख्यायिका प्रसेनजिदाख्यायिका कलिङ्गसेनामदनवेगसमागमः पतिव्रताख्यायिका मदनमञ्चुकाजन्मकथा यक्षाख्यायिका यौवराज्याभिषेको विद्याकलासंक्रान्तिश्च योगनन्दाख्यायिका शत्रुघ्नाख्यायिका मदनमञ्चकाविवाहो मार्जाराख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत मार्जाराख्यायिका Translation - भाषांतर N/Aयौगंधरस्येति वचो निशम्य जगतीपतिः । स्मृत्वा देव्यौ च कन्यां च तस्थौ दोलाविलोलधीः ॥४७०॥ वीक्ष्य वासवदत्तां च सङ्गं तस्याः कथं नपः । प्रसन्नवदनोदारमभूत्तस्य मनोरथः ॥४७१॥ ततो योगेश्वरोऽभ्येत्य मन्त्रिणो रजनीचरः । चारमावेदयामास समेत्यालक्षितो निशि ॥४७२॥ गोपालकेन विदितश्चारः श्वसुरवेक्षणे । राज्ञा कलिङ्गदत्तेन पुत्रीवृत्तान्तमाहिताः । गूढव्यञ्जनसंचाराश्चारा दृष्टास्तथा मया ॥४७३॥ इति रक्षोवचः श्रुत्वा प्राह यौगंधरायणः । कलिङ्गसेनवृत्तान्तं यत्नेन ज्ञातुमर्हसि ॥४७४॥ त्वद्बुद्धिविभवेनाहं प्रभोर्व्यसनमागतम् । छेत्तुमिच्छामि राज्ञां हि दुश्चिकित्स्यः स्मरानलः ॥४७५॥ त्राणं नैसर्गिकी बुद्धिर्नृणामिति किमद्भुतम् । तिरश्चामपि निष्पन्ना व्यसनोच्छित्तये मतिः ॥४७६॥ न्यग्रोधमूलपतितः पालितो नाम मूषकः । जाले लोमशमार्जारं ददर्श पतितं पुरः ॥४७७॥ बद्धे तस्मिन्गताशङ्कः स जिघ्रन्स्वयमागतः । भुजैर्बहिश्चरन्नाशु विलिखन्नखरैर्महीम् ॥४७८॥ ददर्श नकुलं तत्रोलूकं च विकृताननम् । तौ दृष्ट्वा प्राणसंदेहे मूषकः समचिन्तयत् ॥४७९॥ नकुलोलूकभीतोऽहं मार्जारं बलिनां वरम् । श्रयामि विषमस्थानां संधिं स्थाने हि शत्रुणा ॥४८०॥ चिन्तयन्निति तत्पाशं छेत्स्यामि बद्धसौहृदः । मार्जारमवदन्नीलं काचकाञ्चनलोचनम् ॥४८१॥ अमित्रो मित्रतां याति मित्रं वा यात्यमित्रताम् । कालेन तस्य च्छेत्स्यामि पाशं ते बद्धसौहृदः ॥४८२॥ इति श्रुत्वा समधुरं मार्जारः सुहृदं व्यधात् । गाढमङ्के परिष्वज्य मूषकं विपदि स्थितः ॥४८३॥ तं दृष्ट्वा नकुलोलूकौ निराशावाखुभक्षणे । बभूवतुर्मन्दमुखौ तदुपाश्रयशङ्कितौ ॥४८४॥ ततः शनैः शनैराखुश्चिच्छेद स्नायुबन्धनम् । तूर्णमित्याह मार्जार विलावं चिरकारणम् ॥४८५॥ स्वार्थमुद्दिश्य लम्बन्ते स वा भक्तिभिरीश्वरम् । धूर्तस्तत्कार्यशेषेण यापयेत्कार्यकारणात् ॥४८६॥ इति ध्यात्वा धियैवाखुर्लुब्धकागमनावधि । एकपाशांशशेषं तं चकार नयकोविदः ॥४८७॥ कालाकारकरालेऽथ संप्राप्ते पाशजीविनि । चकर्त पाशशेषं तं छित्वैव बिलमाविशत् ॥४८८॥ भयान्मुक्तोऽथ मार्जारः कालेनाभ्येत्य मूषकम् । बिलद्वारस्थितः प्राह सखे निर्गम्यतामिति ॥४८९॥ तीक्ष्णवक्त्रोच्चदशनस्मश्रुसूचीनिभाननम्म । कक्षासंवृत्तलाङ्गूलं जिघ्रन्तं बिलसौरभम् ॥४९०॥ उच्चैकपादनिभृतं भीलितार्धविलोचनम् । पार्श्वावलोकिनं दृष्ट्वा मार्जारं मूषकोऽवदत् ॥४९१॥ सौहार्देनोपयुक्तः प्राक्तव चाहं भवांश्च मे । गम्यतां स गतः कालो न भूमिर्वञ्चनास्वहम् ॥४९२॥ यद्भवान्मधुरं वक्ति मह्यं तन्नाद्य रोचते । यातस्ते कार्यकालोऽसावधुना नास्ति संगतिः ॥४९३॥ निजप्रयोजनापेक्शापेशलप्रेमभाषिणाम् । दुर्लुब्धक्रूरमनसां धीमान्को नाम विश्वसेत् ॥४९४॥ कृतज्ञ भवे मे मित्रं दूरादेवार्यचेतसाम् । न सङ्गोऽस्ति विरुद्धो हि भोग्यभोक्तुः समागमः ॥४९५॥ निरस्य बहुभिर्वाक्यैर्मार्जारमिति मूषकः । बिलं तत्याज कालेन धूर्तं शत्रुं विलोक्य तम् ॥४९६॥ इति मार्जाराख्यायिका ॥१७॥ N/A References : N/A Last Updated : October 12, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP